________________ xx 56 6PM श्रीसोमतिलकसूरिविरचितं योगिनामिव तेषां तु निरुद्धेन्द्रियवर्त्मनाम् / जगृहे भूषणं हैमं गलादुत्सार्य लीलया॥ पृष्टास्तदा नरेन्द्रेण प्रभुश्रीहेमसूरयः / प्ररोहणावधिं शुष्कतरोगीतकलां जगुः / / *सोलाकेन तथेत्युक्ते भूमिपालस्तदादिशत् / कौतुकं दर्शयास्माकं पट्टबन्धं गृहाण // सोलाकोऽपि समानाय्य श्रीमदर्बुदपर्वतात् / शुष्का विरहकाख्यस तरोः शाखा नृपाङ्गणे // कुमारमृत्तिकाक्लप्तालवाले च नियोज्य ताम् / प्रोलसत्पल्लवां चक्रे गीतनादामृतप्लवैः॥ साधितः सचमत्कारं प्रभुश्रीहेमसूरिभिः / सोलाकः श्रीनरेन्द्रेण गन्धर्वाधिपतिः कृतः // 13. कदाचिदन्यदा सर्वावसरावस्थितं नृपम् / कोऽपि कुंकुणदेशीयः सिषेवे मागधोत्तमः // सोऽन्यदा कुंकुणाध्यक्षमल्लिकार्जुनभूपतेः / 'राज पिता मह' इति पपाठ विरुदं सुधीः॥ 55 अमर्षणः क्षमेन्द्रोऽपि बद्धवैर इवोरगः / सभासम्मुखमैक्षिष्ट कठोरतरया दृशा // ज्ञात्वा भर्तुरभिप्रायमाम्बडः सचिवाग्रणीः / चकाराञ्जलियन्धेन नमस्कारं' नरेशितुः // सभायां तु विसृष्टायां भूपतिर्विकसन्मनाः / पप्रच्छाअलिबन्धस्य कारणं सोऽप्यदोऽवदत् // स कोऽपि विद्यते मेव सभायां यो निहत्य तम् / समानयेदिति श्रुत्वा मुदितो गूर्जरापतिः॥ तमेव बहुसामन्तसहितं सैन्यनायकम् / विधाय प्रेषयामास कुंकुणान् काम्यसिद्धये // कादम्बिनी समुत्तीर्य नदी शिबिरमात्मनः / यावदावासयामास खामिसम्भावनाबली // तावदश्वखुरैः पृथ्वी जयभम्भामिवापराम् / वादयंस्तत्र संजग्मे मल्लिकार्जुनभूपतिः // प्रवृत्ते समरे सैन्यमाम्बडस्य दिशोदिशि / दुग्धं नकुलसञ्चारादिव वित्रोटमासदत् // पलाय्य धीसखः कृष्णवदनः कृष्णवस्त्रभृत / कृष्णच्छत्रः पुरासन्नमागत्य त्रपया स्थितः॥ सेनानिवेशः कस्यायमिति पृष्टे महीभुजा / विद्विषा परिभूतस्य श्रीमदाम्बडमत्रिणः // विस्मितस्त्रपया तस्य सप्रसादं पुनर्नृपः / तमेव कृत्वा सैनान्यं प्रैषीद् बहुदलान्वितम् // कालुम्बिनी समुत्तीर्य पद्याबन्धेन मत्रिराट् / युयुधे सह तेनैव स्वयं वीररसोत्कटः // 67 // प्रहारैः सिन्धुरस्कन्धान्निपात्यादाय मस्तकम् / रक्षामिव खशौर्यस्य स्वर्णेन तदयत्रयत् // आगच्छन् भृगुकच्छादिहट्टेषु न्यस्य मस्तकम् / प्रेक्षणं कारयामास जये को नाभिमन्यते // आलोचनापदेऽमुष्य मदस्थानस्य धीसखः / हेमसूरिगिरा तत्र तत्र चैत्यान्यचीकरत् // आज्ञां कौ मा र पा ली यां मण्डले तस्य दापयन् / आनर्च चरणौ राज्ञस्तच्छिरःकमलेन सः॥ द्वासप्तत्या निषण्णेषु सामन्तेषु च पर्षदि / सर्वस्खमुपदीचक्रे तदीयं भूभुजः पुरः॥ 720 तथा च 'शृङ्गारकोटिः' शाटिका गुणकोटियुक् / पटो 'माणिक्य'नामा तु हारः 'पापक्षयंकरः॥ 73 'योगसिद्ध्यभिधा' सिप्रा चतुष्टयमिदं तथा / षण्मूटका मौक्तिकानां चतुर्दन्तः सितो गजः // 34 द्वात्रिंशत्कलशा हैमा हेम्नां कोट्यश्चतुर्दश / सविंशति शतं पात्रप्रमदानामढौकत // 14. प्रीतस्तस्यावदातेन भूपतिः सर्वसाक्षिकम् / 'राज पितामह' इति तस्मै तद्विरुदं ददौ // 76 श्रीहेमचन्द्रसूरीन्द्राः कदाचित् पत्तनेऽन्यदा / स्वमात्रे पाहिणीनाम्यै सवतानशनं ददुः॥ 77. एककोटिनमस्कारपुण्ये मातुरुदीरिते / कारिताऽऽराधना पूज्यैर्दुःप्रतीकारितोचिता // जाते प्राणव्यये क्लुप्तं विमानं भविकैर्वरम् / महोत्सवेन महता सञ्चचार यदा पुनः॥ त्रिपूरुषमठस्याग्रे जटाधारिभिरुत्कटैः / स्वभावजातिवैरेण तद्विमानमभज्यत // 280 * A पतितोऽयं श्लोकः A आदर्शे। 1B चमत्कार। 2 B कालंबिणीं। 3 3 B सहितेनैव। 4 B कलशा हेमकोव्यः / 5 B°मढौकयत् / 6 B °दानेन। 7 A प्रतीकारोचिता। . . 66 270 71 75 79