________________ कुमारपालदेवचरितम्। 42020 तत्पदे नृपतिश्चक्रे वक्रेतरगुणं नवम् / सादिनं सामलामिख्यं कार्य भाग्यानुसारि यत् // कलहपश्चाननाख्यं सोऽपि प्रक्षरितं गजम् / विधाय सायुधं तत्र नृपासनमसजयत् // तत्रासीनश्च चौलुक्यचक्रवर्ती रणोत्सुकः / ददर्श विघटमानं सैन्यं चाहडभेदतः // समयज्ञस्तदा राजाऽऽदिदेश गजसादिनम् / एकाकिना मयैवाद्य योद्धव्यं रिपुभूभुजा // दूरात् सपादलक्षीयमुपलक्ष्य क्षितीश्वरम् / दधावे संमुखं तार्क्ष्य इव नागजिघृक्षया // खगजेन गजं शत्रोदन्तादन्ति नियोजितुम् / पुरतः प्रेरयेत्याशु निपादिनमभापत // तथा तमप्यकुर्वाणमूचे विघटितोऽसि किम् / सोऽपि विज्ञापयांचके राजानं रचिताजलिः // निषादी सामलो नाम करी चायं कदाचन / न शक्यते चालयितुं मर्यादाया इवाम्बुधिः // 22 किन्त्वग्रेऽस्ति गजारूढः कुमारश्चाहडो बली / हक्काया यस्य भज्यन्ते मदान्धा अपि सिन्धुराः॥ ततः कुमारपालोऽपि सिन्धुरश्रवणोपरि / खोत्तरीयं निचिक्षेप जयकेतुपटोपमम् // पुरः सृत्वा' गजोऽपि द्राक् दन्ताभ्यां प्रतिदन्तिनः / पद्यामिव व्यधादन्तः सञ्चाराय' जयश्रियः॥ चाहडः पूर्वभेदेन जानन् व(१ च)उलिगाभिधम् / यावता गूर्जरेशस्य गजमभ्येतुमिच्छति // 26 अपसार्य गजं तावत् सामलस्तमपातयत् / जगृहे तलवर्गीयैर्जीवग्राहं च पत्तिभिः॥ तमारोप्य गजे राजा जितं जितमिति ब्रुवन् / जयस्य सूचकं सद्यश्चेलाञ्चलमचालयत् // विष्वक् पलायमानेषु शत्रुसैन्येषु तत्क्षणम् / तदीयं सारमादाय निवृत्तो गूर्जरेश्वरः // . 611. आलिगाय कुलालाय स कृतज्ञतया ददौ / ग्रामसप्तशतीयुक्तां चित्रकूटस्य पट्टिकाम् // ते पुनर्निजवंशेन लजमाना समृद्धितः / अद्यापि ख्यातमात्मानं स ग रा इत्यजूहवन् // आच्छाद्य कण्टकैः क्षेत्रे यैस्तदानीं स रक्षितः / निजाङ्गरक्षकास्ते तु कृता विश्वस्तिभाजनम् // 32 612. सोलनामाथ गन्धर्वः स्वगीतकलयैकदा / सषोडशं द्रम्मशतं लेभे सन्तोषितान्नपात् // लजितस्तेन दानेन सोलकोऽप्यवहेलया / बालकेभ्यो ददौ तद्धि समादाय सुखाशिकाम् // राज्ञा निर्वासितो देशाद् गतो वाराणसी पुरीम् / भूमीन्द्रं जयतचन्द्रं शिश्राय गुणरागिणम् // 35 कलासन्तोषितात् तस्मान्मानशृङ्गारपूर्वकम् / गजेन्द्रं हस्तिनीयुक्तं गृहीत्वा पुनरागमत् // कुर्वन्नुपायने सर्व तं गन्धर्व पुनर्नृपः / मानयामास सन्तो हि सद्यो गुणिषु वत्सलाः // लब्धप्रतिष्ठः सोलाकः सोलासकलयोल्वणः / 'गान्धर्वज्ञानसीमायां सर्वत्र ख्यातिमासदत् // अन्यदा गायनाः केऽपि स्वकलोत्कर्षकाङ्क्षिणः / कृतबुम्बारवं राजपर्षयेवं बभाषिरे // देव ! त्वद्देशसीमायामुषिता मुषिता वयम् / पृष्टे केनेति भूभा हरिणैरिति तेब्रुवन् // ज्ञात्वा गान्धर्वकौशल्यव्यञ्जिका इति तद्गिरः / नृपोऽप्युलासितैकश्रुः सोलाकमुखमैक्षत // सोऽपि विज्ञपयांचके देव ! युक्तममी पुनः / दर्शयन्तु निजांश्चौरान वयमादातुमीश्महे // सोलाकेन समं तेऽथ प्रस्थिताः काननान्तरे / दर्शितास्तैर्मृगाः कण्ठे खेलत्कनकशृङ्खलाः॥ सोलाको गातुमारेभे काकलीध्वनिपेशलम् / सञ्जाता हरिणाश्चित्रलिखिता इव तत्क्षणम् // 44 खपुराभिमुखं गायन्नपासर्पद् यथायथा / प्रतिभूभिरिवाकृष्टा मृगा जग्मुस्तथातथा // 45 मध्येकृत्य पुरं 'राजमार्गे त्रिपथचत्वरान् / नीता राजसभां सभ्यस्तस्करा इव ते क्रमात् // सर्वेऽपि विस्मिता लोकास्तद्विलोक्य कुतूहलम् / मृगा न विविदुः किञ्चिद्गीतैकाग्र्येण मोहिताः॥ 47 36 1B स्मृत्वा / 2 A संचराय। 3 A जमाह। 4 B गन्धर्व। 5 B सोलास मुख। 6 B वैश्यत / TA राजमार्ग।