________________ श्रीसोमतिलकसूरिविरचितं श्यामां शाकुनिकस्तस्य स्मातां खानीयवारिणि / निरीक्ष्य सप्तदिवसाभ्यन्तरे राज्यमाख्यत // विज्ञप्तं तद्भगिन्याऽपि पत्युरपोऽपि पक्षभाक् / अस्यैव राज्यं नान्यस्येत्यूचे मण्डलनायकः // ततो महीतटाभिख्यदेशाध्यक्षेण सादरम् / राजानकेन विजयपालेनालोचमाचरत् // शुमेऽह्नि मिलितानेकप्रधानजनमण्डिते / प्रासादे श्रीजयसिंहह्मरी द्वावपि संगतौ // प्रधानरथ राज्यार्थमाहूतः परमार्हतः / महीपालः स तान् नत्वा प्राहादेशं प्रदत्त मे // तं दीनमित्यवज्ञाय रत्नपालमजूहवन् / नत्वा शम्भु ततस्तांश्च सोऽपि प्रोवाच पूर्ववत् // अथो कुमारपालाख्य आहूतः सोऽपि धीरदृक् / महेश्वरं नमस्कृत्य संवृत्य च पटाञ्चलान् // 87 सिंहासनसमासीनस्तानाह खजनानिव / क्रियतामभिषेको भोम्ततः कृष्णभटादयः॥ 88 मन्वाना राज्यधौरेयं गुणप्राज्यमजेयकम् / अभिषेकविधिं चक्रुर्मङ्गलध्वनिपूर्वकम् // -विशेषकम् / 89 तच्छीर्षे क्षेपिता मुक्ता सेतिकाऽभूत सपलिका / ततो जय जयेत्युक्त्वा नमे कृष्णभटादिमिः॥ 19 // कुमारपालभूपालो नान्दीनिर्घोषपूर्वकम् / पट्टहस्तिसमारूढो मण्डितो मण्डलेश्वरैः // धार्यमाणसितच्छत्रो वीज्यमानश्च चामरैः / गृह्णन् पौराशिषः प्राप राजप्रासादमण्डपम् ॥-युग्मम् / 92 कृतोपकारानाहाय्य सर्वानुपचकार सः / मुमोच सहकाराणामाज्ञासारः करं रयात् // अपुत्रिणां सर्वथापि मुक्त्वा निधनवद्धनम् / स धर्मी' विजयी राजा दिक्षु यात्रामसूत्रयत् // स प्राचीमादितः सिन्धुमाविन्ध्यं दक्षिणामपि / पश्चिमामासमुद्रं च कौबेरीमाम्लिशोऽजयत् // 95 // पञ्चाशद्वर्षदेशीयः प्रौढबुद्धितया नृपः / सर्वदेशखरूपज्ञः स्वयं साम्राज्यमन्वशात् // 69. 'तद्वधार्थमथामात्यवृद्धा भूपच्छलैषिणः / सान्धकारप्रतोलीषु मुमुचुर्घातकान् रहः // भाग्याकृष्टन केनापि ज्ञापितेऽर्थे महीपतिः / प्रविवेशापरद्वारा पुण्यं कुत्र न रक्षकम् // कृतद्रोहानथामात्यान् प्राहिणोद् यमपर्षदि / प्रभुतायाः परो धर्मो 'निग्रहानुग्रहो यतः॥ स कृष्णभटदेवस्तु सहजैः शालकोद्भवैः / सर्वदावसरे जाते नर्ममाण्युदाहरत् // 20.. रहस्यभाणि भूपेन सर्वमान्योऽसि भावुक ! / न च वाच्यमवाच्यं तु ममेत्थं मूलपर्षदि // 201 स तूत्कटतया मेने ममापि वचसा खलु / लजितोऽयं न जानाति तामवस्थां पुरातनीम् // 202 न वेद यन्नृपा-मि-स्त्री-विप्राः कस्यापि न खकाः / तथैव पुनराह स्म भाव्यं केन निषिध्यते // 203 परेद्यवि नृपादिष्टैमल्लैरङ्गैः श्लथीकृतैः / नेत्रयुग्मं च' निष्काश्य मन्दिराभरणीकृतम् // 204 ततो भीमभयभ्रान्तैः सामन्तैः स समन्ततः / सिषेवे सततं भक्ति विभाति भयं विना // 610. पूर्वोपकारकत्वेन स कृतज्ञशिरोमणिः / आलिगोदयनी चक्रे प्रधानौ मतिसत्तमौ // 206 उदयनस्य सूनुश्च वाग्भटो बुद्धिवाग्भटः / महामात्य[:] कृतस्तेन शतशाखो गरीयसाम् // 207 तद्वन्धुश्वाहडः सिद्धनरेन्द्रस्य सुतोपमः / नाज्ञां कुमारपालस्य भेजेऽल्पायुरिवौषधम् // 208 किन्तु मन्तुत्रपामम इव कालकटाक्षितः / गत्वा सपादलक्षीयक्षोणीपतिमशिश्रयत्॥ 209 श्रीमत्कुमारपालस्य सामन्तामात्यमण्डलम् / दानाद्यैर्भेदयामास सिन्धुपूर इवावनिम् // 210 // अन्यदा गूर्जरेशेन रणोत्कर्ष चिकीर्षुणा / तेन सीमान्तमानिन्ये स्वामिनः सबलो नृपः // 11 श्रीमत्कुमारभूपोऽपि चतुरङ्गचमूवृतः / अभ्यमित्रीणतां भेजे रौद्रो रस इवापरः // धरित्र्यां सजमानायां निर्णीते रणवासरे / कुमारपालभूपेन कस्मादप्यपराधतः // .. संतर्जितः पट्टहस्तिसादी वरचोउलिगाभिधः / अङ्कशं परितत्याज प्रतिज्ञामिव "निष्कुलः // 14 •एष श्लोकः पतितः A आदर्शे। 1 B धर्मविजयी। 2 A °माम्लेच्छेशो। 3 A तद्वधार्थ महामाल्यवृद्धा। 4A 'छलेक्षिणः / B"निग्रहानुपही। 6 B निवेदय। 7 B विनिःकाश्य। 8A सुकृतज्ञ। 9 B मशिधियत् / 10 A निष्कलः / Je 99 205 // 12