________________ 11 स्व . . कुमारपालदेवचरितम् / ततो द्वादशवर्षाणि प्रायश्चित्तेन तेन सः / अव्यक्तवेषो भ्रमितुं निर्जगाम स्वगच्छतः // पप्रमन्नवमे वर्षे कुडङ्गेश्वरमासदत् / बहुशोऽपि जनैरुक्तो न शम्भुं प्रणनाम सः // आगतो विक्रमादित्यो भूपतिस्तमदो वदत् / न किं सर्वजगत्पूज्यं शम्भुं नत्वा कृतार्थ्यसि // स प्राह मत्प्रणामस्य भवद्देवो न सासहिः / कथमित्यूचुषि क्ष्मापे स स्पष्टमपठन्मुनिः॥ खयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् / अव्यक्तमव्याहतविश्वदोषमनादिमध्यान्तमपुण्यपापम् // इत्यादि षोडशाधीते यावद्वात्रिंशकाम(ग?)ताः। पुस्फोट तावता लिङ्गं सूर्यालीढमिवाम्बुजम् // 55 द्वात्रिंशिकासु पूर्णासु द्वात्रिंशति च तत्क्षणम् / उद्ययौ धरणाधीशः श्रीपार्श्वप्रतिमाकरः॥ विभाव्यातिशयं दृष्टो विक्रमादित्यभूपतिः / तात्त्विकी देशनां श्रुत्वा संजज्ञे परमाईतः // शेषं वर्षत्रयीसाध्यं प्रायश्चित्तं महात्मनः / मुमोच सको धर्मस्य सर्वखं हि प्रभावना // अन्यदाऽतिशयज्ञानी स पृष्टस्तेन भूभुजा / किं भावी 'कलिकालेऽपि कोऽपि जैनो नरेश्वरः॥ 59 तदुक्तां गाथिकामेनां मण्डपेऽलेखयन्नृपः / जनेष्वेव कुमारोऽपि मेने ज्ञानं ततः परम् // 160 67. ततो पोसरि-भोपल्लदेवी-सजनसंयुतः / विधाय 'मझनेपथ्यमुज्जयिन्या विनिर्ययौ // 61 मध्ये कृत्य दशपुरं चित्रकूटपुरे ततः / शान्तिचैसे गुरो रामचन्द्रस्य वसतौ गतः // विलोक्यालिहं दुर्गमन्वयुक्त तदुद्भवम् / चित्राङ्गदनृपोपज्ञं शुश्राव स्वर्णपूरुषम् // 13 कन्यकब्जपुरं प्राप्तो बहुभूतैरधिष्ठितम् / दृष्ट्वा लक्षाम्रमारामं तत्रत्यानन्वय सः॥ तैरूचे सहकाराणां करो नात्रत्यमण्डले / अतोऽधिष्ठायका यत्र वसन्ति निरुपद्रवाः // 65 राज्ये जाते खदेशेऽहं मोक्ष्ये चूतकरं ध्रुवम् / विमृशनिति भूपालसूनुर्वाराणसी ययौ // वणिजा केनचित्तत्र वस्त्राणि ददिरे मुदा / लुण्यमानं द्वितीयेऽति तद्गृहं वीक्ष्य कंचन // पप्रच्छ किमिदमिति ?, प्रोचे तेनापि कोऽप्यसौ / अपुत्रोऽस्ति मृतस्तेन लुण्ठ्यते राजपूरुषैः // तहुःखवीक्षणोत्पन्नकृपश्चेतस्यकल्पयत् / न ग्रहीष्याम्यहं खीयराज्ये धनमपुत्रिणाम् // 69 मध्येऽथ पाटलीपुत्रं पुरं राजगृहं गतः / वैभारगिरिमारुक्षत् पश्यचित्रपरंपराम् // ययौ जयपुरे स्थाने नवद्वीपकनीवृति / कामरूपे ततोऽगच्छत् कामाक्षावीक्षणक्षणी॥ प्रशास्ति नागरूपेण यत्र राज्यं महीपतिः / भीत्या भौतिकदेवस्या'वर्जिते तत्र सोज्गमत् // 'बालवण्डाभिधानस हट्टे चर्मकृतो ययौ / उपानयुगलं रम्यं स तस्स पादयोन्य॑धात् / / ईगुपानदुचितं वेतनं दातुमक्षमः / इत्युक्ते कुमारणोच्चैश्चर्मकारोऽपि तं जगौ // तवैव पादयोः पनरूपयोरुचितं बदः / चेन्नास्ति मूल्यं तन्मेऽस्तु प्राभृतं तव पादयोः // यदा कुमारपालाख्यं राजानं गूर्जरावनौ / श्रोताऽसि चर्मकार ! त्वं शीघ्रमेयास्तदा मुदा // 68. अथ श्रीपत्तने सिद्धनृपधुगमने सति / आकर्ण्य पादुकाराज्यं विदंश्च समयं निजम् // प्रतिपन्नमातुलस्य सदनेऽपि द्विजन्मनः / कन्नाली-सिद्धपुरके मुक्त्वा सर्व कुटुम्बकम् // . कुमारपाल: श्रीकृष्णभटस्स भगिनीपतेः / गत्वा गृहे निशि निजां भगिनी पत्तनेज्नमत् // 79 -त्रिभिर्विशेषकम् / जामिः" प्रेमलदेवी तु गौरवेण सहोदरम् / संसप्य" भोजयामास स्नेहकृत्यमिदं यतः // 180 - - न / 1B "विश्वरोष। 2B निशाननाः। 30 किलकाले। 4 A"भावल। 5Aशेखनेपव 7 Bक्यावर्जिते। 8A पालना 9Bs 10 A यामि। 11 A बाप्प।