________________ 28. 31 33 // श्रीमोमतिलकसूरिविरचित मुअरचं सजयन्तं वेष्टितं श्वानडिम्भकैः / पितामह ! इति प्रोचुस्तं दृष्ट्वा परमायुषम् // पप्रच्छुरथ तं सर्वोदन्तज्ञापनपूर्वकम् / ‘ए के न ब्रुड ती'त्युक्त्वा शिरोनिर्गमकारणम् // विदेश इत्यगणितशूद्रदोषानमूनथ / आभीरो भोजयामास दक्षिणेत्यपदेशतः॥ ददौ च जातिवत्तेभ्यः श्वानडिम्भचतुष्टयम् / महामूल्यमिदं मार्गव्ययो वो येन शुद्ध्यति / बामणा अपि लोभेन गृहीत्वा तानथार्भकान् / तदुच्छिष्टं पपुस्तकं वृद्धदाक्षिण्यषाधया // अथ कट्यामुपादाय डिम्भांस्ते 'चलनाक्षमान् / प्रस्थिता निजदेशाय वृद्धेनानुगतास्ततः॥ कियन्तमपि पन्थानं सह गत्वा गरीयसि / व्यावर्तमाने तेऽप्यूचुः स सन्देहस्तथैव नः // वर्षीयानाह सन्देहापनोदायैव सर्वकम् / मया चेष्टितमेतावत् तन्न बुद्धं बुधैरहो!॥ वानगर्दभचाण्डालमद्यभाण्डरजस्खलाः / स्पृष्ट्वा देवलकं चैव सचेलं नानमाचरेत् // 27 न ज्ञानमेतद् 'ज्ञातं चेत् किं स्पृष्टाः शुनका अमी / बहुमूल्यत्वलोभनेत्युक्ते स पुनरभ्यधात् // वक्तुं भवत्सु विज्ञेषु युक्त्यैव खलु युज्यते / सर्वप्रसिद्धमेवेदं विश्वं ब्रुडति लोभतः // इति ते तेन वृद्धेन छिन्नसन्देहमोदिनः / विदधुः पुस्तकारूढमर्थमेनं सविस्तरम् // 130 ततो 'विज्ञापयामासुर्विज्ञाः सर्व महीपतेः / तेनोचे सत्यमेवं चेन्न पुनर्निर्गमिष्यति // तदर्थे श्राविते शीर्ष निवृत्तं मजनात् पुनः / प्रसिद्ध्यै स्थापितं चैये कुमार ! तदिदं शिरः // ' इत्यादिसारासारार्थविवेचनकुतूहली / योगीव भुवि बभ्राम कुमारो बहुवेपभृत् // 65. देशे श्रीमल्लिनाथाख्ये गतः कोलम्बपत्तने / सोमनाथेन तत्रत्याधीशः स्वप्ने न्यगपत // 34 प्रातरत्रैष्यति स्वामी भविष्यो गूर्जरावनेः / जटाधारी तदभ्यो दुर्लभा तादृशा नराः // 35 तेनापि स्थापिताः सर्वदिक्षु तद्दर्शिनो नराः / उपलक्ष्य समानिन्ये नृपपर्षदि तैरपि // 36 निवेश्यार्वासने भूमिपालेनाऽपि स सादरम् / राज्यार्धमर्थयांचके तदुक्त्वा शम्भुवाचिकम् / / 37 निषिध्य राज्यं तत्रास्थात् कुमारोऽपि यथासुखम् / भूयोऽप्यभ्यर्थितः प्राह कीर्तनं मे विधापय // 38 // दशगव्यूतविस्तारिवासे कोलम्बपत्तने / भूमिसङ्कोचतो राजा संक्षिप्य निजमन्दिरें // कुमारपालनामाकं प्रवर्त्य वरनाणकम् / कुमारपालेश्वराख्यं चारु चैत्यमचीकरत्॥-युग्मम् / 140 66. कीर्त्या प्रकाशयन् विश्वं प्रतिष्ठानपुरं गतः / द्विपञ्चाशतो वीराणां स स्थानाश्चर्यमैक्षत // 41 पुनरुज्जयिनीं प्राप्य संगतोऽभिजनैर्निजैः' / अन्यदा तत्पुरोद्याने कुडलेश्वरमासदत् // व्याप्तं सप्तफणैर्लिङ्गं तन्मध्ये स प्रणम्य च / प्रशस्ति वाचयंस्तत्र गाथामेनामवाचयत् // 43 पुन्ने वाससहस्से सयम्मि वरिसाण नवनवह अहिए। होही कुमरनरिंदो तुह विकमराय ! सारिच्छो // विमृश्य नामसादृश्यं वर्षाणां चापि पूर्णताम् / अन्वयुक्त तदर्थं स जैनान् सर्वज्ञपुत्रकान् // पूर्व प्रभावको जज्ञे सिद्धसेनो दि वा क रः / बुद्धिदर्पण' सोऽप्राक्षीदन्यदा खगुरूनिति // भवन्ति प्राकृता ग्रन्थाः पण्डितानां त्रपाकराः / प्राकृतं सर्वसिद्धान्तं संरकृतं करवाण्यहम् // प्रायश्चित्तं त्वया प्राप्तं वत्स! पारांचिकाभिधम् / कि नाभवन् न श्रुता वा प्राचीनाः सर्ववदिनः // 48 बालस्त्रीमढमाणां नृणां चारित्रकांक्षिणाम। अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥ P3 __ 1A दक्षिणत्युपदेशतः। 2 B चालना।B शानमनद ज्ञानं। 4 B विज्ञपया। 5 B°गन्यूति / 6B भरि। 7 Asपि निजजनः। 8 A बुद्धिदर्पणः। 9 B सर्वदेहिनः /