________________ 55 60 श्रीसोमतिलकसूरिविरचितं तत्रेश्वराभिधानस्य वणिजो वाटिकान्तरे / प्रविष्टः पक्कमाकन्दफलवृन्दजिघृक्षया // दृष्ट्वा च वणिगुद्दाल्य पटीं प्रसभमगृहीत् / न लेभे निःकृपात् तस्मात् पटीं चाटुशतैरपि // अयाक्रान्तो विषादेन निपादेनेव सत्रपः / कुमारः स्तंभतीर्थेऽगात् पटीं प्रावृत्य बोसरेः॥ 3. तत्र श्रीपूर्णतल्लाख्यगच्छोदधिसितद्युतीन् / कुमारपालः श्रीहेमचन्द्रसूरीनवन्दत // ज्ञानेन लक्षणैश्चापि विज्ञाय गुरवोऽपि हि / अनुगृह्याशिपं राज्यं शशंसुमितवत्सरैः // 58. अयोदयननामा खोपासको मत्रिसत्तमः / तदाऽभिवन्दितुं सूरीन् समियाय सुतैः सह // ऊचिरे गुरवो मत्रिन् ! कालाद् विक्रमभूभुजः / वर्षेनवनवत्योरेकादशशतैर्गतैः // मार्गशीर्षस्य कृष्णायां चतुर्थी मेषगे विधौ / मीने लग्ने कुमारस्य राज्यप्राप्तिर्भविष्यति // सार्वभौमो ह्यसामान्यो भविता परमार्हतः / तद् ध्रुवं मान्य एवायं समयः खलु दुर्लभः // ययाखैरं कुमारोऽपि तिष्ठनुदयनालये / प्रेषितान् सिद्धराजेन तत्राश्रौषीच घातकान् // ततो निर्गत्य पाथेयरहितो वटपद्रके / ग्रामे कचिद्देवकुलच्छायायां समुपाविशत् // खबिलान्मूषकस्तत्र द्रम्ममेकमुपाहरत् / तं मुक्त्वा बहिरन्यं च प्रविश्य पुनरानयत् // क्रमेण जाता द्वात्रिंशत् कृत्वैकं पुनरानने / बिलान्तः प्रविवेशाथ कुमारोऽपि व्यचिन्तयत् // यथैष' बहिरानिन्ये तथाऽन्तरपि नेष्यति / पशूनां चेष्टितं यस्मात् कार्याकार्यबहिर्मुखम् // पाथेयवर्जितोऽहं तद् द्रम्मान् मुञ्चे वृथा किमु / यदुक्तं पुरुषार्थेषु स्वार्थभ्रंशो हि मूर्खता // 68 // इत्यादत्ते कुमारस्तान् यावत्तावत् स मूषकः / सत्वरं बहिरायातो नेक्षते द्रम्मपुंजिकाम् // ततो दिङ्मूढवत् तत्र धत्तूरित इवाभ्रमत् / घातं घातं भुवः पृष्ठं खरवत् स लुलोठ च // मूर्छित्वा पुनरुत्थाय भ्रान्त्वा च परितो दिशः / मूषकः पञ्चतां प्राप बलीयान् मोहविभ्रमः॥ भ्रमन्नुर्वीमविश्रान्तं भीतभीतो नृपाङ्गजः' / त्रिदिनक्षुधितः क्वापि प्रान्तरे प्रातरेकदा // मुत्कलाप्य वधूं किञ्चिदिभ्यपुत्रं निजे गृहे / गच्छन्तं मुक्तधौरेयं भोजनासीनमैक्षत // -युग्मम् / 73 // जग्मुषे तत्र दीनाय कुमाराय नवोढया / दत्तं भर्तुरपगुत्य करम्बं करुणाजुषा // तृप्तस्ततो गतः क्वापि ग्रामेऽत्यर्थं बुभुक्षितः / "कडुयानामधेयस्य वणिजः प्रापदापणे // विशोपकैकचणकान् गृहीत्वा बुभुजे खयम् / मूल्यं मार्गयते तस्मै खड्गमड्डाणकं" ददौ // सदाचारं राजपुत्रं विमृश्य वणिगूचिवान् / आदत्व करवालं खं माङ्गल्ये चणकास्तव // तामेवोपकृतिं तस्य मन्वानोऽवसरोचिताम् / जटीभूय स कन्नाली-सिद्धपुर्यामथागमत् // सविताऽपि दिने क्षीणे पराश्रयमपेक्षते / इति सिद्धेश्वरार्चायां "नियुक्तस्तत्र तस्थिवान् // एकदा मरुदेशीयं तत्र शाकुनिकं जगौ / कदाचित् पदवीप्राप्तिर्ममापि भविता किमु // प्रातर्गतौ मिलित्वोभौ शकुनान्वेषणाय तौ / दुर्गा ददृशतुजैनचैत्योर्ध्वं शुभचेष्टिताम् // श्यामा स्वरद्वयं चक्रे चैत्यस्यामलसारके / ऊर्ध्व चटन्ती कलशे स्वरत्रयमुदाहरत् // शान्तचेष्टा पुनर्दण्डे चके खरचतुष्टयम् / शकुनज्ञोऽपि दृष्ट्वेति मुदितस्तमवोचत / मनीषितादप्यधिका कार्यसिद्धिर्भविष्यति / जिनधर्मप्रभावात्तु विशेषप्रतिभा तव / / सन्तोष्य शकुनाभिज्ञं कुमारो मधुरांतरः / गत्वोजयिन्यामेकान्ते सञ्जग्मे खजनैः सह // 85 भीत्या श्रीसिद्धराजस्य क्वाप्यवस्थातुमक्षमः / सर्वार्थसिद्धियोगीन्द्रं गत्वा कोलापुरेऽमजत् // 86 70 76 78 2 * 1B हाथ। 2 B पटी। 3 B मीनलगे। 4 A यद्येष। 5 B कार्य। 6A भ्राम्यं / 7 Bात्मनः / BBान्तरे कदा। 9 B जम्मचे तव दीठाव। 10 B कुडुआ। 11 B °मुडाणकं / 12 B नियुक्त।