________________ कुमारपालदेवचरितम् / युष्माकमाज्ञया युष्मत्समीपमुपतस्थिवान् / वशीकृतमिदं राज्यं तेनास्मिन्नन्तरे तव // 22 त्वय्यायातेऽपि निर्जित्य शत्रून् स किल भाषते / सिद्धराजं निहत्याहं दास्य' राज्यं स्वसूनवे // 22 विशिष्येति वचः क्रुद्धो नृपत्रिभुवनाभिधम् / घातकैर्षातयामास शेषेष्वपि जिघांसुधीः॥ 24 ततः कुमारपालोऽपि प्रेष्यावन्त्यां कुटुम्बकम् / मायाँ मुक्त्वा दधिस्थल्यां स्वयं पत्तनमभ्यगात्॥२५ स्थितं(तः 1) जटाधरीभूय मठे त्रिपुरुषाभिधे / तं ज्ञात्वा सिद्धभूपोऽपि क्षयाहे कर्णभूपतेः // 26 द्वात्रिंशता जटाभृद्भिः साधं गेहे निमश्य च / प्रत्येकं क्षालयामास तेषां पादौ नृपः स्वयम् // 27 विलोक्य राजचिह्नानि कुमारपालपादयोः / गूढाकारेङ्गितो' राजा वरभोज्यैरभोजयत् // 28 वधोपायचिकीद्धौंतोत्तरीयाहरणच्छलात् / यावत् कोशगृहेऽगच्छत् कुमारोऽपि हि तावता // 29 आदाय कुण्डिकां पाणौ वान्तिव्याजेन तत्क्षणम् / निर्गत्य सौधतोऽचालीद् ग्राम प्रति दधिस्थलीम् // 30 तमदृष्ट्वा नरेन्द्रोऽपि प्रजिघाय चमू स्यात् / तामासन्नां विभाव्योचे हालिकं रक्ष मामिति // 31 आच्छाद्य कण्टकैः सोऽपि ररक्ष क्षणमात्रतः / गुणाय खलु कल्पन्ते कण्टका अपि कहिंचित् // इतस्ततः परिभ्रम्य नृपसैन्यं न्यवर्तत / पुण्येषु जागरूकेषु जात्यन्धाः खलु शत्रवः॥ 33 कुमारोऽपि विनिर्गत्य दूरीकृत्योत्कटा जटाः / संजग्मे स्वजनैः सार्धं गत्वा ग्रामं दधिस्थलीम् // 34 भूयोऽपि पत्तनात् त्रस्तो भाण्डान्तर्विनिवेशनात् / सज्जनेन कुलालेन रक्षितो योगिरूपमाक् // 35 तथैव बटुरूपेण गतं ग्रामे यशोधने / दधिभाण्डेषु रक्षित्वा बोसरिर्मित्रतामगात् // . 36 सार्द्ध कुलाल-विप्राभ्यां सुहृद्भ्यामेकदा पुनः / समगंस्त' कुटुम्बस्य राज्योपायचिकीरथ // सज्जनेन कुलालेन विप्रबोसरिणा च सः / साधं मत्रयते यावत् देशान्तरविधित्सया // 38 तावत् तन्मत्रणोद्विनौ पितरावूचतुस्तराम् / किमनुत्पन्नपुत्रस्य नामवजागरौ मुधा // यद्वा राज्ये कुमारस्य बोसरे! लाटनीवृतम् / लप्स्यसे सज्जन ! त्वं च चित्रकूटस्य पट्टिकाम् // 40 श्रुत्वेति शकुनग्रन्थि बध्वा च नृपनन्दनः / सार्ध बोसरिणाऽचालीद् देशान्तरदिदृक्षया // 41 स्थितौ करौटकग्रामे प्रथमेऽह्नि बभक्षितौ / आछउल्यां पुनः प्राप्तौ यामयुग्मे परेचविः // 42 कुमारपालः प्राह स्म भोजनं कथमद्य भोः! / अस्ति मे शाश्वती माता भिक्षेत्याख्याय बोसरिः॥४३ प्रविश्य ग्राममादाय भिक्षां प्राप्तस्तदन्तिके / करम्बमाण्डं निकुत्य भिक्षाशुण्डीमदर्शयत् // भोजनान्ते क्षणं सुप्तो बोसरिमित्रवत्सलः / करम्बं बुभुजे यावदेकाकी पूर्वमुत्थितः // .. अल्पनिद्रः कुमारोऽपि तत् तथा वीक्ष्य चकृपे / अहो ! विप्रस्य सर्वेष्टा भोजनस्पृहयालुता // 46 विप्रोऽपि भोजने जीणे कुमारं प्राह भुज्यताम् / किमेकाकी पुरो भोक्षीरिति पृष्टः" पुनर्जगौ // 47 उक्तमिभ्यस्त्रिया मेऽद्य भिक्षां कर्तुमुपेयुषः / स्थितमस्थगितद्वारं भक्ष्यभाण्डमिदं निशि // ममात्रादूषणं भद्र ! गृह्यतां यदि वाञ्छसि / मेदं स्वादूषितं तेन प्रथमं भुक्तवान् स्वयम् // यतः-'यस्याधारण जीवन्ति शतानि खलु देहिनाम् / स एव शतनाशेऽपि रक्षणीयः प्रयत्नतः॥' अतः परीक्षितमिदं युक्तं भोक्तुं तथैव हि / अभ्यनन्द कुमारोऽपि मित्रं प्राणप्रियो भवान् // ग्राममेनं तवैवाहं दास्ये राज्ये सति ध्रुवम् / ततो डांगुरिकग्रामे संप्राप्तः सुहृदा सह // तत्र लक्ष्मश्रिया साध्व्या कृपयाऽभोजि मोदकैः / ग्रामेऽगात् पेटलापद्रे" तयैवार्पितशम्बलः // 53 39 1B राज्यं दास्ये। 2 B ख्ययाहे। 3A 'काराशितो। 4 B क्षणमाधवः। 5A बहुरूपेण। 6 A 'प्रियाभ्यां / TA समागत। 8 A प्रामयुग्मे। 9 B त्याख्यायि। 10 B पृष्टं। 11B वेटलापरे /