________________ श्रीसोमतिलकसूरिविरचितं कुमारपालदेवचरितम् / // नमः श्रीवीतरागाय // जब भीकुमारपालदेवचरित्रं व्याक्रियते / प्रपालयन्तोऽपि कलौ धरित्री स्वमजका एव परे' नरेन्द्राः / कुमारपालः परमाईतस्तु लोकं तथा खं च समुद्दधार // तथा हि११. स्वस्ति श्रीगोर्जरो देशो न लेशो यत्र पाप्मनाम् / पुरं सुरपुरप्रायं तत्राणिहिल्लपत्तनम् // अमूव भूपतिर्भीमदेवो भीमपराक्रमः / आतपत्रायितं मूर्भि ययशश्चन्द्रमण्डलम् // विमातृजी क्षेमराज-कर्णदेवी तदङ्गजौ / मिथः प्रीतिपरीणद्धौ दस्राविव बभूवतुः // भीमे दिवंगते क्षेमराजो राज्यक्षमो पि] हि / पित्रादेशात प्रीतितश्च कर्ण राज्ये न्यवीविशत // 5 राज्यं पालयतस्तस्य नीत्या कर्णमहीपतेः / जातोऽङ्गजो जयसिंहदेवनामा विविक्तधीः॥ श्रीकणे धुगते दैवाद् बालकोऽपि स एव हि / अभ्यषिच्यत' सामन्तैर्बलीयान् पुण्यवैभवः // वशीकृत्य चतुःसिन्धुसमर्यादां वसुन्धराम् / सिद्धवर्वरकः सोऽभूत् सिद्ध रा ज इति श्रुतः // 8 सिद्धराजः श्रीहेमसूरीनभ्यर्थ्य सादरम् / श्रीसिद्धहेमचन्द्राख्यं शब्दशास्त्रमचीकरत् // 9 इतश्च६९. देवप्रसाद' इत्यासीत् क्षेमराजस्य नन्दनः / तत्पुत्रश्च त्रिभुवनपालदेवा' प्रजाहितः // 10 // त्रयोऽभूवन् सुतास्तस्य प्रशस्यगुप्पसम्पदः / आद्यः कुमारपालोऽभूत् सार्वभौमगुणालयः // महीपाल-कीर्तिपालो जातौ तस्यानुजावुभौ / पदक्रमाविव स्पष्टं वेदवाक्यस्य संहतौ // 12 'भार्या भोपलदेवीति' भनी प्रेमलदेव्यभूत् / श्रीकृष्णभटदेवेन योदूढा मोडवासके // 13 अन्यदा सिद्धराजेन्द्रः पट्टे को भविता मम / दैवज्ञमिति पप्रच्छ सोऽपि ज्ञात्वेदमब्रवीत् // ग्रामे दधिस्थलीनाग्नि यस्ते प्रातृत्र्यनन्दनः / समृद्धमपि ते राज्यं तदायत्तं भविष्यति // तं हत्वाऽपि करिष्यामि निजराज्यं वपुत्रसात् / इति श्रीसिद्धभूपालः पुत्रप्रातिकुतूहली // पादचारेण कापोतीमुद्बहन् स्कन्धयोर्द्वयोः / प्रभासतीर्थे सद्भक्त्या सोमनाथमयाचयत्" // 17 उक्तं सोमेश्वरेणापि पर्याप्तं पुत्रकाम्यया / सृष्टः कुमारपालोऽस्ति मया राज्यधरः पुरा // 18 जीवत्यमुष्मिन्नो पुत्रसंपत्तिर्भविता" मम / चिन्तयन्निति भूपालो विषण्णः प्राप पत्तनम् // 19 रहस्सं मत्रिणोऽवोचत् सोऽप्याख्यदु देव ! युज्यते / विजेतुं मालवान् यूयं यदा पूर्वमुपस्थिताः॥ 20 // उद्धे बुद्धिल्लिकाघट्टे यशोवर्ममहीभृता / राज्यं न्यस्य त्रिभुवनपालेऽहमपि तत्क्षणात् // 21 1Bममो वीतरागाय। 2 Bअत्र च। 3 B पर। 4 B अस्ति। 5 A अभिषिच्यत्। 6 B देवपासार। 1B पाल: देवः। 8A भावलदेवी। 9 B मोढवासके। 10 A"मयात्रयत् / 11 B भवता / 15. .पा.१.२