________________ कुमारपालदेवचरितम् / यया चित्रगिरेः पार्थे कूटशैलोऽस्ति दुर्गमः / तस्योपरि महादुर्ग कारयाभङ्गुरोधमः // मत्रिणाऽपि तथारब्धे यावच्चेचीयते दिवा / तावन्निपतति रात्रौ पण्मासा इति जज्ञिरे॥ तथाप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः / उवाच माग्राम्य (?) दुर्गमत्र कर्तुं न कोऽप्यलम् // 61 प्राणात्ययेऽपि कर्ताऽस्मि नृपेणोक्ते सुरोब्रवीत् / यद्येवं निश्चयस्तर्हि कुरु चित्रनगोपरि // .. 62 दुर्गस्य नाम मध्ये तु देयं मे नाम भूपते ! / ततश्चित्राङ्गदश्चके दुर्ग चित्रनगोपरि // चित्र-कूटेति दत्ताख्यं देवेन तदधिष्ठितम् / कोटीध्वजानां यन्मध्ये सहस्राणि चतुर्दश // लक्षेश्वराणां योग्या च कारिता तलहट्टिका / वापीकूपसरोमुख्यं शेषं देवेन निर्मितम् // 69. इतश्च स्वर्णपुरुष सिद्धं चित्राङ्गदस्य तम् / ग्रहीतुं कन्यकुजेशः शम्भलीशनृपो बली // 66 अरोत्सीद् दुर्गमागत्य ततश्चित्राङ्गदोऽपि हि / नियत्रितपुरद्वारो लसत्युपरि निर्भयः // 67 चाराः कौरिकवेषेण वर्षेः कतिपयैः पुरम् / प्रविश्य शुश्रुवुर्वार्ता गृहे शुल्काधिकारिणः // 68 गवाक्षस्था मत्रिपुत्री लालयन्ती सुतं निजम् / भाषते तात! किं नैते मुच्यन्ते वणिजारकाः // 69 हसित्वा तत्पिताहैते न वत्से ! वणिजारकाः / शम्भलीशचमूरेषाऽवात्सीद् दुर्गजिघृक्षया // 170 वत्से ! जन्म यदा तेऽभूत् तदेदं सैन्यमागतम् / त्वमूढा पुत्रवती वत्से ! जाता चैतत् तथैव तु // 71 तच्छ्रुत्वा शम्भलीशोऽपि ससैन्यो दुर्गगोपुरे / प्रोक्तो गवाक्षस्थवर्करीवेश्यया यतः॥ 72 गंडूपदः किमधिरोहति मेरुशृङ्गं किंवा रवेरजगरो निरुणद्धि मार्गम् / .. शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश!॥ 73 अथापसृत्य राज्ञाऽपि प्रेषिता गूढपूरुषाः / समर्प्य प्राभृतं तस्याः प्रोचुः स्वामिनि ! नः प्रभुः // 74 जित्वा चित्राङ्गदं दुर्ग जिघृक्षुस्त्वत्प्रसादतः / तत् प्रसीदादिशोपायं साऽपि हृष्टा जगाद तान् // 75 सर्वाः प्रतोलीरुद्घाट्य पूरितार्थिमनोरथः। भुते चित्राङ्गदो नित्यमागन्तव्यं तदा त्वया // विवृणोमि गवाक्षस्था यदा केशानहं तदा / ज्ञेया भोजनवेलाऽथ तं ज्ञात्वा शम्भलीशकः॥ 77 वर्करीगणिकाभेदात् द्वितीये जगृहेऽह्नि तम् / दुर्गतश्च चित्राङ्गदो गृहीत्वा स्वर्णपूरुषम् // क्षीरकूपे ददौ झम्पां तच्छ्रुत्वा शम्भलीशराट् / क्षीरकूपाजलं कृष्ट्वा दृष्ट्वा तं स्वर्णपूरुषम् // . यावत् कर्षयते तावत् पुनः पूर्णः स कूपकः / विलक्षः सोऽथ चित्राङ्गसुतं वाराहगुप्तकम् // 180 संस्थाप्य च स्वयं राज्ये कन्यकुब्जं पुनर्गतः / स्वभार्याग्रेऽपठदुर्ग (2) भद्रो वादीश्वरोऽन्यदा // 81 _ 'चित्रकूटमिदं भद्रे ! पृथिव्यामेकलोचनम् / द्वितीयलोचनस्यार्थे तपस्तपति मेदिनी // 82 कुमारः सपरीवारस्तच्छ्रुत्वाऽऽरुह्य तं नगम् / विस्मितः सर्वतो वीक्ष्य दिग्नागान् संजगाद च // 83 शैलाः सर्वे गण्डशैलानुकाराः वृद्धा ग्रामाः क्षामधामोपमानाः / कुल्यातुल्याः प्रौढसिन्धुप्रवाहाः संदृश्यन्ते दूरतोऽत्राधिरूढः॥ 610. ततस्तदीक्षासोत्कण्ठः कन्यकुब्जपुरं ययौ / चूतानां लक्षशो वीक्ष्य लक्षारामान् सविस्मयः / / 85 पप्रच्छ कञ्चित् किं चूता दृश्यन्ते गणनातिगाः / सोऽप्यूचे न करोत्रास्ति चूतानां तद् घना अमी // 86 राज्येऽहमपि चूतानां कर मोक्ष्ये खनीवृति / विचिन्त्येति कुमारोऽगात् कासीं निर्भरवेषभृत् // 87 भ्रमन्नेकेन वणिजा वस्त्रायः सत्कृतः कृती / द्वितीयेऽह्नि लुण्ट्यमानं तगृहं वीक्ष्य दुःखितः // 88 कंचित् पप्रच्छ किमिदं सोचेऽद्यापुत्रको वणिक् / मृतोऽसौ तद्गृहं तेन लुण्ट्यते राजपूरुषैः // 89 कुमारोऽचिन्तयदसौ धिग्! राज्यं यदपुत्रिणाम् / म्लेच्छानामिव सर्वखं राजा गृह्णाति पुत्रवत् // 190 -