________________ पुरातनं संक्षिप्त सोचे (1) तथापि तेऽभीष्टं कुमार ! किं करोम्यहम् / कुमारः प्राह येनात्र ज्ञायते मे समागमः // 26 दशगव्यूतिविस्तारे कोलम्बपत्तनान्तरम् / भूमीमप्राप्य राज्ञाऽथ सङ्कोच्य निजमन्दिरम् // 27 कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः / कुमारपालनामाकं नाणकं च प्रवर्तितम् // 28 17. ततः कुमारो निर्याय प्रतिष्ठानपुरं गतः / द्विपञ्चाशद्वीरकूपाद्याश्चर्याणि तु वीक्ष्य सः // 29 प्राप्तः क्रमेणोजयिन्यां निजस्वजनसन्निधौ / भ्रमंस्तत्रान्यदा यातः कुडंगेश्वरमन्दिरे // 130. प्रणम्य लिङ्गं तन्मध्ये व्याप्तं सप्तफणाकुरैः / वीक्ष्य प्रशस्ति तन्मध्ये गाथामेतामवाचयत् // 31 - पुन्ने वाससहस्से सयंमि वरिसाण नवनवइ अहिए। होही कुमरनरिंदो तुह विकमराय ! सारिच्छो // आत्मनो नामसाम्यं च वर्षाणां वीक्ष्य पूर्णताम् / गाथार्थ कुमारोऽपृच्छजैनदर्शन(नि)सन्निधौ // 33 सोऽप्याख्यत-'पूर्वमत्रासीत सिद्धसेनदिवाकरः। विक्रमादित्यभपस्य तेनाऽभ्यर्थनया किल॥ 34 // द्वात्रिंशद्-द्वात्रिंशिकाभिर्वीतरागः स्तुतस्ततः / कुडंगेश्वरलिङ्गं च स्फुटितं तस्य मध्यतः // : 35 आविरभूद्धरणेन्द्रः श्रीपार्श्वप्रतिमाकरः / तं दृष्ट्वा विक्रमादित्यभूजानिः परमार्हतः // . . 36 तेनैकदा सिद्धसेनः पृष्टः किं कोऽपि भारते / अतः परं जैनभक्तः सार्वभौमो भविष्यति // 37 श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता / राज्ञा च लेखितात्रैव-' तच्छ्रुत्वा कुमारोऽवदत् // . . .38. 'आर्हतानामहो शक्तिरहो ज्ञानमहो व्रतम् / अहो परोपकारित्वं किममीषां हि नाद्भुतम् // ' 39.. 68. ततः सज्जन-भोपल्लदेवी-बोसरिभिः सह / धृत्वा निर्भरवेषं स उज्जयिन्या विनिर्ययौ // 140 मध्ये दशपुरं भूत्वा चित्रकूटनगं गतः / शान्तिचैये श्वेतभिक्षो रामचन्द्रस्य सन्निधौ // जातचित्रश्चित्रकूटदुर्गोत्पत्तिमपृच्छत / रामोऽप्यूचे-'इतः कोशत्रयेऽभून्मध्यमा पुरी // 42 तत्र चित्राङ्गदो राजा सोऽन्यदाऽभिनवैः फलैः / योगिना व्याघ्रयुक्तेन षण्मासावधि सेवितः // 43 पृष्टो हेतू रहो राज्ञा योग्यूचे मत्रसिद्धये / द्वात्रिंशल्लक्षणवतः सान्निध्यात् तेऽभवच्च सः॥ 44 // यतः कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि / मम सिद्ध्यति मन्त्रश्चेत् त्वं तत्रोत्तरसाधकः // ओमित्युक्त्वा नरेन्द्रेण स योगीन्द्रो व्यसृज्यत / राजपत्यान्तरितया तच्छ्रुत्वाऽवाचि मत्रिणे // 46 उवाच मत्री ज्ञाप्योऽहं यदा तत्र व्रजेन्नृपः / ततो यथोक्तवेलायां खड्गव्यग्रकरो नृपः॥ 47 एकाकी निर्ययौ छन्नो राजा ज्ञात्वा च मत्र्यपि / दक्षो नरेन्द्ररक्षार्थ नृपेणालक्षितोऽन्वगात् // 48 . नृपोऽपि चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् / व्याघ्रं च होमसामग्री ततोऽजल्पत् करोमि किम् // 49 // रक्षार्थ होमसामग्र्या मुक्त्वा तत्र नरेश्वरम् / योगी जलार्थ सव्याघ्रः क्षीरकूपं गतः स्वयम् // 150 . इतश्च प्रकटीभूय नत्वोचैर्मत्रिणा नृपः / देवोपकरणैरेभिः साध्यते स्वर्णपूरुषः // 51 तत्तं सिसाधिषुर्योगी होमित्वा त्वत्तनु ध्रुवम् / ततो यतस्व रक्षायै इत्युक्त्वाऽन्तरितोऽथ सः॥ 52 राज्ञा सह ततः सात्वा जलमानीय योगिना / विलेपनैर्विलिप्याङ्गं होमार्थ ज्वालितोऽनलः // 53 उक्तश्च राजा-त्वं देव ! प्रतिपन्नैकवत्सलः / तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् // राजा सशस्तं प्राह-'त्वं योगिन् ! अग्रतो भव / ' ततो योगी तथा कुर्वन्न च्छलं प्राप भूपतः // 55 अथ व्यावृत्य सहसा नृपं यावज्जुहोति सः / तावन्नृपेन्द्र-मत्रिभ्यां स एवाग्नौ हुतो हठात् // व्याघ्रोऽप्यनुप्रविष्टस्तं जातोऽथ स्वर्णपूरुषः / सम्पूज्य तं गृहीत्वा च राजाऽगात् मध्यमां पुरीम् // 57 पन्छन् यथेच्छं द्रविणं ख्याति स प्राप सर्वतः / ततः स्वऋद्धिरक्षार्थमादिदेशेति मत्रिणे // 58 54..