________________ कुमारपालदेवचरितम् / सिद्धमत्रः कुमारोऽथ नत्वा सर्वार्थयोगिनम् / कल्याणकटके देशे क्रमात् कांचीपुरी ययौ // 96 __पुष्पेषु जातिनगरीषु कांची नारीषु रंभा पुरुषेषु विष्णुः / सतीषु सीता द्रुषु कल्पवृक्षो जिनस्तु देवेषु नगेषु मेरुः // ..:65. कुमारः कौतुकात् तस्मात् भ्रमन् परिसरेऽन्यदा / कबन्धमेकमद्राक्षीत् वैरिणापास्तमस्तकम् // 98 ___ तत्पार्चे मिलितः स्त्रीणां शुश्रावान्योऽन्यजल्पितम् / 'अहो केशकलापोऽस्य अहो श्रवणलम्यता // 99 अहो घनत्वं कूर्चस्याहो ताम्बूलव्यसनिता / अहो विरलदन्तत्वं!' श्रुत्वैति च स ता जगौ // 100 कथमेतत् ततस्ताश्चावोचत्-'किं चित्रमत्र यत् / दीर्घ वेणीसलं पृष्ठे स्कन्धे कुण्डलयोः किणे // 101 आनाभि हृदि गौरत्वाद् दृष्यते स्मश्रुणः सलम् / ताम्बूलव्यसनाच्चैपोऽङ्गुष्ठश्चूर्णेन चर्चितः // 102 नित्यं विरलदन्तानां क्षित्यारक्ता कनिष्ठिका / ' तच्छ्रुत्वा चिन्तयदसौ बहुरत्ना वसुन्धरा // 103 कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे / तीरदेवकुले गत्वाऽर्च्यमानं ददृशे शिरः // 104 तस्येतिवृत्तं पृष्टश्च कश्चन स्थविरोऽवदत् / 'पुरेह प्रवरो राजा कारिते सरसि स्वयम् // 105 पद्मकोशाद् विनिर्गत्य शीर्षमेकं सकुण्डलम् / त्रिःकृत्वो ब्रुड ती त्युक्त्वा निमजद् ददृशेऽन्वहम् // 106 तदर्थ पण्डितैः पृष्टैः प्राप्य मासचतुष्टयम् / तद् ज्ञातुं प्रस्थिता विप्राश्चत्वारो वृद्धसन्निधौ // 107 यतःयदेकः स्थविरो वेत्ति न तत्तरुणकोटयः। नृपं यो लत्तया हन्ति वृद्धवाक्यात् स पूज्यते // .. ततो गत्वा मरौ देशे स्थविरः कोऽप्यपृच्छ्यते / स्वपिता दर्शितस्तेन तेनापि स्वपितामहः॥ 109 सविंशतिशतवर्षदेशीयस्यास्य सन्निधौ / विगैरप्रच्छि शीर्षस्य ब्रुड ती त्युक्तिकारणम् // 110 सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् / गृह्णीतेदं महामूल्यं शुद्ध्यत्यध्वव्ययो यतः // 11 लोभाद् विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् / व्याघुटन्तं वृद्धमूचुः स सन्देहस्तथैव नः // 12 संशयश्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः / कथं स ऊचे शास्त्रज्ञा अपि तदपि वित्थ न // यत उक्तम्श्वानगईभचाण्डालमद्यमांसरजस्वलाः। स्पृष्ट्वा देवलकं चैव सचेलस्लानमाचरेत् // शास्त्रनिषिद्धः संस्पर्शो विप्राणां युज्यते कथम् / तेऽप्यूचुबहुमूल्यानि श्वडिम्भानि त्वमप्यधाः // ततोऽस्माभिर्गृहीतानि लोभाद् विक्रियते न किम् / ऊचे वृद्धस्तदेवेदं विश्वं ब्रुडति लोभतः॥ इति ते छिन्नसन्देहाः कुमारहागताः पुनः / पण्डितैः पुस्तकेष्वेष लिखितोऽर्थः सविस्तरः॥ राज्ञोऽदर्शि नृपोऽप्याह सत्यमेतत् शिरो यदि / श्रुत्वैनमर्थ न पुनः सरसो निस्सरिष्यति // तथाकृते तथायाते चैत्यं निर्माप्य भूभुजा / देवस्थाने स्थापितं च शीर्षमेतत् प्रसिद्धये // 19 तच्छुत्वा विविधाश्चर्यदर्शनाजातनिश्चयः / किञ्चित्कालं कुमारोऽपि काभ्यां स्थित्वा विनिर्ययौ // 120 66.. मल्लिनाथजनपदे स्थित्वा कोलम्बपत्तने / सोमनाथेन कोलम्बस्वामी स्वप्ने न्यगद्यत // 21 भविष्यो गूर्जरात्रायाः स्वामी श्वस्तव पत्तने / समेष्यति जटाधारी विधेयं तस्य पूजनम् // 22 चतसृषु दिक्षु मुक्तैः पुरुषैः पुरसीमनि / यथोक्तलक्षणो वीक्ष्य कुमारो भक्तिपूर्वकम् // आहूय नृपतेः पार्थे समानिन्ये ततो नृपः / अभ्युत्थाय स्वकीयार्द्धासने तं स न्यवेशयत् // 24 निगद्य शम्भोरादेशं राज्ञा राज्ये निमत्रितः / निषेध्य कुमरस्तस्य पार्थे तस्थौ यथासुखम् // ..