________________ 72 पुरावनं संक्षिप्तं सजनं भोपलदेव्या सह प्रैषीदवन्तिकाम् / स्वयं योसरियुक्तस्तु चेले देशान्तरं प्रति // 62 आधेऽह्नि करौटग्रामे उषित्वा जातलङ्घनौ / अच्छचोल्यां द्वितीयेऽह्नि प्रयाती प्रहरदये // 63 कुमारो बोसरिं प्राह अब सादोजनं कथम् / सोऽप्याहास्ति जननी मे सा मे दास्यति भोजनम् // 64 यतः-प्रतिदिनप्रयनसुलभे भिक्षुकजनजननि साधुकल्पलते।। नृपनतिनरकतारिणि भगवति भिक्षे ! नमस्तुभ्यम् // इत्युक्त्वा वोसरिर्भिक्षां कृत्वाऽऽयातस्तदन्तिके / करम्भकुम्भी संगोप्य भिक्षासुंडीमुपानयत् // 66 भुक्त्वोभावपि सुप्त्वाथ पूर्वमुत्थाय योसरिः / करम्मं यावदनाति कुमारोऽचिन्तयत् तदा // 67 अहोऽस्याङ्नता येन सुप्ते मय्येककोऽत्यसौ / जीणे करम्भे सोऽप्याहोत्तिष्ठ भुंक्ष्व नृपात्मज! // 68 ऊचे कुमारः किं पूर्वमेकाकी भुक्तवान् भवान् / स ऊचेऽद्य मम भिक्षागतस्योक्तं स्त्रियैकया // 69 'करम्भकुम्भं हे विप्र! रात्रावुद्घाटितं [स्थितम्] / गृहाण यदि ते कार्य न पुनर्दूषणं मम // 70 गोपितः स मयादाय स्वयं भुक्त्वा परीक्षितः / वरं भवतु मे मृत्यू रक्षणीयो भवान् पुनः॥ राज्ये दास्ये तव ग्राममेनमुक्त्वेति राजसूः / प्राप्तो डांगुरकग्रामे साध्वीलक्ष्मीश्रियो मठे // 72 तया च क्षुधितो ज्ञात्वा भोजितश्चारुमोदकैः / तयैवार्पितपाथेयः पेटलापद्रकं गतः // तत्रेश्वरवणिग्वाट्यां प्रविष्टस्य पटी गता / न लब्ध्वा चाटुभिरपि विषादोऽस्य ततोऽभवत् // प्रावृत्य बोसरिपटीं स्तंभतीर्थे गतस्ततः / श्रीहेमसूरीन् पप्रच्छ कदा सेत्स्यति वाञ्छितम् // 75 तेऽप्यूचुः कतिपयैस्ते वर्षे राज्यं भविष्यति / स प्राह राज्यसन्देहो मृ(मि)यते तु क्षुधयाऽधुना // 76 14. इतश्चागादुदयनो गुरून्नन्तुं सुतैः सह / आख्यायाऽऽम-बप्पहयोदृष्टान्तं हेमसूरिमिः // 77 प्रोवाचेति कुमारोऽयं भविता परमार्हतः / सार्वभौमस्ततोमत्रिन् ! सन्मान्योऽतिमहादरात् // 78 * कुमारोऽप्युदयनस्य गृहे तिष्ठन्नथान्यदा / केनाप्युक्तः सिद्धराजः प्रेषीत् तं प्रति घातकान् // 79 तच्छ्रुत्वा कुमारो भीतः प्राणत्राणकृते कृती / एकाकी निशि निर्गत्य जगाम वटपद्रके // . . 80. विशोपकैकचणकान् कडूवणिज आपणे / क्षुधातॊ भक्षयित्वाऽसौ खड्गमड्डाणकं ददौ // निर्द्रव्यं राजपुत्रं तं विलोक्य वणिगूचिवान् / खड्गेनालं मङ्गलीके भवन्तु चणकास्तव // कन्नालीसिद्धपरके जटीभूत्वाऽथ सोऽगमत / सिद्धेश्वरपूजनार्थ स्थापितस्तन्निवासिभिः॥ तत्रैकदा शाकुनिकं मारवं पृष्टवानसौ / वाञ्छिताप्तिः कदा मे स्यात्, सोऽप्यूचे प्रातरापतेः // 84 प्रातमिलित्वा शकुनान्वेषणाय गतावुभौ / मुनिसुव्रतचैत्योद्धं दृष्ट्वा दुर्गा स्थितौ ततः // शुभचेष्टाऽकरोदुर्गाऽमलसारे स्वरद्वयम् / स्वरत्रयं च कलशे दण्डे स्वरचतुष्टयम् // 86 दृष्टः शाकुनिकोऽवोचत् सिद्धिस्ते वाञ्छिताधिका / भाविन्येव विशेषात्तु जिनभक्तिप्रभावतः // 87 वः सम्पूज्य कुमारस्तं मुक्त्वा तापसव्रतम् / गत्वाऽवन्त्यां खजनानां मिलितः सिद्धराट्भयात् // 88 गत्वा कोल्लापुरेऽद्राक्षीद् दानभोगादिसद्गुणम् / सर्वार्थसिद्धं योगीन्द्रं सेवित्वा चाप्यतोषयत् // 89 उवाच योगी मत्रौ स्त एकः साम्राज्यदायकः / खेच्छया धनदाताऽन्य आद्यः सोपद्रवः पुनः // 90. सत्त्वसारः कुमारोऽथ मनं जग्राह राज्यदम् / उक्तेन तेन विधिना पूर्वसेवा व्यधत्त च // ततः कृष्णचतुर्दश्यां गत्वा पितृवने निशि / शबस्य वक्षसि न्यस्य वह्निकुण्डं स्वयं पुनः // 92 उपविश्य तस्य कयां यावत् होमं ददाति सः / करालमूर्तिः प्रत्यक्षस्तावत् क्षेत्राधिपोऽवदत् // 93 मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षुणा / इति श्रुत्वापि निःक्षोभः सोऽपि जापं समापयत् // 94 तदा च भूत्वा प्रत्यक्षा महालक्ष्मीरवोचत / गूर्जरानाधिपत्यं ते दत्तं वस्तु पञ्चभिः / 954