________________ कुमारपालदेवचरितम् / सम्पानुज्ञां ततो लब्ध्वा पाषाणस्य खनिं च सः। श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् // ज्येष्ठस्य सितपञ्चम्यां शिरो.त्र्तोऽथ सज्जनः / अम्बादेवीवचः श्रुत्वा जातपञ्चत्वनिश्चयः // आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे / भद्रेश्वरगुरोः पार्थे संस्तरे व्रतमग्रहीत् // दिनाष्टकं पालयित्वाऽनशनं सज्जनो मुनिः / दिवं जगाम पुत्रोऽथ ध्वजारोपं व्यधापयत् // . 62. अथ पञ्चत्वमापन्ने कर्णदेवमहीपतौ / श्रीमान् जयसिंघदेवस्तस्स राज्येऽभ्यषिच्यत // चतुःसमुद्रमर्यादा मही तेन वशीकृता / सिद्धो बर्बर क श्चास्य सिद्धराजस्ततोऽभवत् // श्रीहेमसूरीनभ्यर्थ्य सर्वविद्याविशारदान् / व्याकरणं सिद्धहेमचन्द्राख्यं स व्यधापयत् // 63. इतश्च क्षेमराजस्य पुत्रो देवप्रसादकः / तस्य पुत्रास्त्रिभुवनदेवादयस्त्रयोऽभवन् // त्रिभुवनपालस्याभूत् सुतैका तनयास्त्रयः / आधः कुमरपालाख्यो राज्यलक्षणलक्षितः // महीपालः कीर्तिपालस्तथा प्रेमलदेव्यभूत् / श्रीकृष्णभटदेवेन योदूढा मोढवासके // 36 मार्या भोपलदेवीति कुमारस्य बभूव च / अत्रान्तरे सिद्धराजो दैवज्ञं पृष्टवानिति // 'मम पट्टे को भविता ?, सोऽप्यूचेऽस्ति महाभुजः / मध्ये दधिस्थलिकां यस्ते भ्रातृव्यनन्दनः // 38 राज्यं न मम पुत्रस्य जीवति भ्रातृनप्तरि / तत्तं ज्ञात्वा हनिष्यामीत्यचिन्तयदयं नृपः // ततोऽसौ पादचारेण कपोतीमुद्बहन् स्वयम् / गत्वा प्रभासे पुत्रार्थ सोमनाथमनाथयत् // 40 सोमनाथोऽप्यथोवाच मया राज्यधरः पुरा / सृष्टः कुमारपालोऽस्ति तदलं पुत्रयाजया // . सविषादस्ततो भूपो व्यावृत्तः पत्तनं प्रति / अस्मिन् जीवति पुत्रोऽपि न मे भावीत्यचिन्तयत् // 42 मत्रिणे कथयचैतत् सोऽप्यूचे युक्तमेव तत् / 'यदा पूर्व देव ! यूयं विजेतुं मालवान् गताः॥ 43 घाटे वुद्धल्लिकायाश्च संरुद्धे जसवर्मणा / युष्माभिओपितश्चाहं पारापतप्रयोगतः // 44 त्रिभुवनपालस्यैतत् तदा राज्यं समर्प्य ते / त्वत्समीपेऽहमायातस्तेन राज्यं वशीकृतम् // 45 निर्जित्य जसवर्माणं त्वय्यातेऽपि वक्ति सः / राज्यं दास्ये स्वपुत्राय हत्वा सिद्धनरेश्वरम् // 46 इति मत्रिवचः श्रुत्वा क्रुद्धः सिद्धाधिपस्ततः / त्रिभुवनपालदेवं घातयामास घातकैः॥ 47 कुमारपालोऽप्यवन्त्यां प्रेष्यन्त भ्रातृपितृव्यकान् / भार्या भोपलदेवीं तु दधिस्थल्याममुञ्चत // 48 खयं तु त्रिपुरुषाणां मठाधिपतिसन्निधौ / कपटेन जटाधारी भूत्वा श्रीपत्तने स्थितः // 49 सिद्धराजोऽपि तत्रस्थं ज्ञात्वा तं च कथञ्चन / क्षयाहे कर्णदेवस्य द्वात्रिंशत्तापसैः सह // 50 तं निमत्र्य मठाधीशं पतया धावन् पदौ स्वयम् / ददर्श राजचिह्नानि कुमारपालपादयोः॥ 51 उपलक्ष्य कुमारं तं राज्ञा पृष्टो मठाधिपः / अवोचत त्रयस्त्रिंशत् तापसा वयमास्महे // 52 नानाविधैर्भक्ष्यभोज्य राजा सम्भोज्य तानथ / धौतपौतीकृते तेषां भाण्डागारे स्वयं गतः / / अत्रान्तरे कुमारोऽपि गृहीत्वा कुण्डिकां करे / उत्क्रान्तिब्याजतो नष्ट्वाऽचालीत् प्रति दधिस्थलीम् // 54 सिद्धराजोऽप्यदृष्ट्वा तं पृष्ठेऽप्रैषीच साधनम् / आसन्नसाधनं दृष्ट्वा कुमारो हालिकं जगौ // 55 रक्ष मामिति तेनापि सञ्छन्नः कण्टकाभरैः / तमदृष्ट्वा सैन्यमपि गतं व्यावृत्य पत्तने // 56 निःसृत्याथ कुमारोऽपि मुण्डाप्य विकटा जटाः / गत्वा दधिस्थली रात्रौ मिलितः सजनैः समम् // 57 आकार्य घोसरिविप्रं कुलालं सज्जनं तथा / गन्तुं देशान्तरं ताभ्यां सह यावदमत्रयत् // 58 तावदुआगरोद्विनौ जनकावूचतुस्तयोः / 'भवतां मत्रणैर्दग्धा कथं जागरिका मुधा // 59 अथवा कुमारपालस्य यदि राज्यं भविष्यति / तत्कथं योसरे! तुभ्यं लाटदेशं प्रदास्यति.॥ 60 किश्च रे सज्जन! तव चित्रकूटस्य पट्टिकाम् ? / ' बबन्ध शकुनग्रन्थि तच्छ्रुत्वा राजनन्दनः॥ 61