________________ अज्ञातकर्तृकं पुरातनं संक्षिप्तं कुमारपालदेवचरितम्। ormer प्रणम्य श्रीमहावीरं सर्वशं पुरुषोत्तमम् / कुमारपालदेवस्य चरितं किञ्चिदुच्यते // 11. अस्त्यत्र गूर्जरात्रायां नानाऽणहिल्लपत्तनम् / पुरं तत्र नृपो भीमदेवो देवोपमर्द्धिकः // क्षेमराज-कर्णदेवी तत्पुत्रौ भिन्नमातृकौ / परस्परं प्रीतिभाजौ यथा राघव-लक्ष्मणौ // कर्णमातुस्ततस्तेन भीमदेवेन चैकदा / प्रतिपन्नं राज्यदानं श्रीकर्णस्य लघोरपि // वशीकर्तुमिव स्वर्ग कर्णदेवे दिवंगते / राज्यक्षमे क्षेमराजे कर्णे राज्यं न वाञ्छति // राम इव क्षेमराजः स्मृत्वा भाषां पितुस्ततः / कर्ण महोपरोधेन स्वयं राज्ये न्यवीविशत् // पालयन्नन्यदा राज्यं परनारीसहोदरः / चचाल देवयात्रायां कर्णः कर्ण इवापरः // श्रीदेवपत्तनादर्वाग् गव्यूतैः सप्तभिः स्थितः / प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् // 'यथा पापक्षयं हारं चन्द्रादित्याख्यकुण्डले / श्रीतिलकमङ्गदं च परिधीय समाहितः // यदा सोमेश्वरं देवं पूजयिष्यामि भक्तितः / भोक्ष्ये तदाशनं पानं ताम्बूलमपि नान्यथा // ' खात्वा प्रभासे श्रीकर्णो यदाऽयाचत भूषणम् / कोशाध्यक्षस्तदा स्माह नादिष्टं भवद्भिस्ततः // 11 आभरणं पत्तनेऽस्थाद् विखिन्नश्च ततो नृपः / तदा मदनपालाख्यो मण्डलीकोऽब्रवीदिति // 12 मा विषीद महाराज! मत्रसिद्धधरा यतः / मया सन्ति सहानीताः श्रीधनेश्वरसूरयः॥ 13 अथ राज्ञाऽभ्यर्थितैस्तैरणहिल्लाख्यपत्तनात् / आकृष्टिमत्रेणाकृष्याभरणं तत् समर्पितम् // सम्पूर्णाभिग्रहो राजाऽप्याह सूरिवरं प्रति / युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् // गृहाण तदिदं राज्यमित्युक्तः सूरिरब्रवीत् / रक्ष जीववधं राजन् ! नवरात्रद्वयेऽपि हि // तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः / चकार वामनस्थल्यां सज्जनं दण्डनायकम् // ततो मदनपालेन विज्ञप्तः कर्णभूपतिः / सार्द्ध धनेश्वराचार्यैरारूढो रैवताचलम् // सज्जनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः / चतुर्विधेन सङ्घन सार्द्ध राजानमन्वगात् // श्रीनेमिभुवनं जीणं वीक्ष्य काष्ठमयं ततः / सज्जनो गुरुणादिष्टो जीर्णोद्धारकृते कृती // यथा-रायामच-सिट्ठी कुडंबिए वावि देसणं काउं। जिन्ने पुवाययणे जिणकप्पी वावि कारवइ // जीर्णोद्धाराय विज्ञप्तः सज्जनेन नृपस्ततः / सुराष्ट्रोद्राहितं दत्त्वाऽणहिल्लपुरमाययौ // अथ भद्रेश्वरः सूरिः सजनेन सहाष्टमम् / तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनधीः // प्रत्यक्षीभूय साऽप्युचे युवाभ्यां किमहं स्मृता / सूरिराह नेमिचैत्यमुद्धरिष्यति सज्जनः।। तदेनमनुजानीहि पाषाणखनिमादिश / अम्बाप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः // दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः / परलोकप्रस्थितानां पाथेयं धर्म एव यत् //