________________ पुरातनं संक्षिप्त 99 राज्ये नाहं ग्रहीष्यामि स्वदेशे स्वमपुत्रिणाम् / प्रतिज्ञायेति कुमारो गतः पाटलीपुत्रके // ततो राजगृहे याते वीक्ष्य वैभारपर्वतम् / श्रुत्वा समवसरणस्थानान्येष विसिष्मये // नवद्वीपकदेशेषु गत्वाऽजयपुरं ययौ / ततोऽपि कामरूपेऽगात् कामाक्षेक्षणकौतुकी // ततोऽगात् तत्र यत्रास्ति सर्परूपेण भूपतिः / भौतिकं दैविकं चापि यद्राज्ये न भयं भवेत् // कुमारोज्गाचर्मकारयालचंडापणेऽन्यदा / उपानदर्थ तेनापि सादरं पूर्वनिम्मितम् // प्रधानमुपानयुग्मं कुमारः परिधावितः / एतन्मूल्यं न मेऽस्त्यूचे, चर्मकारस्ततोऽवदत् // उपानयुगलमेतत् युज्यते तव पादयोः / मूल्येनालं तव स्वामिन् ! मङ्गलीके मया कृतम् // हृष्टस्तच्छुभवाक्येन शुश्राव कुमरस्तदा / पत्तने पादुकाराज्यं मरणात् सिद्धभूभृतः // कुमारपालभूपालं शृणोषि पत्तने यदा / शीघ्रमेयास्तदामत्र्य मोचिकं कुमरस्ततः // उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः / कन्नालीसिद्धपुरेऽगालात्वाशेषकटुम्बकम् // 111. तत्र पूर्वप्रतिपन्नमातुलस्य द्विजन्मनः / गृहे मुक्त्वा स्वकुटुम्बं एकाकी पत्तने ययौ // 201 गत्वाऽऽवासे कृष्णभटदेवस्य भगिनीपतेः / रात्रौ ननाम कुमरो भगिनीं प्रेमलदेविकाम् // 202 मातेति प्रत्यभिज्ञाय तयापि नापितः स्वयम् / स्नाननीरे वीक्ष्य स्नातां दुर्गा शाकनिकोऽवदत // 203 सप्ताहान्तं भवान् राजा प्रमाणं शकुनो यदि / तदाकर्ण्य भगिन्यापि विज्ञप्तं पत्युरात्मनः // 204 मण्डलेशः कृष्णदेवः कुमारं परिरभ्य तम् / तवैव राज्यं नान्यस्य मा विषीदेत्युवाच सः॥ 2057 महीतटदेशाधीशं विजयपालराणकम् / मित्रमाकार्य कृष्णेन पर्यालोचः कृतस्ततः // 206 अग्रे प्रधानैश्चौलुक्यौ द्वौ स्तो राज्यार्थमाहूतौ / महीपाल-रत्नपालौ राज्यं त्वस्यैव मे मतिः // 207 द्वितीयेऽह्नि प्रधानानां ज्ञापयित्वेति तौ ततः / आजुहावतुः कुमारं श्रीजयसिंहमेरुके // 208 ततः प्रधानैः सम्भूय पूर्व राज्यार्थमाहूतः / महीपालस्तान् नत्वाऽऽह दत्तादेशं करोमि किम् ? // 209 तं विसृज्य रत्नपालस्तैराहूतो महेश्वरम् / प्रणम्य सचिवादींश्च प्राञ्जलिः प्राह पूर्ववत् // 210 . विसृष्टः सोऽप्यथाहूतः कुमारपाल ईश्वरम् / नत्वा सहेलमावर्योत्तरीयाञ्चलसञ्चयम् // तानाह्रास्ताभिपेकाय मृगेन्द्रासनमास्थितः / ततः कृष्णादिभिः प्रोचे परामर्श विमुच्य भोः!॥ अत्रार्थ मा विलम्बध्वं कार्य चेजीवितेन वः / तद्भीतैस्तैस्तथा चक्रे कुमारगुणरञ्जितैः॥ . 13 मौक्तिकसेतिका क्षिप्ता तच्छीर्षेऽभूत् सपल्लिका / कृष्णभटदेवमुख्यैस्ततो राजेत्यसौ नतः // 14 श्रीकुमारपालदेवो वेष्टितो मण्डलेश्वरैः / पट्टहस्तिसमारूढो मेघाडम्बरमण्डितः // चामरैर्वीज्यमानस्तु गृह्णन् पौरजनाशिषः / प्रतीच्छन् पौरजनानाशु राजप्रासादमासदत् // कृतोपकारानाकार्य सर्वान् सर्वहितस्ततः / कृतज्ञः कृतवान् राजा तेषां पूजां यथोचितम् // सहकारकरो मुक्तस्त्यक्तं च रुदतीधनम् / व्यसनानि निषिद्धानि सप्त देशेषु सप्तसु // वधो निषिद्धो वर्षाणि द्वादशाखिलदेहिनाम् / विश्वंभरा तेन तेने जैनप्रासादमण्डिता // स कौबेरीमातुरष्कं पूर्वामात्रिदशापगाम् / याम्यामाविन्ध्यमावाड़ि पश्चिमां साध्वसाधयत् // 220 / कुमारपालदेवस्स किमेकं वर्ण्यते क्षितौ / जिनेन्द्रधर्ममाराध्य माहेन्द्रं यो दिवं ययौ // 221 // इति श्रीकुमारपालचरितं समाप्तम् // छ / 19