________________ कुमारपालदेवप्रबन्ध . इत आचार्यः कृष्णमुखः खोपश्रयं ययौ / चिन्तितम् -देवताऽऽराधनं विना मनोरथानां सिद्धिर्न / अतो रेषतके गत्वा देवीं अम्बां परितोष्य हेमाचार्यसमो भविष्यामि / तत्र गतस्तपश्चरणं प्रारेभे / उपवासत्रयं तदनु तलहडिकायां पारणम् / एकः परिचर्याकरः / एवं मास 2 तपःप्रान्ते देव्यम्बा प्रत्यक्षा जाता-कार्य वद' / तेनोक्तम्-'यादृशः कुमारपालदेवस्तादृशमजयपालदेवम् , यादृशो हेमाचार्यस्तादृशं मां विधेही ति कथिते रेव्याह-'गूर्जरात्रायां न। अन्यत्र गच्छ' / तेनोक्तम् -'ममाप्यत्रैव पडप(१)मस्ति' / अम्बिकयोक्तम् -'तर्हि / याहि / तेनोक्तम् -'यदि एतत् सत्यं करोमि तदाहं...' अम्बिकया हेमाचार्यनृपमूोरधिष्ठायिकावुक्तौ'यदेष भवद्यशः समीहते' / ताभ्यां पवनयोगाद् यमलपर्वतान्तरे क्षिप्तश्चूर्णितश्च / क्षुलकेनावलोकमाने रजोद्दतिः प्रासः / तामादाय समागतः। . 155. अथ [अजयपालेन] प्रासादेषु पात्यमानेषु यमकरणं तारणदुर्गोपरि संनद्धम् / प्रातः प्रयास्यतीति श्रुत्वा वसाहआभडमुख्यः [संघः पर्यालोचितवान् -विलोकयत, श्रीकुमारपालदेवेन प्रासादाः कारिताः / अनेन " दुरात्मना पातिताः / कोऽपि न वेत्स्यति यनृपः श्रावकोऽभून्न वा / यद्येष तारणदुर्गप्रासादो रक्षितुं शक्यते तदा भव्यम् / सीलणकउतिगिआ विनाऽन्योपायो नास्ति / तस्य गृहे चलत। [गतस्तत्र] सङ्घस्तेनाभ्युत्थितः / करौ संयोज्य उक्तम्-'मयि विषये महान् प्रसादः। किं कार्यम् 1" / 'भो ! त्वं वेत्सि, पूर्वनृपेण प्रासादाः कारिताः, भनेन पातिताः / एकस्तारणदुर्गस्यावशेषोऽस्ति सोऽपि प्रातः पतिष्यति / यदि त्वया रक्ष्यते, अन्यः कोऽप्युपायो नास्ति' / 'एष भवतां प्रमादः / पूर्व ज्ञापितोऽभूवं तदैकोऽपि नापतिष्यत्' / 'यज्जातं तज्जातम् / / त्वयाऽमुं रक्षता सर्वेऽपि रक्षिताः' / सङ्कः सत्कृत्य विसृष्टः / स नृपसमीपं गतः- 'देव ! मुत्कलापयामि' / 'भो ! क यासि / 'देव! वयमुत्पन्नभक्षकाः / सर्व भक्षितम् / कापि रायतने गत्वा कृ(त्व)नामा द्रविणमादाय पुनरेप्यामः' / नृपेणोक्तम् -'यदि पत्तनं विहाय यूयमन्यत्र यात, तदाऽहं लज्जे / अवसरं दास्यामि' / 'देव! [अद्य] अवसरो भवति वा यामि' / 'तर्हि सजतां कृत्वा सन्ध्योपर्येहि' / नृपेण सर्वः कोऽप्याहूतः / प्रारब्धं प्रेक्षणम् / इतः सीलणेन इष्टिकाः समानीय पातिताः / मृत्तिकारासभानि रंगान्तः समाजग्मुः / पानीयं च / कटिकस्त्वाका-" रितः-प्रासादं कुरु' / तेन कृतः / मध्ये एकस्य देवस्य स्थापनं कृतम् / ध्वजारोपं कृत्वाने नृत्यं कृत्वा उक्तम्-'देव ! गजान्ता लक्ष्मीः, ध्वजान्तो धर्मः / अतोऽहममुं निर्माय कृतकृत्यो जातः / शयनं विधास्से' - इति मुकटीं कृत्वा सुप्तः / पुत्रेणागत्य देवकुलिका पातिता / सीलणः पटीं त्यक्त्वा उत्थितः सन् प्राह-रे ! केनेदं पातितम् ? / 'भवतो ज्येष्ठपुत्रेण' / सीलणेन स चपेटया हतः- रे ! त्वमस्यापि सदृशो न ? / एतस्यापि नृपतेहीनः ! / अनेन खपितरि मृते तस्य कीर्तनानि पातितानि / त्वया मम जीवतोऽपि पातितम् / मम मृत्युरपि न / प्रतीक्षितः' / इति श्रुत्वा नृपस्य नेत्रयो र पपात / 'सीलण ! किं कथयिष्यसि (कथयसि)१ देव ! विमृशस्त्र तथ्यमिदमतथ्यं वा / गृहस्थः कीर्तनं कारयति / यावन्मम कोऽपि भविष्यति तावदस्य सारा भविष्यति' / 'ये पतितास्ते पतिताः, शेषाः सन्तु'। एक एवावशेषोऽस्ति / यस्तव नामा / यमकरणं व्यावर्त्यताम् / इत्थं कृते प्रासादाश्चत्वार उद्गारिताः। णगढप्रासादरक्षणप्रबन्धः॥