________________ चतुरशीतिप्रवन्धान्त -> अथ अजयपालप्रबन्धः 59. तदनु अजयपालदेवो राज्ये निविष्टः / तेन प्रभोः शिष्यस्य पालचन्द्रस प्रीत्या रामचन्द्रमाहूयोकातानमयः पट्टो ध्मातः समानीतः राज्ञा / भवता उपविश्यते / स्वर्णपट्टानमोक्षयत् (1) / मया स्वयं मुक्ता। इह सत्वरमास्यताम् / रामचन्द्रस्तु महिषीढह सचराचरह जिणि सिरि दिन्हा पाय। तसु अस्थमणु दिणेसरह होइ त होउ चिराय // 6 // इति भणन् पट्टे निविष्टः / ज्वाला मुखे निर्ययौ / रामनिदिवं गतः / बालचन्द्र:] पट्टे निविष्टः / इतो नृपो द्विजवाक्याद् नृपकीर्तनान् पातयितुमारेभे / कृष्णवेपो महिषारूढो मुद्गरकरः, मुद्रकरैदिजैर्वृतः / बनकरणमिति नाम धारयन् कुमारपालप्रासादान् पातयति / तपोधनाः पत्तनं विहाय दिशोदिशं जग्मुः / .653. बयैकदा श्रीहेमाचार्येषु सत्सु राज्ञा उक्तम् -'प्रभो! एकस्मिन् शासने पक्षद्वयी का? / एके चतुर्दशी मन्यन्ते, एके पूर्णिमा मन्यन्ते / तत एकमेव भवति तदा रम्यम् / श्रीहेमसूरिणा पूर्णिमापक्षीया सुमतसूरप पाहय उक्ताः-'यद् नृपः कथयति, एकस्मिन् धर्मे भेदः कः / ततः पूर्णिमायां प्रतिक्रमणं समस्तमपि सर्व वयमादरयिष्यामः / यतिप्रतिष्ठां यूयं मन्यध्वम्' / तैरुक्तम् –'पर्यालोच्य प्रातर्निवेदयिष्यामः' / गुरुमिराहतो मागों मोक्तुं न युज्यते, स्थातुं च न शक्यते - रूसउ कुमरनरिंदो अहवा रूसंतु लिंगिणो सके। पुन्निमसडपइट्ठा सुमतसूरिहिं नो मुक्का // 11 // इति गाथां स्थूलाक्षरैलिखित्वा स्थापनाचार्य आलके मुक्त्वा प्रणष्टाः / प्रातराकारणे गते जनाः पत्रिकामादाय प्रभूणां दर्शयामासः। प्रभुभिरुक्तम्-'नष्टाः कियद् यास्यन्ति / अधुनैव आनाय्यन्ते, परं सन्तु। ते भयभीताः कुङ्कणे गताः / तत्र विदेशे कोऽपि नोपलक्षयति, नाऽऽयाति / अत्यन्तं दुःखिताः सन्ति / एकदा * तनुगमनिकायां गतैराकुलीतरुं दृष्ट्वा गूर्जरानां संस्मृत्य तामनु फेरकान् ददतां हृदयसकट्टः समजनि / 654. इतोऽजयपालराज्ये पूर्णिमापक्षीयः सामन्तसिंहनामा मत्री। तेन नृपो विज्ञप्तः -'देव ! पूर्वराशि सति भवान्भावठिं (1) भ्रान्तः श्रीहेमाचारस्मद्गुरवो निष्कासिताः / देवस्य राज्ये ते युज्यन्ते / यद्यादेशो भवति तदाऽनाय्यन्ते / नृपाज्ञयाऽऽहूताः / जनो वक्ति 'अमी के ? / 'भावठिका', 'वराकाः सन्तु' / इतः सामन्तसिंहो मृतः / एकदाऽऽचार्यों लञ्चिकान् परिधाय तलिकैः प्रहृतैस्तनुगमनिकायां याति / इतः कुमारगुरु महादं प्रासादगवाक्षस्थं वीक्ष्य प्राह -'कपोतो यां शाखायामधिवसति सा शुष्यतितराम्। इतः प्रलादेनोक्तम्-'आचार्य ! शृणु, एतत् सत्यमेव गते हेमाचार्य कुमतितिमिरध्वंसनरवी, ___ स्वपक्षमार्थ क[पट]पटुभिः कैश्चिवधरैः। श्रितः सामन्ताख्यः सपदि स हि पञ्चत्वमगमत्, कपोतो यां शाखामधिवसति सा शुष्यतितराम // 12