________________ चतुरशीविप्रबन्धान्तर्गत 656. अथ राज्याद् वर्षे तृतीये पर्युषणपर्वणि थारापद्रीये प्रासादे श्रावका मिलिताः / बामस्वसाहेन उक्तम्- समयं विलोकयत / यत्र तपोधनानां सहस्रा आसन् तत्राय स कोऽपि न श्यते, यस मुखात् प्रत्याख्यानमपि क्रियते / कापि कोऽपि तपोधनः पुरमध्ये श्रुतो दृष्टो वा / एकेन कर्णे प्रविश्य उक्तम्-पर राजपुत्रवाटके धरणिगः श्रेष्ठ्यस्ति, तेन जबाबलपरिक्षीणाः खगुरवः स्थापिताः सन्ति च्छन्नम् / तदनु * वसाहस्तस्य गृहे गतः / तेनाभ्युत्थितः / पादमवधार्यताम् / 'अब सांवत्सरिकपर्वणि तपोधनान् दर्शय' / तेनोक्तम्क तपोधनाः सन्ति / तेन भूमिगृहे नीत्वा गुरवो दर्शिताः / वसाहस्तु चरणयोर्निपत्य रोदितुं प्रवृत्तः-'भगवन् / स कोऽपि नास्ति, यो अमुं दुरात्मानं नृपं शिक्षयति' / गुरुभिरुक्तम् -'शक्तिरस्ति, परं सांनिध्यकर्ता कोशी विलोक्यते' / वसाहस्तु तस्यैव श्रेष्ठिनः शिक्षां दत्त्वा ययौ / गुरवो जप्तुं प्रवृत्ताः। 657. इतस्तृतीयदिने नृपस्य कुबुद्धिर्जाता। तदीयौ धांगा-वइजलिआख्यौ पदाती स्तः। तयोर्माता सुहाग" देवी सा खैरिण्यस्ति / सा नृपेणानीयान्धकारे स्थापिताऽस्ति / इतः सन्ध्यावसरे वइजलिका पीत्वा समायातः। नृपेण हासे प्रारम्धे उक्तम्-'रे! याचख खैरम्' / तेनोक्तम्-'देव! अधुनाऽवसरयोग्यं दीयताम्' / नृपेणो कम्-'उपवरिकायां व्रज / परं वदनं नावलोकनीयम्' / स तत्र गतः। इतः पृष्ठे नृपो दीपकरः समाययौ / तेनाम्बा . दृष्य / सवित्र्या पुत्रो दृष्टः / परस्परं लज्जितौ / वइजलेन धांगाने उक्तम्-'नृपेणैवंविषं हास्यमकारि, तदहं मरिष्ये' / तेन साक्षेपमुक्तम् -'मारयिष्ये न वदसि, मरिष्ये वदसि / अमुं मारयिष्यावः' इति निश्चित्य स्थितौ / // नृपस्तु राजपाठयां निर्ययौ / सन्ध्यायां सुखासनासीनोऽन्धकारप्रतोल्यां प्रविशन् वइजलेन कपाटपन्याग्निर्गत्य घांगा केन सह स्थितेन उमाभ्यां नृपो हतः / कलकले जाते धांगाको हतः, वइजलो नष्टः / राजा तु तत्रैव पपात / जनो दिशोदिशं गतः / इतो लन्धसञ्जस्तृषितो राजा रिझन् प्रतोलीप्रत्यासन्ने तन्तुवायगृहे प्रविष्टः / गर्चायां मुखे. बाहेने (पातिते) तन्तुवायेन लकुटो क्षिप्तः खानं मत्वा / तेन विदीर्णशिराः पपाठ धांगा दोसु न वइजल्या नवि सामंतह भेउ / जं मुणिवर संताविआ तह कम्मह फल एहु // 6 // इति वदन् पीडया मृत्वा श्वभ्रं ययौ // // // इत्यजयपालप्रबन्धः॥ . *