________________ चतुरशीतिप्रबन्धान्तर्गत कुमारपालदेवप्रबन्ध / चौलुक्यवंशेग(शध्व)जः श्रीकुमारपालदेवःएको यः सकलं कुतूहलितया म(ब)भ्राम भूमीतलं प्रीत्या यस्य पर्तिवरा समभवत् साम्राज्यलक्ष्मी खयम् / श्रीसिद्धाधिपविप्रयोगविधुरामप्रीणय(द) यः प्रजा कस्यासौ विदितो न गूर्जरपतिश्चालुक्यवंशध्वजः॥१॥ 11. तस्स प्रबन्धो लिख्यते / यथा-श्रीपत्तने श्रियां निकेतने श्रीसिद्धचक्रवती राज्यं करोति / वस पितृव्यस्य त्रिभुवनपालदेवस्य कुमारपालदेवः सुतोऽस्ति / पुत्र्यौ द्वे स्तः / एका प्रेमलदेवी, सपादलक्षाधिपतिना आनाकेन नृपतिना परिणीता / द्वितीया नामलदेवी, राज्ञा महासाधनिकेन प्रता.. पमल्लेन परिणीता / अन्यदा श्रीसिद्धराजो निरपत्यश्चिन्तयति निर्नामताम्वुधौ मजदु राज्यभूवलयोद्धृतो। . पुत्राः क्रीडावराहन्तः संपद्यन्ते कृताऽऽत्मनाम् // 2 // घटिकाऽप्येकया घट्या कुण्डीपयसि मजति / गोत्रं पुनरपुत्रस्य क्षणान्निर्नामताम्भसि // 3 // इति विचिन्त्य देवपत्तने श्रीसोमेश्वरयात्रायै चचाल / तत्र गत्वा सोमेश्वरः पूजादिमिराराधितः / स प्रत्यक्षीभूय उवाच -'स्कन्धे विहङ्गिकां विधाय इहाऽऽगमने कष्टं कथं कृतम् / तेनोकम् -'किं तेन ? राज्यार्थम्' / 'राज्यधरस्ते कुमारपालदेवो भविष्यति' / नृपो निवृत्त्याऽऽयातस्त्वेवमचिन्तयत्-'चेदमुं मारयामि तदा सोमेश्वरः सुतं यच्छति' / अतस्तं मारयितुमारेभे / साप (सोऽपि) विंशद्वर्षदेशीयः पुराच्छन्नो निस्ससार / अमन् सप्तवारं केदारयात्रामकरोत् / अन्तराऽन्तरा पत्तने छन्नमभ्येति / 62. एकदा तपश्चि(खि)वेषधरः केनापि नृपाय निवेदितः / मार्ग्यमाणो न दृष्टः / सज्जनकुलालेन कवकोठीमध्ये नीवाहे प्रक्षिप्य राजपुरुषेभ्यो रक्षितः / तनायया उक्तम् -'रक्ष रक्ष, असौ ते चित्रकूटं दास्यति / अय निःसृत्य नष्टः / 63. पुनरेकदा तपश्चि(खि)वेषधरः पत्तनं प्रविष्टः / अनादिराउलमठे प्रविष्टः / तत्र प्रमन्नेकदा श्रीहे. माचार्याणां पो(पौ)पधागारे प्रविष्टः / व्याख्याने जायमाने कमलिकोपरि भरितवेष्टनं दृष्टम् / तेन चिन्तितम् -" 'याचिप्येऽमुं जटांवेष्टनाय, पर(९) दास्यन्ति न वा इति वक्तुं न शक्नोति' / ऊर्द्ध दृष्ट्वा श्रीहेमाचार्येनि(नि)~बनमालोक्य उक्तम् -'क्षुल्लक ! राजपुत्रार्थे पढें मुञ्च' / तेन सक्रोधमुक्तम् -'अहं राउलो वा राजपुत्रो वा ?' गुरुभिरुक्तम् –'उत्स(सु)को मा भव / यदा भविष्यसि तदा राजानं भणिष्यामि' / तेन खजटामिः पदौ प्रमा र्योक्तम् -'कदा[स उष्णो वासरो भावी?' / तदा 'संवत् 1199 वर्षे मागसिरवदि 4 रखौ तव राज्यम्'पत्रिकाऽर्पिता / 'परं निकटा आपदस्ति, शीघ्रं मे पौषधागारे समागन्तव्यम्'। कु. पा.च०१४-१