________________ 112-2 चतुरशीतिप्रबन्धान्तर्गत इतः केनापि नृपा[य] तपश्चि(खि)वेषो मठस्थो निवेदितः / राज्ञा तपश्चि(खि)नो निमत्रिताः / अनादिराउलस्तपश्चि(खि)सप्तशत्या भोजनाय गतः / इतः तपश्चि(खि)नां पार्थयोः खड्गधरा नराः .स्थापिताः / तेषामिदमुक्तम्-'यस्य तपश्चि(खि)नोऽहं पादौ क्षालयन् विमुच्य उपरि यामि स [मारणीय एव' / इतस्तस्स पदक्षालने नृपश्चरणलक्षणं ललाटं चालोक्य विमुच्य 'निर्विण्णोऽहम्' / पुरोहितं तत्र ने(नि)युज्य उपरि गतः / ', तद्भाग्यात् संज्ञा सुभटानां विस्मृता / ततः कुमरिक एकं करं उदरे दत्त्वा, एक मुखे [दत्त्वा] पित्तप्रकोपव्याजा नष्टः / इतः श्रीहेमाचार्या भुक्तोत्तरं द्व(द्वा)रमुद्घाट्य ऊर्धाः सन्ति / सोऽपि पौषधागारे प्रविष्टः / उपवरकान्तः प्रक्षिप्य गुरुभिस्तालकं दत्तम् / पश्चापः कलकलमश्रुत्वा पत्तीन् हक्कयामास / भरटिका विस्मृताः। '2!! विलोकयत तम्' / अश्ववारा प्रस्ताः / श्रीहेमाचायपौषधागाररथ्यायां समायाताः। एकेन हट्टिकेन महेश्वरिणा पृष्टाः-'किमवि(व)लोक्यते ? तैरुक्तम् -'कुमरिकः / तेनोक्तम् -'श्वेताम्बराणां पौषधागारेऽस्ति' / . तत्र गताः / नतिपूर्व हेमाचार्याः पृष्टाः-'अत्र कुमरिकः कथ्यते' / 'तं न विद्मः / कोऽपि भिक्षुको द्वारं प्रेर्य प्रविष्टोऽस्यां निःश्रेण्या अधिरुह्य गतः' / ते गताः / पुनम(4)मन्तो रथ्याद्वारे समायाताः / तेन वणिजा उक्तम्'किमवलोक्यते ' 'कुमरिकः / तेनोक्तम् -'तत्र किं न प्राप्तः१, चलत दर्शयामि' / अग्रे भूतः, समायातः / उक्तम् -'कुमरिकं [कथं] नापर्य(पैय)त ? तैरुक्तम् -'विलोकयत' / सोऽपि राजपुरुषैः सह शोधितुं प्रवृत्तः / 'तालकं दृष्टम् / 'अमुमपाकुरुत, इहाऽऽस्ते' / पूज्यरुक्तम् -'असौ राजपाटकवास्तव्यस्य व्यव०. धरणिगस्य // भाण्डशाला / ततः कुञ्चिकामानीयोद्घाटयत' / राजपुत्रैरुक्तम् -'कस्तत्र गत आयातो वा?, चलत' / स कथयति-: 'मा व्रजत, अस्त्येव' / इतो राज्ञा चिन्तितम्-. मृग-मीन-सज्जनानां तृण-जल-संतोषविहितवृत्तीनाम् / लुब्धक-धीवर-पिशुना निष्कारणवैरिणो जगति // 4 // एवं चिन्तयन् निरशनो दिनत्रयमस्थात् / तृतीयदिनरात्रौ भाण्डागारिककपर्दी पौषधागारे समायातः / . परिजनं बाह्ये स्थाप्य नमस्कारं कृत्वा उपविष्टः / गुरुभिरुक्तम् -'कोऽप्यस्माभिर्भवदलाद् यदन्यायः कृतस्तत्र किम् ?' तेनोक्तम् -'न संभाव्यते / ' 'भविष्यति चेत् ?' 'तदा वारयितुं क्षमः' / उक्तम्-'कुमरिकः स्थापितः' / 'किं तेन नृपापथ्यकारिणा ? / 'असौ कालेन महाप्रभावको भावी; परं दिनत्रयं निरशनस्य जातम्' / ततो द्वारमुद्पाठ्य स्खवेषं परिधाप्य गृहं नीत्वा मासं यावच्छन्नं स्थापितः / इतः पत्रदौःस्थ्ये सति नृपेन(ण) भाण्डागारिक उक्तः-'वं याहि, मार्गसौरथ्यं कुरु' / भाण्डागारिकेणान्यकरभी शोधिता(१)। स्वयं तथैव स्थितः / बहिनीत्वा * योजनविंशति प्रान्ते मुमोच / / - 64. स भ्रमन् कान्ती [नगरी गत]स्तत्र सरसि तटे प्रासादे शिरः पूज्यमानं दृष्ट्वा पप्रच्छ -'किमेतत् शिरः पूज्यत ?' देवार्चकनोक्तम् -'अत्र सरसि तप्क(स्क)रस्य शिरः केनापि नि[]कृत्य क्षिप्तम् / तदनु तत् प्रातः घातटं (प्रात)रिदं भूते-'ति' [ज]वात् उक्त्वा पुनः प्रातक्ति / नृपेणामात्याः पृष्टास्तैश्च पण्डिताः / तैर्मासो याचितः। मुख्यपण्डितः स्वगृहे सूत्रं कृत्वा निर्ययौ / अटवीं भ्रमन्नेकस्मिन् कोटरे रात्रौ स्थितः / तत्र वृक्षे भूता [:] * सन्ति / लघुमिरुक्तम् -'ता[त] अस्माकं [क्षुधा' / ता] तेनोक्तम् -'दिनत्रयानन्तरं यास्यति' / 'कथं ?' प्रत्यासन्नपुरे [नृपेण] पण्डिताः शिरसो वाक्यं पृष्टाः, ते न जानन्ति, नरेन्द्रस्तान् सकुटुम्बान् व्यापादयिष्यति' / [] पृष्टम् -'तात ! किं कारणम् ? निर्बन्धे कृते उक्तम्-'लोभेन छुडति' / तत् पण्डितेन श्रुतम् / गृहमायातः / मासश्रा(प्रा)न्ते नृपेणाऽऽहूतस्तेन सरस्तीरे गत्वा उक्तम् -'यदि ला(लो)भेन गुडति, तदा पुनर्न वाच्यम्' / शिरस्तथैव स्थितम् / तं (तत्र) नृपेण प्रासादः कृतः / अतो मध्ये शिरः पूज्यते' /