________________ पुरावनाचार्यसंगृहीत . 6100. ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमलं राज्ये निवेशयति, तावत् किश्चित् कृतराजवर्गभेदोञ्जयपालो भ्रातृव्यः श्रीकुमारपालदेवस्य विषमविषमदात् / तेन विधुरितगात्रो राजा ज्ञातम्रातृव्यप्रपञ्चः खाधीनां विषापहारशुक्तिका पुरा कोशे स्थापितां शीघ्रमानयतेति निजातपुरुषानादिदेश। ते च तां पुराऽप्यजयपालेन गृहीतां ज्ञात्वा तूष्णीं स्थिताः / अत्रान्तरे व्याकुले समस्तराजकुले विषापहारिशुक्तिकाया अनागमनहेतुं ज्ञात्वा कोऽपि चारणः पपाठ कुमरड ! कुमरविहार एता कांई करावीया। . ताहं कु करिसइ सार सीप न आवई सयं धणी // इत्याकर्ण्य राजा यावद्विमर्श करोति, तावत् कोऽप्यवसरावेदकः पपाठ कृतकृत्योऽसि भूपाल ! कलिकालेऽपि भूतले। आमन्त्रयति तेन त्वां विधिः स्वर्गे यथाविधि // इति श्रुत्वा राजा शुक्तेरनागमनकारणं ज्ञात्वा सर्वसमक्षमित्युवाच५४२. . अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो, __ वादेषु प्रतिवादिना प्रतिहताः संस्कारगर्भा गिरः। उत्खातप्रतिरोपितैपतिभिः सारैरिव क्रीडितं, __ कर्त्तव्यं कृतमर्थना यदि विधेस्तत्रापि सना वयम् // इत्युदीर्य स्वधैर्येण भूपतिर्भूरिभाग्यवान् / लक्षं लक्षं ददौ तोषादनयोः पारितोषिकम् // 9101. ततो राजा त्रिंशद्वर्पानष्टौ मासान् सप्तविंशतिदिवसान् साम्राज्यं कृत्वा कृतार्थी कृतपुरुषार्थः सर्व विरसावसान विज्ञाय विज्ञशिरोमणिः प्राणान्ते दशधाराधनां विधाय खचित्ते श्रीपञ्चपरमेष्ठीप्रतिष्ठाप्रणष्टकष्टः समाधिखाधीनसाध्या * परमविधिना चरमोच्छासे त्यक्तशरीरादिममत्वस्तत्त्वपरिज्ञानवान् प्राणान् अत्याक्षीत् / सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचन्द्र प्रभुम, धर्म तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् / व्योमाग्निर्यम(१२३०)वत्सरे विषलहर्युत्सर्पि मूर्णभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यन्तराधीशताम् // ततो लोके हाहाकारो महानभूत् / सर्वत्रलोकानामिति गिरः प्रादुरासन्- . आकर्ण्य प्रतिकाननं पशुगणाश्चौलुक्यभूपव्ययम् , __क्रन्दन्तः कमणं परस्परमदो वक्ष्यन्ति निःसंशयम् / योऽभून्नः कुलवर्द्धनः स सुकृती राजर्षिरस्तं ययौ, यूयं यात दिगन्तरं झटिति रे नो चेन्मृता व्याधतः॥