________________ कुमारपालप्रबोधप्रबन्ध निरञ्जनं निराकारं सहजानन्दनन्दितम् / निरूप्य मनसा नित्यं स्वरूपं परमेश्वरम् // 535. कृत्वा तन्मयमात्मानं त्यक्त्वा सर्व स्वतः परम् / खात्मावबोधसम्भूतज्योतिषेति व्यभावयन् // 536. यथा-आत्मन् ! देवस्त्वमेव त्रिभुवनभवनो ज्योतिदीपस्त्वमेव, ब्रह्मज्योतिस्त्वमेवाखिलविषयसमुज्जीवनायुस्त्वमेव / कर्ता भोक्ता त्वमेव व्रजसि जगति च स्थाष्णुरूपस्त्वमेव, खस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोषि // इति सञ्चिन्त्य चरमोच्छाससमये दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः / तदनन्तरं प्रभोः शरीरम्य चन्दनकर्पूरागरुभिः कृते संस्कारे तद्भस्म पवित्रमिति कृत्वा राजा तिलकव्याजेन // नमश्चक्रे / ततः समस्तसामन्तैस्तदनु नगरलोकैश्च तत्रत्यमृत्स्नायां गृह्यमाणायां 'हेमखड' इत्यचापि सा प्रसिद्धाऽस्ति लोके। 699. अथ राजा श्रीगुरुपादानां विरहेणास्तोकशोकाश्रुजलाविललोचनः श्मशाननिमां राजसभा मन्यमानस्तत्र नायाति; दुर्गतिचिह्नान्येतानि इति राजचिन्हानि न धारयति; अयमपारं संसारं प्रापयतीति प्रजाव्यापारं चापि न करोति / भोगान् संसाररोगानिव मन्यते / लास्यहास्यादिविमुखः, सुखाय तान् विना किमपि न पश्यति / सकल- // कलाकलापकुशलैरपि अनेकधा विनोद्यमानोऽपि न क्वापि रतिं प्राप / सचिवैर्विज्ञप्त इदमवादीत्-खपुण्यार्जितोत्तमलोकान् प्रभून् न शोचामि, किन्तु निजमेव सप्ताङ्गराज्यम् / सर्वथा परिहार्यराजपिण्डदोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं, यस्मात्तदेव शोचामि / ___अथान्यदा सान्ध्यविधिविधानाय सन्ध्यासमयमावेदयितुं केनापि विदुषाऽवसरपाठकेन पठितम् - 537. ध्वान्तं ध्वस्तं समस्तं विरहविपगमं चक्रवाकेषु चक्रे, सङ्कोचं मोचितं द्राक् किल कमलवने धाम लुप्तं ग्रहाणाम् / प्राप्ता पूजा जनेभ्यस्तदनु च निखिला येन भुक्ता दिनश्रीः, संप्रत्यस्तंगतोऽयं हतविधिवशतः शोचनीयो न भानुः // इत्याकर्ण्य राजा, शोकं किञ्चित् स्तोकं कृत्वा, श्रीगुरूणां गुणान् लोकंपृणान् स्मारं स्मारं सुचिरमिदमवादीत्५३८. श्रीसूरीश्वर ! हेमचन्द्र ! भवतः प्रक्षाल्य पादौ स्वयम्, खर्धेनोः पयसा विलप्य च मुहुः श्रीखण्डसान्द्रद्रवैः। अर्चामोऽम्बुदमौक्तिकर्यदि तदाऽप्यानृण्यमस्तु क नो, विश्वैश्वर्यदजैनधर्मविविधाम्नायाप्तिहेतू ह्यम् // श्रीहेममूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् / ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि //