________________ 108 पुरावनाचार्यसंगृहीत . बारात्रिकावसरे चारणः पपाठ५२९. लाछि वाणि मुहकाणि ए तइं भागी मुह मरउं / हेमसरि अत्याणि जे ईसर ते पंडिआ॥ बन्दनकसमये नृपस्य पृष्टौ हस्तप्रदाने [अन्यः] चारणः हेम तुहारा कर मरउं जिहिं अच्चम्भुआ रिद्धि / जे चांपइ हेठामुहा ताहं ऊपहरी सिद्धि // योनिः पाठे लक्षत्रयमौचित्यमदात् / ततः परमेश्वरं तुष्टाव / आजन्म कलिताजिह्मपरब्रह्ममयात्मने / चिदानन्दपदस्थाय श्रीनेमिखामिने नमः॥ अथोमयतीर्थयात्रयाऽऽत्मानं पवित्रीकृत्य राजा सपरिकरः पथि प्रभावनां कुर्वाणः श्रीपत्तनमाजगाम / प्रौढमहिना नित्यं धर्मध्यानपरो दिनानि सफलयति / 697. अथ श्रीकुमारपालेन द्वासप्ततिसामन्ता भूपालाः स्वाज्ञां ग्राहिताः / अष्टादशदेशेषु अमारिपटहो दापितः। चतुर्दशसु देशेषु अर्थवलेन मैत्रीबलेन च विनयेन च जीवरक्षा कारिता / 1444 नवीनप्रासादेषु कलशाधिरोपणं कारितम् / 16000 जीर्णोद्धारेषु कलशध्वजारोहोऽकारि / सप्तभिस्तीर्थयात्राभिराल्मा पवित्रितः / एकविंशति ज्ञान"कोशलेखनम् / द्वासप्ततिलक्षमृतकद्रव्यपत्रं फाटितवान् / 98 लक्षप्रमाणं द्रव्यमौचित्ये दत्तम् / परमाईतविरुदं लब्धम् / आजन्म परनारीसहोदरविरुदं च / सप्तव्यसनानि निवारितानि / श्रीसङ्घभक्ति-साधार्मिकवात्सल्य-त्रिजिना - द्विरावश्यक पर्वदिनपौषधादान-शासनप्रभावना-दीनोद्धारपरोपकारादिपुण्यकृत्यान्यनेकधा कृतानि / कुमारपालभूपस्य किमेकं वय॑ते क्षिती। जिनेन्द्रधर्ममासाद्य यो जगत् तन्मयं व्यधात् // - 698. अत्रान्तरे च नियूंढराजव्यापारौ विहितानेकनवीनप्रासादजीर्णोद्धार-परोपकार-दीनोद्धारादिपुण्यकृत्यौ कृतश्रीजिनशासनप्रभावनौ मत्रियाहडदेव-आंबडौ स्वर्ग जग्मतुः / __अथैवं काले श्रीकुमारपालभूपालः श्रीहेमसूरिश्च कृतकृत्या महसा तपसा वयसा च वृद्धौ जातौ / पर श्रीहेमसूरिगच्छे विरोधः / रामचन्द्र-गुणचन्द्रवृन्दमेकतः, एकतो यालचन्द्रः। तस्य तु राजमातृव्याऊजयपालेन सह मैत्री। अन्यदा राजा श्रीगुरुं पृच्छति स्म-'भगवन् ! अपुत्रोऽहं, कं खराज्यपदे स्थापयामि। // श्रीगुरुभिरुक्तम् - 'राजन् ! अयं भागिनेयः प्रतापमल्लः प्रजाप्रियो न्यायधर्मनिष्ठो बहुराजवर्गीयसम्मतो राज्यमारधुराधुरीणोऽस्ति / अजयपालोऽप्यस्ति परं न तत्सङ्गरणः, न न्यायनिष्ठः, न धर्मप्रियः, न जनानुरागः। यदुक्तम्५३३. धर्मशीलः सदा न्यायी पात्रे त्यागी गुणादरः। प्रजानुरागसम्पन्नो राजा राज्यं करोति सः॥ न चायमेवंविधगुणवान् / अजयपालात् तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति' / एवं मत्रे कृते पालचन्द्रेण * स्वरूपमेतदजयपालाय न्यवेदि / तस्य रामचन्द्रादिषु महाद्वेषः समजनि / अत्रावसरे चतुरशीतिवर्षायुषः श्रीहेमसूरिवराः परिज्ञातनिजावसानसमयाः समयोचितं चिकीर्षवः समस्त्रश्रीसंघ खकीयगच्छं श्रीकुमारपालनृपतिं चाहय, 'तवापि षण्मासशेषमायुरस्ती'ति प्रज्ञापनां कृत्वा, दशपाऊराधनां विधाय, समाधियोगसाधितखकृत्याः