________________ कुमारपालप्रबोधप्रबन्ध नगरस्थाननिवासिनो बहवः / षड्दर्शनानि / बहवो बन्दिजनाः। स्थाने स्थाने प्रभावना, जिने जिने छत्र-चामरादिप्रदानम् / स्थाने स्थाने सत्पात्रपूजा / याचकानां मनोवान्छिता सिद्धिः / एवं परिवृतो प्रभुणा द्विधोपदिश्यमान वर्मना धुन्धुकपुरे प्राप्तः / प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणे झोलिकाविहारे प्रभावनां विधिसुर्जातिपिशुनानां द्विजातीनामुदितमुपसर्ग वीक्ष्य तान् विषयताडितान् कुर्वन् श्रीशत्रुञ्जयतीर्थ प्राप / पादचारेण पर्वताधिरोहणम् / श्रीजिनेन्द्रप्रासादद्वारे सपादसेतिकामौक्तिकैः प्रासादद्वारवर्द्धापनकम् / मध्ये प्रदक्षिणात्रयम् / / प्रथमपूजायां नवाङ्गेषु नवरत्नानि लक्षमूल्यानि / अष्टाह्निकामहोत्सवः / सुवर्ण-रूप्यादिसप्तध्वजाप्रदानम् / चैत्यपरिपाव्यां वामहस्तं श्रीगुरूणां हस्ते लग्नं वीक्ष्य महं कपर्दी पाह५२७. ___ श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूनित प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् / वामोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात् / न स्पृश्येत करेण चेत् यतिपतेः श्रीहेमसूरिप्रभोः॥ प्रमुदितो राजा / अवारितान्नदानयाचकसत्काराः प्रवर्त्तन्ते। . . 695. मालोद्घट्टनप्रस्तावे उदयनसुतादिमहापुरुषसंघश्रेणिभृते धर्मशिलायां महं वागभटः प्रथमं लक्षचतुष्कमवदत् / प्रच्छन्नधार्मिकः कश्चित् कथापयत्यष्टी लक्षाः। एवमन्योन्येष्वीश्वरेषु वर्द्धयत्सु कश्चित् सपादकोटी चकार / चमत्कृतो राजोवाच-'उत्थाप्यतां स यो गृह्णाति' / उत्थितः स यावत् दृश्यते तावद् बादरमलिनवसनो / वणिगरूपो विलोकितः / राज्ञा वाग्भटो भाषितः-'द्रव्यसुस्थं कृत्वा देहि' / श्रीवाग्भटो वणिजा सहोत्थाय द्रव्यसुस्थं पप्रच्छ / वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् / मत्रिणा पृष्टम् - 'कुत इदं ते 1 / वणिगाह'महूअकवास्तव्यो मत्पिता हंसाख्यः सौराष्ट्रिकः प्रागवाटान्वयः। अहं तदभूर्जगडः। माता मे धारूनानी / मत्पित्रा निधनसमयेऽहं भाषितः- "वत्स ! चिरं कृताः प्रवहणयात्राः। फलिताश्च मे / मेलितं धनं तेन च प्रत्येकं सपादकोटिमूल्यं माणिक्यपञ्चकम् / अधुना प्रभुऋषभचरणौ शरणं मे / अनशनं प्रतिपन्नम् / क्षमिताः / सर्वे जीवाः / एकं माणिक्यं श्रीऋपभाय, एकं श्रीनेमिनाथाय, एकं चन्द्रप्रभाय, माणिक्यद्वयमात्मनोऽन्तिके दध्याः / " मामिति निगद्य गतः परलोकं पिता / तजनकवचनसमर्थनाय जनन्याः सहाहमागतः / सा कपर्दिभुवने मुक्ताऽस्ति / तामष्टपष्टितीर्थाधिका मालां परिधापयिष्यामि / ' श्रुत्वा हृष्टो राजा मत्री संघश्च / मालापरिधान कृतं तेन जगडेन वणिजा / तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणं राजा कारयामास / . महापूजावसरे चारणः पपाठ५२८. इकह फुल्लह माटि देयइ जु नरसुरसिवसुहइ / ___.. एही करइ कु साटि कट भोलिम जिणवरतणी॥ नवकृत्वः पठने नवलक्षदानं द्रम्माणाम् / आरात्रिकावसरे महादानम् / 696. ततो राजा खं कृतार्थ मन्यमानः, कृत्वा अमानमहिमानं श्रीरैवतदैवतं मनस्याध्याय सपरिकरस्तद्दिशं प्रति प्रयाणमकरोत् / पथि च वृक्षानपि पट्टकूलपरिधापनिकया सन्मानयन् रैवतासन्ने समायाते, अकस्मादेव पर्वत-. कम्पे सक्षायमाने श्रीहेमचन्द्राचार्या नृपं प्राहुः-'इयं छत्रशिला युगपदुपेतयोर्द्वयोः पुण्यवतोरुपरि पतिष्यति / ' इति वृद्धपरंपर। / तदावां पुण्यवन्तौ, : यदियं गीः सत्या भवति, तदा लोकापवादः / नृपतिरेव दैवं नमस्करोतु,. नवयम्'-इत्युक्ते नृपतिनोपरुध्य प्रभव एव सङ्केन सह प्रेषिताः, न स्वयम् / छत्रशिलामार्ग परिहत्य परस्मिन् मार्गे जीर्णप्राकारपक्षेन श्रीवागभटकारितपयां चटितः / तत्र साप्रविधिपूर्वकं स्नात्रपूजादानं सर्वस्थानेषु / लक्षारामसहस्रामवन-चन्द्रगुम्फाम्बिकावलोकनाशिखर-शाम्प-प्रधुमादिषु चैत्येषु चैत्यपरिपाटीं कृतवान् महाप्रभावनां च /