________________ कुमारपालप्रबोधप्रबन्ध प्रमतीहीनेषु प्रासादेषु निरन्वयताकारणं ज्ञात्वा मदन्वयाभावे धर्मसन्तानमेवास्तु, पूर्वोद्धारकारिणां श्रीभरतादीनां पंक्तौ नामास्तु; यतः त्वरितं किंकर्तव्यं विदुषा संसारसन्ततिच्छेदः। इति दीर्घदर्शिन्या बुद्ध्या विमृश्य भ्रमतीभित्तौ अन्तरालं शिलाभिर्निचितं विधाय वर्षत्रयेण निष्पन्ने प्रासादे कलश-दण्डप्रतिष्ठायां श्रीपत्तनसंघ निमत्र्यानीय महता महेन संवत् 1211 वर्षे ध्वजाधिरोपं मत्री कारयामास / / शैलमयबिम्बस्य मम्माणीसत्कपरिकरमानीय निवेशितवान् / श्रीबाहडपुरे नृपतिपितुर्नाम्ना त्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् / तीर्थपूजाकृते चतुर्विंशत्यारामान् , नगरपरितो वप्रम् , देवलोकस्य ग्रासावासमुख्यं सर्व कारयामास / अस्य तीर्थोद्धारस्य व्यये द्विकोटी सप्तनवतिलक्षयुता व्ययिता वारद्वयं मेलयित्वा / पाठान्तरे-लक्षसप्तकयुता कोटी व्ययिता यत्र मन्दिरे / स श्रीवाग्भदृदेवोऽत्र वर्ण्यते विबुधैः कथम् // . इति तीर्थोद्धारप्रवन्धः। 686. अथो विश्वविश्चैकसुभटेन आंबडेन खपितुः पुण्यार्थ शकुनिकाविहारस्य भृगुकच्छे जीर्णोद्धारे कार्यमाणे रात्रौ नर्मदादेवी मिथ्यादृष्टिर्दिननिर्मितं पातयति, सर्वः कोऽपि तत्र बिभेति / अन्यदा आंबडः खं बलिं प्रकल्प्य तत्र रात्री शितः / समायाता देवी। तत्साहसेन तुष्टा सती प्रासादकरणे साहाय्यमकरोत् / ततः संपूर्ण निष्पन्ने प्रासादे कलश-ध्वजप्रतिष्ठासमये श्रीहेमसूरिः श्रीकुमारपालः सपरिकरः श्रीपत्तनादिबहुग्रामनगरश्रीसंघः संमैयरुः / अशन-वसन-भूपणादिदानैः श्रीसंघ सत्कृत्य, ध्वजाधिरोपाय सञ्चरन्, अर्थिभिः खं मन्दिरं मुषितं " कारयित्वा, सुमुहर्ते कलशरोपण-ध्वजारोहणादि कृत्वा, हर्षोत्कर्षात्तत्र लास्सं विधाय, आरात्रिकं गृह्णन् , राज्ञा कृतमङ्गलतिलकः खयं राज्ञा पुनः पुनः प्रेर्यमाणः, द्वासप्ततिसामन्तैश्चामरपुष्पवर्षादिभिः कृतमहोत्सवः, प्रदत्तकङ्कणकुण्डलहारगजाश्वादिमहादानः, बाहुभ्यां धृत्वा बलात्कारेण नृपेणावतार्यमाणारात्रिकमङ्गलप्रदीपः श्रीसुव्रतस्वामिनः श्रीगुरोश्चरणौ प्रणम्य साधर्मिकवन्दनां कृत्वा, नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ / राजा प्राह - ‘मत्रिन् ! यथा घुतकारो द्यूतरसातिरेकेण शिरःप्रभृतीन् पदार्थान् पणीकुरुते, तथा भवानपि सर्व दत्त्वा मा कस्मैचिद्दानातिरेकाच्छि-. रोऽपि पणीकरोतु, तदमूल्यं मया सर्वखदानेऽपि न छुट्यते-' इति एतदाकर्ण्य सर्वेऽपि चमत्कृताः प्रमुदिताश्च / केनापि पठितं कविना५०६. किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः। . कलौ चेद्भवतो जन्म कलिरस्तु कृते न किम् // लक्षदानमत्र / ततः श्रीसंघलोकाः खं खं स्थानं जग्मुर्यथोचितमांबडमत्रिणा सत्कृताः / कृतांबडप्रशंसौ. श्रीगुरु-क्ष्मापती यथागतं जग्मतुः / 687. अथ श्रीपत्तने समागतानां प्रभूणां श्रीमदांबडस्साकस्माद्देवीदोषात् पर्यन्तदशां गतस्य विज्ञप्तिकाऽऽययौ / तां च वाचयित्वा तत्कालमेव 'तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां दोषः सञ्जातः'-इत्यवधार्य प्रदोषसमये यशश्चन्द्रतपोधनेन समं विद्यावलाद् गगनाङ्गणेन भृगुपुरपरिसरे समागत्य सैन्धवादेवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादवगणिताः श्रीहेमसूरयः / उदूखले शालितन्दुलान् प्रक्षिप्य यशश्चन्द्रेण प्रदीयमाने " मुशलाहारे प्राक् प्रासादग्रकम्पोऽभूत् / द्वितीयप्रहारे देवीमूर्तिश्चकम्पे / तृतीयप्रहारे खस्थानादुत्पत्य देवीमूर्तिः 'मां रक्ष रक्षेति जल्पन्ती श्रीगुरुचरणयोः पपात / इत्थमनवद्यविद्याबलान्मिथ्याग्देवीदोषं निगृह्य श्रीजिनशासनप्रभावनां कृत्वा श्रीसुव्रतजिनं नत्वा श्रीआंबडयोलाघस्नाने जाते देवीमापृच्छ्य यथापथमगुः / श्रीउदयनचैत्ये कर्णावत्यां, श्रीशकुनिकाविहारे, राज्ञो घटीगृहे, कौंकणनृपतेः कनकमयं कलशत्रयं स्थानत्रये न्यास्थदांबडमत्री राजपितामहः /