________________ पुरातनाचार्यसंगृहीत घाणका अपापि स्थाने साने दृश्यन्ते / ततो ववले परराष्ट्रमर्दनः श्रीचालुक्यनृपः / समायातः श्रीपत्तने। श्रीगुरूणां पादारविन्दान् पर्युपास्ति / सामायिक-पौषधादि करोति / खपरदेशेषु नवीनजीर्णोद्धारप्रासादकरणेषु महाप्रयत्नमकरोत् / 185. अथ सौराष्ट्रदेशीयेन सराकेन राज्ञा प्रच्छन्नं गृहमध्ये प्रविश्य अजा व्यापादिता / कण्टेश्वर्या देव्या 'राज्ञे निवेदितम् / तं नृपं विग्रहीतुं श्रीमदुदयनमन्त्रिणं सेनानायकं कृत्वा समस्तकटकबन्धेन प्राहिणोद् राजा / स तु पादलिप्सपुरे श्रीवर्द्धमानं नत्वा श्रीयुगादिदेवं निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरानादिश्य स्वयं श्रीशत्रुञ्जयं जगाम / विशुद्धश्रद्धया स्त्रात्रपूजारात्रिकादिकं विधाय यावचैत्यवन्दनां विधत्ते, तावत् प्रदीपवृत्तिमादाय मूषकः काष्ठमयप्रासादपिले प्राविशन् देवाङ्गपूजकैस्त्याजितः / तदनु स मत्री समाधिभङ्गात् काष्ठमयप्रासादविनाशाद् देवाशातनां विमृश्य जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मैकभक्तभूशयनताम्बूलादित्यागा• दिकानभिग्रहान् जग्राह / यतः५०३. एकोऽपि नियमो येन गृहीतो गृहमेधिना। जिनाज्ञा पालिता तेन भवकूपारपारदा // ततः कृतप्रयाणः स्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरेण सह सङ्गरे सञ्जायमाने खसैन्ये मने खयं सङ्ग्रामं कुर्वाणो रिपुप्रहारजर्जरितशरीरो मत्री रणभूमौ पतितः / स करुणं क्रन्दन् केनापि बुद्धिमताऽङ्गरक्षकेण दुःखकारणं पृष्टः स्वमनसः शल्यचतुष्टयं प्राह-१. आम्बडस्य दण्डनायकत्वदापनं, 2. श्रीशत्रुञ्जयप्रासादपापाण- मयनिर्मापणं, 3. श्रीरैवतनव्यपद्यानिर्मापणं, 4. निर्यामकगुरुं विना मम मृत्युः-इति शल्यचतुष्कमस्ति ममेति श्रुत्वा स प्राह- 'आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति, आराधनार्थ साधुमानयामी'ति मत्रिणं विज्ञप्य स्वयमले गत्वा साधुवेषधरं राजपुत्रमेकं लात्वा समायातः / तत्समक्षं दशधाऽऽराधनां विधाय, समाधिधीरचित्तः खीकृतानशनः श्रीमानुदयनः परलोकमसाधयत् / साधुवेषधरोऽपि नेमिदृष्टौ अनशनपरो मृत्वा वर्ग गतः / . ___ततोऽङ्गरक्षकेणागत्योदयनखरूपे प्रोक्ते तज्येष्ठपुत्रो पाहडोऽभिग्रहचतुष्टयं जग्राह निजपितुः / ततो. वाहडः खभ्रातुराम्बडस्य दण्डनायकत्वमदापयत् / खयं राजादेशेन पैतृकवरेण च ससैन्यः पुनः सुराष्ट्रायां गत्वा वैरिणं समस्पं (समरनृपं 1) रणाङ्गणे निर्जिय श्रीपत्तने श्रीकुमारपालनरेश्वराय गजाश्वभाण्डागारसहितं तन्मस्तकं समर्पयामास / तदनु राज्ञा तन्मस्तकं वंशे बड्वा सर्वत्र देशमध्ये प्रामितं चोक्तं च-'यः प्रच्छन्नं जीववर्ष करिष्यति तस्स शिरश्छेदो भविष्यति'। ततो राजाज्ञामादाय श्रीरैवतके त्रिषष्टिलक्षद्रव्यव्ययेन नवीनां सुगमा पद्यामकारयत्, अम्बिकाप्रक्षिप्तमार्गेण। महतोपक्रमेण वर्षद्वयेन श्रीशत्रुञ्जयप्रासादोद्धारे निष्पन्ने व‘पनिकापुरुषस्य द्वात्रिंशत्वर्णजिहा दत्ताः। यतः५०४. भवन्ति भूरिभिर्भाग्यधर्मकर्ममनोरथाः। फलन्ति यत्पुनस्तेऽपि तत् सुवर्णस्य सौरभम्॥ विद्युत्पाताद्विदीर्ण पुनः कथकपुरुषस्य द्विगुणा व‘पनिका / अस्मासु जीवत्सु चेद्विदीर्णस्तदा भव्यं जातम्, पुनरपि द्वितीयमुद्धारं करिष्याम इति / .505. प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नभयंतो विरमन्ति मध्याः। विनैः सहस्रगुणितैः प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति // ... एवं विमृश्य भूपमापृच्छ्य महं कपर्दिने श्रीकरणमुद्रां नियोज्य तुरंगमाणां चतुर्भिः सहः श्रीशत्रुञ्जयं माप / तत्र पाहडपुरनगरं न्यास्थत्। सम्रमतीयुते प्रासादे पवनः प्रविष्टो न निर्यातीति, स्फुटनहेतुं शिल्पिभिर्निपीय