________________ 498. कुमारपालप्रयोधप्रबन्ध एतत्स्वरूप पूर्वमानाकप्रपञ्चपरिज्ञानाय भूपतिप्रेषितः प्रधानपुरुषः प्रीतिप्रीणितानाकदासीमुखेन ज्ञात्वा विज्ञप्त्या श्रीकुमारपालायाज्ञापयत्-'सावधानः स्थेयं, भरटकविश्वासो न कार्यः' इति / ततो राजाऽन्यदा लोकव्यवहारेण करणमेस्त्रासादे नवीनं भरटकं प्रधानज्ञाप्तिचेष्टया दृष्टमात्रमेवोपलक्ष्य निजपुरुपैर्वध्वा व्याघ्रसझं प्रकटीकृत्योरुबद्धां च क्षुरिकां प्राह-रे वराक ! जंगडकेन प्रेषितोऽसि ?, सेवकस्य विचाराविचारो नास्ति हिताहितस्य / खाम्यादेशवशंवदस्त्वम् , मा भैषीर्मुक्तोऽसि, तमेव हनिष्यामि, य एवं .द्रोहमकरोत् / ' ततो समस्तखसैन्यपरिवृतः / सपादलक्षदेशसीम्नि गतः / श्रीकुमारपालभट्टेनानाकनृपः प्रोक्तः अये! भेक च्छेको भव भवतु ते कूपकुहरं .. शरण्यं दुर्मत्तः किमु रटसि वाचाट ! कटुकम् / ___पुरः सप्पो दी विषमविषस्यूत्कारवदनो ___ ललजिह्रो धावत्यहह भवतो जिग्रसिषया // .. एतदाकाऽऽनाकोऽपि वाजिलक्षत्रयेण पदातिलक्षदशकेन पञ्चाशता गजैः संमुखमचलत् / स्वदेशतः पञ्चक्रोश्या अर्वाक् मेलापकः / तृतीयदिने युद्धं भविष्यतीति निर्णये बहुद्रव्यप्रदानेन परावर्तितं रात्रौ चौलुक्यसैन्यम् / अर्थो हि परावर्त्तयति त्रिभुवनम् / यतः४९९. दधाति लोभ एवैको रङ्गाचार्येषु धुर्यताम् / आरङ्कशक्रं यन्नाट्यपात्राणि भुवनत्रयी / .. तृतीयदिने रणकरणसमये सामलमहामात्रेण कलहपंचानने गजे पुरः प्रेर्यमाणे तटस्थान् स्वसामन्तान् / दुष्टान्निरणैपीत् / कुमारपालः प्रोवाच-'श्यामल! किममी उदासीना इव दृश्यन्ते ?' / तेनोक्तम् -'देव! अरिकृतार्थदानादिति' / 'तव का चेष्टा ?' श्यामलोऽप्याललाप --'देवाहं कलहपंचाननो देवश्चैते त्रयः कदाचिदपि न परावर्त्तन्ते' / तर्हि संमुखीने दृश्यमाने रिपौ गजं प्रेरय / अत्रान्तरे चारणः प्राह - .. 100. कुमारपाल मत चिंत करि चिंतिउ किंपि न होई।. जिणि तुह रज्जु समोपियउं चिंत करेसिई सोई // 501. अन्यस्तु- अम्हे थोडा रिउ घणा इय कायर चिंतंति / मुद्ध निहालउ गयणयलु के उज्जोउ करंति // 502. अपरः कश्चित्-साहसि जूतउं हल वहइ दइवह तणइ कपालि। खेडि म खूटा टालि खूटा विणु खीषइ नही // - त्रयाणां लक्षं लक्षं ददौ / तेपां सुशब्दं लात्वा रणभूमौ द्वयोश्विरयुद्धम् / आनाकसैन्ये चाहडनाना , सुभटेन सिंहनादे कृते कलह्पंचानने निवर्तमाने कुमारपालः सुबुद्धिमान् स्वमुत्तरीयं पाटयित्वा गजकर्णी पिधाय, रणभुवि विधुदुक्षिप्तकरणं दत्त्वा आनाकगजस्कन्धमारूढः / करिगुडां छित्त्वा भूमौ पातयित्वा हृदि पदं दत्त्वा-रे वाचाट ! स्मरसि वचो मे भगिन्याः१ / पूरयामि तत्प्रतिज्ञाम् , छिनमि ते जिह्वा'मित्युवाच / ततः काष्ठपाखरे क्षिप्तः / दिनत्रयं खसैन्ये स्थापितः / जयातोद्यानि उद्घोषितानि / ततः करुणया पुनः शाकंभरीपतिः कृतः / उत्खातप्रतिरोपितव्रताचार्यो हि कुमारपालः। अवटुजिह्वाकर्षणं टोप्यां पश्चात् जिह्वाकरणं च / गम्भीरतया - 'बमटा नोपालब्धाः। त्यक्तजीविताशास्ते सर्वेऽपि सेवां कुर्वन्ति / / मेडतकं सप्तवारें भग्नम् / पल्लीकोटस्थाने रुषाऽर्द्रकमुप्तम् / पुरा मालवीयनृपैगुर्जरदेशे प्रासादाः पतिताः। पापभीरुणा, श्रीकुमारपालेन तु रुषा मालवके तिलेक्षुपीडनपाषाणयत्राणि भग्नानि / भमास्ते