________________ पुरातनाचार्यसंगृहीत कष्टमपीदं न मम मनसि / या लोभाद् या परद्रोहीद् यः पात्रौद् यः परार्थतः / मैत्री लक्ष्मी व्ययः क्लेशः सा किं सा किं स किं स किम् // ... राजा शनैः शनैर्व्यथया शून्यचित्ततामगात् / राजानं विलोक्य सर्वः कोऽपि विधुरोऽभूत् / श्रीगुरुः सर्व• सम्मतेन खयमुपविष्टो राज्ये / तत्क्षणं राज्ञो व्यथा सूरिशरीरे संक्रान्ता / श्रीगुरुव्यथां ज्ञात्वा राजा मनसि दूनश्चिन्तयति४९७. स्वाङ्गदाहेऽपि कुर्वन्ति प्रकाशं दीपिकादशाः। लवणं दह्यते वह्नौ परलोकोपशान्तये / / श्रीगुरुरुवाच -'राजन् ! मा चिन्तां कुरु, न मे शक्तिमतोऽसुखम् / मूलाचेन्नोन्मूलयाम्येनां तदी मम वंश्यानां स्यात् / ततः. पकं कूष्माण्डमानाय्य प्रविश्यान्तः स्वयं गुरुः / तत्र न्यवीविशल्लुतां तदैवाभूत् तदन्यथा // 6 उत्पाट्यान्धप्रधौ क्षिप्तं कश्चिन्नोलड़ते यथा / एवं स्वस्थमभूत् सर्वे सूरेः शक्तिरहो स्फुटा // 7 82. अथान्यदा श्रीमहावीरचरित्रे वाच्यमाने श्रीगुरुमुखेन देवाधिदेवप्रतिमासम्बन्धं श्रुत्वा राज्ञा वीतभयं प्रत्तनं गत्वा. महतोपक्रमेण देवतासान्निध्येन सा प्रतिमा पूजिता महोत्सवेनानीता / साधुना रामसैन्ये ... ऽस्तीति लोकोक्तिः / - 183. कदाचित् पृथिवीमानृणाय नृपतिना सुवर्णसिद्धये श्रीहेमाचार्याणामुपदेशात् तद्गुरवः श्रीदेवचन्द्राचार्याः श्रीसङ्घ-नृपतिविज्ञप्तिकाभ्यामाकारिताः। तीव्रतपरायणा महत्सङ्घकार्य विमृश्य विधिविहारेण पथि केनापि अनुपलक्ष्यमाना निजामेव पौषधशालामागताः / राजा तु प्रत्युद्गमनादिसामग्री कुर्वन् प्रभुज्ञापितस्तत्राययौ / अयं गुरोः पुरो नृपतिप्रमुखसमस्तश्रावकयुतैः प्रभुभिर्दादशावर्त्तवन्दनकं दत्त्वा तदुपदेशादनन्तरं गुरुभिः पृष्टे सरकायें सभां विसर्य जवनिकान्तरितौ श्रीहेमचन्द्र-नृपती. तत्पादयोर्निपत्य सुवर्णसिद्धियाचनां चक्राते / 'मम बाल्ये . विद्यमानस्य सतः ताम्रखण्डं काष्ठभारवाहकात् याचितवल्लीरसेनाभ्यक्तं युष्मदादेशाद् वह्निसंयोगात् सुवर्णषिमूव / तस्या वल्या नामसङ्केतादि आदिश्यताम्' - इति श्रीहेमाचार्यैरुक्तवति कोपाटोपात् श्रीहेमचन्द्रं दूरतः प्रक्षिप्य'न योग्योऽसीति, अग्रे मुद्गरसप्रायप्रदत्तविद्यया त्वमजीर्णभाक्, कथमिमां मोदकप्रायां तव मन्दागर्ददामि' इति तं निषेध्य, नृपं प्रति-'एतद्भाग्यं भवतां नास्ति, येन जगदानन्दकारिणी स्वर्णनिष्पत्तिविद्या सिध्यति / अपि च मारिनिवारण-जिनमण्डितमहीकरणादिपुण्यैः सिद्धे लोकद्वये किमधिकमभिलपसि ?' इत्यादिश्य तदैव विहारक्रमं कृतवन्तः / - 684. अथ श्रीकुमारपालदेवस्य भगिनी शाकंभरीशेन चाहुमानवंशेन राज्ञाऽऽनाकेन परिणीताऽस्ति / तयोमिथः सारिक्रीडां कुर्वतोरन्यदा राज्ञा सारिं गृहे मुञ्चतोक्तम् - 'मारय मुण्डिकान्, पुनर्मारय मुण्डिकान् / ' एवं द्वित्री राजगुरवः श्वेताम्बरा मुण्डिका इति हास्यगर्भोक्तिः। तदाकर्ण्य राज्ञी कुपिता प्राह-रे जंगडक! किं जिहामालोक्य नोच्यसे ? किं वक्ष्यसि, न पश्यसि माम् , न जानासि मम भ्रातरं राजराक्षसम् / क्रुद्धो राजा पादघातेन तां जघान / साऽप्याह- 'यदिरे तव जिह्वामवडुमार्गेण नाकर्षयामि, तदा राजपुत्री मां मा मंस्थाः। इति * वदन्त्येव सा ससैन्या निर्विलम्बं श्रीपत्तनमागत्य श्रीचौलुक्याय तं परिभवं स्वप्रतिज्ञां चाविज्ञपत् / राजाऽप्य___भाषत-'पश्य कौतुकमित्यमेव करिष्यामः।' ततश्चाऽऽनाकस्तस्यां तत्र गतायां गूर्जरनृपं दुर्द्धरं विदन् क्षुमितः / कुलकमायातं स्वसेवकं व्याघ्रराजं दीनारलक्षत्रयं दत्त्वा भरडकवेषधारिणं श्रीकुमारपालस्स मारणाय प्रेषीत् /