________________ 102 पुरातनाचार्यसंगृहीत F88. अथ कस्मिन्नप्यवसरे सपादलक्षं प्रति सैन्यं सजीकृत्य श्रीवाहडांबडानुजन्मा चाहडनामा मत्री दानशौण्डतया दूषितोऽपि भृशमनुशिष्य भूपतिना सेनापतिश्चके / तेन द्वित्रिप्रयाणानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाध्यक्षाद् द्रव्यलक्षत्रये याचिते सति नृपादेशात् तस्मिन्नददाने तं कशाप्रहारेणाहत्य कटकान्निरवासयत् / खयं यदृच्छयां. दानैः प्रीणितार्थिलोकः, चतुर्दशशतीसंख्यासु करभीष्वारोपितैर्द्विगुणैः सुभटैः समं सञ्चरन् , शीर्ष / स्तोकप्रयाणे रात्रौ मागितादत्तकप्रच्छादवस्त्रकते बबेरानगरप्राकारमवेष्टयत / तस्मिन्नगरे तस्यां निशि सप्त कन्यानां विवाहः प्रारब्धोऽस्ति - इति नगरलोकादधिगम्य तद्विवाहाथ तस्यां निशि स्थित्वा प्रातः प्राकारपरावर्त मकार्षीत् / तत्र गृहीताः सुवर्णकोटयः सप्त, एकादशसहस्राणि वडवानाम् , प्राकारं घरट्टैश्चूर्णीचकार इति / संपत्ति गर्भितां विज्ञप्तिकां वेगवत्तरैर्नरैर्नृपं प्राहिणोत् / स्वयं तत्र देशे कुमारनृपतेराज्ञां दापयित्वाऽधिकारिणो नियोज्य * व्याधुटितः / सप्तशती कलावतां तन्तुवायानामादाय श्रीपत्तनं प्रविश्य, राजसभामधिगम्य, नृपं प्रणनाम / श्रीकु. " मारपालस्तमावर्ण्य, तदुचितालापावसरे तद्गुणरञ्जितोऽप्येवमवादीत् - 'तव स्थूललक्षतैव महढूपणं [रक्षामन्त्रः], नो वा चक्षुर्दोषेनोर्द्ध एव विदीर्यसे / यद् व्ययं भवान् कुरुते तादृक्कर्तुमहमपि न प्रभूष्णुः' - इत्यादि श्रुत्वा चाहडो नृपं प्रत्यवोचत् - 'तथ्यमेतद् यथादिष्टं देवेन / यतः, पुत्रः पितुः कोशबलेन व्ययं करोति, पिता तु कस्य पलेन करोति / तेन मयैव साधीयान् द्रव्यव्ययः क्रियते'-इति वदन् , प्रमुदितेन राज्ञा सत्कृतः / संसद्यनjतां लभमानो 'राज घर दृ'विरुदं लब्ध्वा नृपतिविसृष्टः खं पदं प्रपेदे / सप्तशती तन्तुवाया[नां] छत्राधःस्नानं काराप्य पवित्रीकृता / तस्य भ्राता स्वकीयौदार्यावर्जितसमस्तराजवर्गः सोलाकः 'सामन्तमण्डलीसत्रागार मिति बिरुदं बभार / 689. अथान्यदा राजा द्वासप्ततिसामन्तैः सहितः श्रीगुरूणां पार्श्वे धर्मदेशनामशृणोत् / भावेह अणिञ्चत्तं जुवणधणसयणअत्थदाराणं / देहस्स जीवियस्स य इफपि न पिच्छहो निचं // इत्यादि श्रुत्वा राजा संसारासारतां विभाव्य भवभावविमुखपरिणामः संवेगरसतरङ्गितान्तःकरणः श्रीगुरुन् " प्रणम्य पप्रच्छ -'भगवन् ! अद्य का तिथिः ?' इति / श्रीगुरवः सहसाऽमावास्यादिने पूर्णिमेत्याहुः / अत्र वामराशिलब्धावकाशो मिथ्यादृग् बाह्यमित्रोऽप्यान्तरशत्रुराह - 'अहो! कलिकालसर्वज्ञः श्रीहेमसूरिश्वेदध पूर्णिमा कथयति तदा लोकानां भाग्येन पूर्णिमैव भविष्यति' - इत्युपहासगर्भ वचः श्रुत्वा श्रीगुरवः प्राहुः- 'सत्यमेतत् भवद्वचः / तेनोक्तम् - 'कोऽत्र प्रत्ययः / श्रीगुरुभिरुक्तम् - 'अहो केयं भवतश्चातुरी चन्द्रोदय एव प्रत्ययः।' इति श्रुत्वा सर्वेऽपि विस्मयस्मेराः परस्परमाहुः- 'किमित्थमपि भविष्यति ?' / ततो राजा विस्मयंगतस्सन् द्वासप्ततिसा। मन्तादिवृतो राजसभामागत्य क चन्द्रोदयो भविष्यतीति परिज्ञानाय घटीयोजनगामिनीकरभ्यारूढान्निजपुरुषान् पूर्वस्यां दिशि प्राहिणोत् / ततः श्रीहेमसूरिः पूर्वप्रदत्तवरसिद्धचक्रदेवप्रयोगेन पूर्णिमावत् पूर्वस्यां सन्ध्यासमय चन्द्रोदयं कृत्वा सकलां रात्रि ज्योल्लामयीं विधाय चतुरो यामान् गगनतलमवगाह्य सर्वलोकसमक्षं प्रत्यूषे पश्चिमायां गतोऽम्तमगात् / प्रभाते तेऽपि प्रेषिताः पुरुषाः समागत्य तथैव प्रोचुः / सर्वेषां महान् विस्मयोऽभूदुअहो! श्रीगुरूणां काऽपि महती शक्तिः; अहो ! जैनानां कोऽपि महामहिमा लोकोत्तरः- इति जनोक्तिरभूत् / / 507. .690. अथ राजा तेषां विप्रादीनां तदेव छलवचनं स्मरन् श्रीगुरूणां पुरः प्रश्नमकरोत्- 'भगवन् ! सत्स्वपि बहदर्शनेप ब्राह्मणानां कस्माजिनधर्मे महान द्वेषः / तत्र श्रीगुरुः प्राह-'राजन् ! पुरा प्रथमजिनो युगादौ विहरन विनीतासन्ने पुरिमतालपुरे समवस्तः। भरतश्चक्री श्रीजिनस्याष्टानवतिभ्रातृसाधूनां चागमनं श्रुत्वा भक्ताद्यर्थ खादिमादिशकटानि भृत्वा तत्र गतः / प्रभु प्रणम्य धर्मदेशनां श्रुत्वा. भक्ताद्यर्थ साधूनां निमत्रणामकरोत् /