________________ श्रीसोमतिलकसूरिविरचितं मया ग्राहिताः, सकलार्थिसार्थप्रार्थना सफलीकृता, प्रीणिता सप्तक्षेत्री पवित्रखवित्तेन, आराधितः श्रीधर्मः, तत्किं मम जीवितेन कार्यम् ; केवलं रहः काष्ठानि देहि, येन प्रातर्मामीदृशं दृष्ट्वा लोको श्रीधर्मस्य निन्दा करिष्यति' / मत्री 'अहो ! महत्कष्टम् / पारवश्यमूलं नियोगं धिगि'ति क्षणं विमृश्योवाच-'देव ! पूर्व श्रीगुरूणां स्वरूपं विज्ञाप्यते / ' राज्ञोतमेवमस्तु / तदैव मत्री गतः श्रीगुरूणां पदान्ते / निवेदितं तत्स्वरूपम् / क्षणं स्मरणकरणीयं कृत्वा गुरुभिर्जलमभिमण्यार्पितम् / तदाच्छोटनमात्रेण राजा सविशेषशरीरशोभाभागभूत् / अत्यन्तश्रीगुरुभक्तिभावितश्च प्रातर्महा-' महोत्सवेन श्रीगुरुपादारविन्दं वन्दितुं यावद्याति, तावद्धर्मशालाप्रथमप्रवेशे स्त्रीकरुणखर शु कण्टेश्वरी मत्रयत्रितां च पश्यति / तावता सोवाच-'राजन् ! मोचापय मां सूरिप्रयुक्तमत्रबन्धनान् / तवाज्ञावधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति' / श्रीगुरुवचसा मोचिता / कवयः सर्वे खंमतिभिः प्रोचुः४७४. श्रीवीरे परमेश्वरे भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः। अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात्, यस्यासाद्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः // 475. पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् / षड्दर्शनपशुग्रामं चारयन् जैनगोचरे // 476. नाभवद्भविता नैव हेमसूरिसमो गुरुः। श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः // 477. राजालठति पादाग्रे जिह्वाग्रे च सरस्वती शश्वत्स श्रेयसे श्रीमान् हेमसूरिनेव: शिव:" 478. सप्तर्षयोऽपि गगने सततं चरन्तो मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् / जीयात् पुनश्चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः // प्राणित्राणे व्यसनिनां शान्ति-सुव्रत-नेमिनाम् / हेमाचार्योऽत्र चातुर्ये तुर्यः किं नु स दुयुगे // सर्वेषां कवीनां लक्षं लक्षं ददौ / * 676. अथान्यदा भोजनं कुर्वतो राज्ञा घेवरभुक्तौ किंचिद्विचिन्त्य कृतसकलाहारपरिहारः पवित्रीभूयेति प्रभुं पप्रच्छ'भगवन् ! घेवराः किं भक्ष्या वाऽभक्ष्याः ?' श्रीगुरुभिरुक्तम्-'राजन् ! भक्ष्या अभक्ष्याश्चेति / भणितं पुनः-'भगवन् ! भक्ष्याश्चेदभक्ष्याः कथम् , अभक्ष्याश्चेद्भक्ष्याः कथम् ?' / श्रीगुरुभिरमाणि-'राजन् ! ये क्षत्रियादयः पूर्वं ज्ञातमांसाखादास्तेषामभक्ष्याः, ये तु वणिग्वाह्मणादयोऽज्ञातमांसास्वादास्तेषां भक्ष्याः।' इत्याकर्ण्य प्रमुदितः / 'अहो ! प्रभूणां युक्ता 'कलिकालसर्वज्ञता' मानसिकपरिणामोऽपि येषां प्रत्यक्षः' / ततो राजा दन्तपातनसोद्यतः श्रीगुरुमिनिषिद्धः / कृतघेवरभक्षणनियमः प्रायश्चित्तपदे द्वात्रिंशत् प्रासादानेकस्मिन् पीठबन्धेऽकारयत् / द्वात्रिंशत् प्रकाशान् प्रत्यहं गुणयति प्रत्यूषे / 77. अन्यदा, एकस्मिन् दिने कस्मिन् ग्रामे तैलिकेन रात्रौ यूका हता / कण्टेश्वर्या राज्ञो ज्ञापितः स दण्डितः / तद्रव्येण 'यूकावसतिः' कारिता / पुरा गृहीतेनाखुद्रव्येण 'उन्दिरवसति'श्च / यस्याः करेण पुरा करम्बो भुक्तस्तस्या देवरिया नाम्ना 'करम्बावसतिः' / अथ श्रीस्तंभतीर्थे सामान्ये आलिगवसहिकाप्रासादे यत्र दीक्षाक्षणः प्रभूणां" बभूव, तत्र रत्नबिम्बालङ्कृतो निरुपमो जीर्णोद्धारः कारितः / 678. अन्यदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः करगृहीतलेखपत्रः सभायां समायातः / कृतप्रणामः पृष्टो राज्ञा-'भो ! कुतः, कस्त्वं समायातः 1 तेनोक्तम्-'देव ! देवेन्द्रेण प्रेषितोऽस्मि, युष्मदन्तिके लेख. समर्पणाय' इत्युक्त्वा लेखं समर्पितवान् / सभायां लेखः प्रस्फोट्य बाचितः / यथा WIN