________________ 14 कुमारपालदेवचरितम् / पटादिकं प्राभृतं समर्पितम् / राजा जयचन्द्रो यावत् पट्टमुद्धाट्य पश्यति, तावत्तत्र स्खमूर्ति श्रीकुमारपालमूर्ति जीवहिंसादिकपापफलं नारकिकच्छेदनभेदनादियातनाकुम्भीपाकवैतरणीतरणकूटशाल्मलिवृक्षोलंबनासिपत्रवनप्रवेशनादिकं दृष्ट्वा चित्रस्थं सजातमहापापभयः प्रकम्पमानशरीरः; पुनः पुरः, सम्यग्जीवरक्षादिपुण्यफलं स्वर्गविमानदिव्यदेहदेवाननादिव्याभरणगीतनृत्यवाद्यविविधक्रीडारूपसौभाग्यशृङ्गारभोगादिकं चित्रस्थं दृष्ट्वा विस्मयस्मेरमनाः 'प्रधानपुरुषाणां प्रसादमकरोत् / जीवरक्षार्थ श्रीकुमारपालेन प्रेषिता वयमिति स्वरूपे प्रोक्त जयचन्द्रनृपः खदेशे सर्वत्र जीवरक्षामकारयत् / 18 लक्षजालप्रज्वालनं कृतम् , द्विगुणं च प्राभृतं श्रीकुमारपालाय प्राहिणोत् / पुनरपि मारिः पितापार्श्वमगात् / ततो म्लेच्छकुले गर्जनपुरे दत्ता। 73. अथ वर्षासु कटकारम्भे नियमिते तद्वृत्तान्तं ज्ञात्वा प्रापराभवसातामर्षो गर्जनपुरेशस्त्वमभिषेणयितुमागच्छतीति चरैः प्रोक्ते दूनो नृपः / श्रीपत्तनेऽपि साध्वसमभूत् / विज्ञप्तं तद् गुरूणां तैश्च स्तम्भितः स तत्रस्थः / "षण्मासजीवदयापणे कृते मुक्तः / मारिः कुत्रापि स्थितिं न लेभे / श्रीगुरूणामुपदेशेनाज्ञाकारिषु नृपेष्वष्टादशदेशेषु चतुर्दशवत्सराणि सर्वप्राणिप्रियाममारिमकारयत् / सारेरपि मारिन कश्चित् कथयति / / 472. सौनिक-व्याध-कैवर्त-कल्यपालादिपट्टकान् / अपाटयत् कचिच्छक्त्या भक्त्या चार्थव्ययात् कचित् // 674. अथैकदाऽश्वपर्याणस्थसूक्ष्मजीवप्रमार्जनपरं राजानं दृष्ट्वा नृपाः परस्परं भ्रूसञ्जया स्मितमकार्षुः / तद्विज्ञाय "विज्ञजनशिरोमणिर्लाहकटाहत्रयं बाणेन प्रस्फोट्य कुन्ताग्रेण लोहभृतगोणिमुत्पाठ्य स्वभुजवलमदर्शयत् / तर्जिताच ते-रे ! किमेभिर्वराकैः सूक्ष्मजन्तुभिरल्पसत्त्वैर्हतैरिति' / ततः कुमरगिरौ राजाज्ञयाऽष्टौ लक्षास्तुरङ्गमा गालितं जलं पिबन्ति / अमारिपटहः सर्वत्र पुर-ग्रामादिषु भ्राम्यति / राजपुरुषाश्चामारिं कारयन्ति / 675. अथामारि प्रवर्त्तयति राजनि आश्विनशुक्लपक्षोऽगात् / तत्र कण्टेश्वर्यादिदेवतानामर्चकैर्विज्ञप्तम्-'देव ! सप्तम्या सप्तशतानि पशवः सप्तमहिषाश्च देवतानां पुरो दीयन्ते राज्ञा / एवमष्टम्यामष्टौ शतानि, नवम्यां नवशतानीति' / ॥राजा तदाकर्ण्य श्रीगुरून् समायातान् विज्ञप्तं तत्स्वरूपम् / गुरुवचनमादाय भाषितास्ते-'देयं दास्यामो वहिकाक्रमेण / रात्री देवीनां सद्मसु निक्षिप्ताः पशुमहिषाः / दत्तानि तालकानि / मुक्तास्तत्र रक्षकाः / प्रातः समायातो राजा / उद्घाटितानि तालकानि / मध्ये दृष्टाः पशवो रोमन्थायमानाः / राजा सर्वसमक्षमिदं जगाद-'मो अबोटिका इमे पशवो मयाऽमूभ्यो दत्ताः, परं न ग्रस्ताः / तस्माद्भद्भय एव मांसं रुचितम् , नामूभ्यः / तत्कथं जीवान हन्मि' / ततस्ते सर्वेऽपि विलक्षा मौनमालम्ब्य स्थिताः / छागादिमूल्येन नैवेद्यानि कारितानि देवीनाम् / महा..हिंसादिनं मत्वा राजा नवम्यां कृतोपवासो निशि चन्द्रशालायां दयारसमयः शुभध्याने स्थितः, बहिरारक्षका मुक्ताः / निशीथसमये दिव्यनेपथ्यधारिणी स्त्री प्रत्यक्षा जगाद-'राजन्नहं तव कुलदेवी कण्टेश्वरी / ऐषमोवर्षे किमिति त्वयाऽस्मभ्यो देयं न दत्तम् ? / राजोवाच--'दत्तं मया सर्वम् , परं भवतीभिर्न गृहीतम् / तदहं करुणामयः कथमशरणान् प्राणिनो निहन्मि' / ततः सा क्रुद्धा-'अहो वचसा मामयं विप्रतारयति' इति त्रिशूलेन राजानं शिरसि हत्वा गता / क्षाणान्तरे राजा स्वशरीरे कुष्ठव्रणानि दृष्ट्वा विषण्णोऽभूत् / तदा सद्य उदयनमत्रिणमाहूय प्रोवाच*'मत्रिन् / अद्य देवी प्रत्यक्षा पशून् याचते किं दीयते नवा ?? मत्री प्राह-'राजन् ! अहं किं वच्मि? परमिति जाने अन केनोपायेन स्वामिरक्षा क्रियते' / यतः४७३.जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा / नहु तुंबंमि विणहे अरया साहारगा हुंति॥ एतदाकर्ण्य राजा-'निःसत्त्वो वणिगसि, भक्तिवचांसि एतानि भाषसे / शृणु, आजलधिमेखला खलाः खाज्ञां.