________________ श्रीसोमतिलकसूरिविरचितं 468. सुकलत्रस्य सम्प्राप्तिः पुंसां भाग्यनिबन्धनम् / या प्रीतिजननी जन्या सा सौभाग्योपरि मञ्जरी // 469. स्थाने निवासः सुकलं कलत्रं, पुत्रं पवित्रं स्वजनानुरागम् / न्यायाच वित्तं सुहितं च चित्तं, निश्छद्म धर्मस्य सुखानि सप्त // सा सर्वथा परिणेतुमुचितैव / यतः४७०. धन्यां सतीमुत्तमवंशजातां, लब्ध्वाधिकां याति न कः प्रतिष्ठाम् / - क्षीरोदकन्यां गिरिराजपुत्री, गोपस्तथोग्रश्च यथाधिगम्य // इति तेन महर्षिणा प्रतिबोध्य तानशेपानभिग्रहान् ग्राहयित्वा तस्याः प्रदानं चक्रे / 671. अथ संवत् द्वादशाधिकषोडश 1216 वर्षे मार्गशुदि द्वितीयायां लग्ने बलवति संवेगमतङ्गजारूढो रत्नत्रय-" वस्खाल तो दक्षिणपाणिवद्धोरुदानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गरुभक्तिदेशविरतिजानिणीभ्यां गीयमानधवलमङ्गलः पौषधवेश्मद्वारि अनुकम्पाकन्याजनन्या कृतप्रोखणः श्रीमन्महादेवाईतः साक्षि स नृपतिरहिंसायाः पाणि जग्राह / तदा तारामेलनपर्व / अथ षट्त्रिंशत् सहस्रप्रमाणं त्रिषष्टिचरितं नवाङ्गवेदीमहोत्सवादानीय वेदिपदुद्या(?)स्थाने कपर्दप्रत्येकं विंशति वीतरागस्तवाः / तस्यैकस्यां वेदिकायां वंशान् तथैकैकशमीकाष्ठं तत्पदे श्रीयोगशास्त्रप्रकाशाः 12 / तथा शमीकाष्ठपदे लक्षण-साहित्यतर्केतिहासप्रमुखशास्त्ररचनाभिर्मूलो-, त्तरगुणाभ्यां च दृढीकृत्य वेदिकायां ज्ञानानलमुदीप्य तत्परितो मण्डलचतुष्टयदापनं 'चत्तारि मंगल'मित्यादि / द्वासप्ततिकालक्षप्रमाणरुदतीद्रव्यकरमोचनं तस्याः कन्यामुखमण्डने दत्तम् / तत्कालमेव तस्याः पट्टबन्धं कारयित्वा तत्पितुयोग्यानावसान् विहारान् 1444 कारयामास / ततः सा हिंसा, स्वसपल्या अहिंसायाः परमोन्नतिं तद्विधामालोक्य भर्तुः पराभवनिवेदनाय पितुर्धातुः समीपे समुपागता / चिरदर्शनाद् अभिभववैरुप्याच अनुपलक्षिता तेनेत्यभिदधे४७१... का त्वं सुन्दरि! मारिरस्मि तनया ते तात धातः प्रिया, किं दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यताम् / हेमाचार्यगिरा परार्द्धगुणभाक् हृद्वक्त्रहस्तोदरात्, मामुत्तायें कुमारपालनृपतिः क्षोणीतलादाकृषत् // - इति तद्भणितेरनन्तरं श्रीकुमारपालदेवस्य सत्यप्रतिज्ञस्यापि तस्य लिङ्गिनो गिरा त्वयि विरक्तचित्ततां विमृश्यातःपरं भवत्याः स कोऽपि वरः प्रवरः करिष्यते, यस्तवैवैकातपत्रं कुरुते, धीरा भव / तां सम्बोध्य स्खसमीपे / स्थापयांचके। 72. हिंसापिता पापनामा नरेन्द्रवरं विलोकयन् वाणारस्यां जयचन्द्रनृपं सप्तशतयोजनभूमिनाथं दृष्टवान् / अन्यराजकं दासमिव मन्यमानश्चत्वारिंशतानि गजेन्द्राः षष्टिलक्षाश्च वाजिनः द्वादशशतानि पित्तलमयानि निखानानि, गंगा-यमुनायष्टी विना कापि गन्तुं न शक्नोति तेन 'पं गुरा जे' ति विरुदं वहति / तस्य गोमती दासी 60000 अश्वेषु प्रक्षरान् निवेश्याभिषेणयन्ती, परचक्र त्रासयति, राज्ञः श्रम एव कः / तत्र वाणारस्यां. नृपाय ददौ / सा वार्ता श्रीकुमारपालेन श्रुता / मदीयपन्या गृहान्तरमकारि, ततो दूनमना निजप्रधानपुरुषा हेमकोटिद्वयं हयसहस्रद्वयं चित्रपट्टमेकं च समर्प्य प्रेषिताः। तैस्तत्र गर्बहुद्रव्यव्ययेन कैवर्तकाखेटकादिपट्टकान् कृत्वा तत्कर्म निवारितम् / कालेन राज्ञा जयचन्द्रेण ज्ञातम् / तत्पृष्टा ग्राममहत्तराः / तैः प्रधानपुरुषाः कथिताः। ततो राज्ञाऽऽहूताः प्रधानपुरुषा जयचन्द्रसभायां गताः / श्रीकुमारपालप्रेषितं हेमकोटिद्वय-हयसहस्रद्वय-चित्र