________________ श्रीसोमतिलकसूरिविरचितं ___ इति श्रुत्वा प्रमुदितः प्राह-'अतः परं न रटिष्यति / युष्माभिः खनामाग्रे स्थापितोऽस्ति / ' इत्यादिवाक्यैः प्रामणैर्विद्वद्भिः सह प्रीतिरुत्पन्ना / यतः४३१. असारसंसारमहीरुहस्य, सुधोपमं स्वादुफलं तदेकम् / परस्परं मत्सरवर्जितानां, यद्वर्द्धते प्रीतिरियं नराणाम् // 668. एकदा व्याख्यानमध्ये श्रीगुरुभिहीहेति प्रोचे, चन्द्रयशगणिना तु हस्तौ घृष्टौ / मुक्त व्याख्याने तु ' राज्ञा पृष्टम्-'भगवन् ! युवाभ्यां किं कृतम् ?' श्रीगुरुभिरूचे-'राजन् ! देवपत्तने श्रीचन्द्रप्रमप्रासादे दीपेन चन्द्रोदयो लग्नोऽस्माभिदृष्टः / स तु हस्तौ घृष्ट्वा अनेन विध्यापितः / राजा चमत्कृतः, खपुरुषनिर्णयं व्यधात् / अहो ! निरतिशये कालेऽपि श्रीभवतामपूर्वं ज्ञानम् / 669. ततः पूर्वभवमपि मे ज्ञास्यन्तीति तदपृच्छत्-'भगवन्निदमपि ज्ञायते, यदहं पूर्वभवे कीदृशोऽभूवन् / ' श्रीगुरुभिरुक्तम्-'राजन्निरतिशयकालोऽयम् / यतः श्रीवीरनिर्वाणाद् वर्षाणां चतुःषष्ट्या चरमकेवली श्रीजम्बू सिद्धिं गतः / तेन सह द्वादश वस्तूनि त्रुटितानि / 462. . मणपरमोहिपुलाए आहारग-खवगउवसमे कप्पे। संयमतियकेवलसिज्झणा य जंबुम्मि विच्छिन्ना // . सहस्रवर्षेण सर्व पूर्वगतं श्रुतं व्यवच्छिन्नम् / संप्रति त्वल्पं श्रुतम् / तथापि देवतादेशेन विज्ञाय किमपि कथयिष्यते / ततो रात्रौ शुभध्याने स्थिताः / समायातः पूर्वाराधितश्रीसिद्धचक्रसुरः / पृष्टो राज्ञः पूर्वभवम् / तेन" निवेदितं सर्व भवस्वरूपम् / ततः प्रभाते राज्ञः समस्तसभासमक्षं कथितम् , यथा-'राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशी राजाऽभूत् , तत्पुत्रो जयताकः सप्तव्यसनवान् पित्रा निष्कासितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः / अन्यदा नरवीरस्य सार्थवाहस्य सार्थः सर्वोऽपि लुण्टितस्तेन / सार्थवाहस्तु मालवदेशं गत्वा तत्र राजानं विज्ञप्य सैन्यमानीय पल्लीमवेष्टयत् / तन्महलं मत्वा जयताको नष्टः / नरवीरेण वणिजाकारण कीटमारिः कृता / तत्पनी सगर्भा हता / भूपतितो बालः शिलायामास्फालितः / ततो मालवकदेशे राज्ञोऽग्रे. खरूपे निरूपिते, राज्ञा हत्याद्वयं स्त्री-बालरूपं लग्नम् , अतोऽयमद्रष्टव्यमुखोऽस्तीति निष्कासितः स्वदेशात् / स च सार्थवाहो नरवीरः पदे पदे लोकैर्निन्धमानः पश्चात्तापपरो वैराग्यात्तापसो भूत्वा तीवं तपस्तत्त्वा मृत्वा जयसिंहदेवो जातः / स च हत्याद्वयादपुत्रः / जयताकोऽपि देशान्तरं गच्छन् रूपसौभाग्यवानाकर्णाकृष्टकोदण्डो मृगयापरः मार्गे श्रीयशोभद्रसूरिभिष्टः / प्रोक्तश्च४६३. क्षत्रियोऽसि नराधीश!प्रतिसंहर सायकम् / आर्त्तत्राणाय वःशस्त्रं न प्रहर्तुमनागसि // भो क्षत्रिय ! एवंविधं पवित्रं क्षात्रगोत्रमवाप्य मा जीवहिंसां कुरु / एतदाकर्ण्य लजितः प्राह-'भगवन् ! 464. बुभुक्षितः किं न करोति पापं, क्षीणा नराः पापपरा भवन्ति / आख्याहि भद्रे ! प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपे॥ . ततः श्रीगुरुवचसा व्यसनानि मुक्तानि / श्राद्धैः शम्बलादिकं दत्तम् / शनैः शनैः प्राप्तप्रतियोधो नवलक्षतिलंगे देशे उलं(रं)गलपुरे ओढरवणिग्गृहे भोजनादिवृत्त्याऽस्थात् / एकदा पर्युषणापर्वणि स श्रीमान् ओढरः. श्रावकः पुत्रपौत्रमित्रादिपरिकरः सप्रधानपूजोपकरणः श्रीजिनगृहमगात् / तत्र विधिना जिनस्य सानं विधाय पूजाबसरे जयताकं प्राह-'गृहाणेदं पुष्पादिकम् , कुरु जिनेन्द्रपूजाम् , गृहाण खजन्मजीवितफलम् / ' ततः स तदाकाचिन्तयत्-'अदृष्टपूर्वोऽयं देवः परमेश्वरः प्रसन्नवदनः नासाग्रन्यस्तदृक् परमयोगमुद्रासीनः निरञ्जनस्वरूपः / वल्कथं परकीयैः पुष्पैः पूज्यते / ततः स्वकीयपञ्चवराटकक्रीतपुष्पैरानन्दाश्रुप्लावितहक् प्रसन्नमनोवाकायः पारमेश्वरी