________________ कुमारपालदेवचरितम् / 458. हति / चतुरशीत्यासनकरणप्रवीणः, कायगतषट्चक्रविज्ञानचक्रवर्ती, पोडशाधारधीरधीः, लक्षत्रयदक्षः, व्योमपञ्चकपण्डितः, पूरककुम्भकरेचकादिप्राणायामक्रियाकुशलः, इडा-पिङ्गला-सुषुम्णा गान्धारी-हस्तिनी-प्रमुखदशमहानाडीवातसञ्चारचतुरः, आद्विजमातङ्गप्रार्थकगृहेषु यथाई रूपकरणाद् भुक्तिः, श्रीजिनधर्मानुरक्तं नृपं ज्ञात्वा स श्रीपत्तने समायातः / सर्वद्विजैः सत्कारितः, चमत्कारदर्शनालोकैश्च / राजगुरुरिति मत्वा राजापि संमुखमागतः / कदलीपत्र'सुखासनस्थः शिशुकारितवाहककर्मा राजादिपरिवारपरिवृतः शालाग्रे समायातः / कौतुकाकुलितसकलपरिवारप्रेरितो मध्ये प्रविष्टः / सूरयस्तु पुरापि पूरितासनमुद्राः प्राणायामलघुभूतशरीराः शिष्याकर्पितसिंहासना निरालम्बा स्थिताः सन्ति / तान् तदवस्थान दृष्ट्वा विस्मितो देवबोधिः। सर्वेऽपि लोका विस्मयस्मेरमानसाः प्रोचुः-अहो! सुरीणां निराधारमाकाशेऽवस्थानमिति / तेन कवित्वशक्तिपरीक्षार्थं समस्यापदमर्पितम् / यथा व्याषिद्धा रुदती मुखं च नयने स्खे गर्हते कन्यका। " तदाकर्ण्य- 'भगवन् ! किगुच्यते युष्मच्छिष्याणां विदुपां सरस्वतीसर्वस्वमुखानम् ? प्रथममहमेव श्रीभगवदाज्ञया पूरयामी'ति प्रमाणं कृत्वा कपी श्रावकः सर्वान् निवार्य पूरयामास नैतस्याः प्रसूतिद्वयेन सरले शक्ये पिधातुं दृशी, रुद्धाक्षी च विलोकते शशिमुखी ज्योत्स्नावितानैरियम्। इत्थं मध्यगता सखीभिरसकृत् दृग्मीलनाकेलिपु, व्याषिद्धा रुदती मुखं च नयने खे गर्हते कन्यका // श्रीहेमसूरिसेवापरस्य श्रावकस्यापि शीघ्रकवितां दृष्ट्वा विस्मयस्मेरः 'शोभनोऽयम् , वयं समुत्सुकाः स्मः' इत्युक्त्वा गतः / राज्ञाऽन्त्यजात् (पाठभेदे-अन्त्यजगृहेषु) निमत्रापितः / तेन मानितं निमत्रणम् / द्विजादीनां विमर्शः कथमन्त्यजगृहे भोजनं करिष्यतीति / सहस्रलिङ्गसरोवरटोडकयोर्मोचितं भोज्यम् / राजा तु राजपाटिकामिपेण सरोवरसमीपे समायातः / देवबोधिः सानार्थ जलान्तः प्रविष्टः / कृष्णश्वा. मूत्वा निगतो भुक्तं तद्भोजनम् / पुनर्जलान्तः प्रविश्य देवबोधिभूत्वाऽगात् / राज्ञः सर्वेषां लोकानां च विस्मयोऽभूत् / राज्ञा निजावासे निमः त्रितः / विविधा भक्तिः कृताः / अन्यदिने देवा वसरे सप्तपूर्वजानां मस्तकानि कीटैरावृतानि प्रोचुः-'हे वत्साऽस्माभिस्तुभ्यं राज्यं दत्तम् , त्वं महतीं प्रौढिं नीतः / अस्मन्मार्ग मुक्त्वा जैनोऽभूत् , तेन राज्यं पश्चाद् ग्रहीष्यामः / सप्तमे नरके पातिता वयम् / त्वया किं कृतम् ? / त्यक्तः स्वकुलाचारः / त्यजाधुनाऽपि कुमार्गप्रवृत्तिम् / एतदाकर्ण्य राजाऽविज्ञातपरमार्थः किंकर्त्तव्यताजडोऽभूत् / सविषादमिदमचिन्तयत्-'अहो ! सकलशास्त्रसंवादसुन्दरोऽयं "जीवदयाधर्मः सर्वप्राणिप्रियः कथं कुमार्गः कथ्यते, किमत्र तत्त्वम् ?' / तस्मिन् दिने लोकमध्ये महाप्रभावोऽभूत् मिथ्यादृक्शासने / द्वितीयदिने व्याख्यानावसरे प्रथमं परिमलसुगन्धः, पश्चाद्विमानम् / विमानादुत्तीर्य मूलराजप्रभृतयः पूर्वजाः श्रीगुरुन्नमस्कृत्य श्रीकुमारपाल प्रति प्राहुः-'वत्स ! त्वया नरकान्तं राज्यं प्राप्य कलिकालेऽपि महतां महनीयस्त्रिभुवनोत्तमः श्रीजिनधर्मः प्रतिपन्नः / वर्गस्था वयं प्रमुदिता देवसंसदि / ' एतनिशम्य राजा सचमत्कारमनाः प्राह-भगवंस्तत्र तादृशमत्रेदृशं किमत्र तत्त्वम् 1 श्रीगुरवः प्राहुः-'नरेश्वर ! तत्रापि, अत्रापि च नरकवर्गादिदर्शने सर्व कलाकौशलमिदम् / तव पूर्वजाः यत्र स्वकर्मणा गताः, तत्र सन्ति / जिनवाक्यमेतत् / पूर्वोक्तदशलक्षणो धर्मः' / ततो लजितो राजा / क्षामिता गुरवः / राजपूर्वजानामागमनं दृष्ट्वा नवा पश्चिमरात्रौ गतः। / 667. एकदा कोऽपि ब्राह्मणः परीक्षार्थ हरीतकी मुष्टौ षड्वा सप्रमुदित उवाच४६०. हेमसूरि मूं करि किसिउं, हरडइ, काई रडेइ / जिणि कारणि हुं घालियउं सबह वंजण छेहिं //