________________ श्रीसोमतिलकसूरिविरचितं कान्तीनगर्याः प्रसाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीतः'- इति जनप्रसिद्धिः, मलयगिरितरिणा सिद्धान्तवृत्तिकरणवरः-इति त्रयाणां वरं दत्त्वा देवः स्व नमगात् / प्रमुदितो ग्रामाधीशः / प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानध्येयं ब्रह्मदाळ देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा खग्रामं जगाम / 662. अथ श्रीपत्तने गुरुभिः सह सिद्धराजसभायां गतो हेमचन्द्रमुनिः / स्वविद्वत्तयाप्रतिमः प्रीणितान्तवाणिगणः प्रमुदितेन सिद्धभूपतिना कारिताचार्यपदमहोत्सवः प्रत्यहं कलाकौशलेन कालं गमयति / 663. अन्यदा नृपेण 'किं वाच्यतेऽद्यकल्ये 1' इति पृष्टे, अजिह्मपरब्रह्मैककारणव्रतविचारे 'स्थूलभद्रमुनीन्द्रचरित्रम्' इत्युक्ते राजा समग्रमामूलतस्तचरित्रं पप्रच्छ / ततः सविस्तरं कथिते चरित्रे राजा प्रमुदितः / अत्रावसरे मिथ्याहगालिगो (पाठान्तरेण-'मिथ्यादृष्टिागिलो) मत्री प्राह-'अहो संप्रति काले क मनुष्याणामेवंविध इन्द्रियजयः। यतः-'विश्वामित्रपराशरप्रभृतयो' [इत्यादि पद्यम् ] ततः श्रीसूरिभिः प्रत्युत्तरमदायि-'सिंहो" पली द्विरदः' इति श्रुत्वा राजा चमत्कृतः / नवीनं व्याकरणं कृतम् / एते ते हेमसूरयः।' इति श्रुत्वा राज्ञा श्रीकुमारपालेन श्रीमोढज्ञातीयानां लोकानां चामराः दत्ताः।-इति दीक्षाप्रबन्धः। 664. अन्यदा श्रीगुरवः सभायां व्यसनानि निराकर्तुं प्राहुः द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौरी परदारसेवा / एतानि सप्तव्यसनानि राजन्!, घोरातिघोरं नरकं नयन्ति // 456. घूताद् राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्यात् कृष्णनृपश्च राघवपिता पापर्द्धितो दूषितः / मांसात् श्रेणिकभूपतिश्च नरके चौर्याद्धतो मण्डिको, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः॥ ततः सभायामेतानि सप्तकथानकानि व्यसनदोषप्रकाशकानि श्रीगुरुमुखेन श्रुत्वा राजा लोकानां ज्ञापनाय" सप्तव्यसनानि मृण्मयानि कारयित्वा रासभेष्वारोप्य राजमार्गे प्रामयित्वा लकुटादिभिर्हन्यमानानि श्रीपत्तनात् निजदेशाच्च निरचीकशत् / 665. अथान्यदा श्रीजिनधर्माभिमुखं नृपं ज्ञात्वा श्रीपर्वताद् भैरवानन्दो नाम योगी पञ्चशतयोगिपरिवृतः श्रीपत्तनमागतः / संमुखगमने राज्ञा पृष्टाः श्रीसूरयः प्राहुः- शोभनमिदम् , परं परीक्षा क्रियते, ततो गम्यते / ' समस्यापदं राजपुरुषकरण प्रेषितम् / यथा-'च्यारि घाय जोगवई स जोई'-इति एतत्समस्यापदं विचार्य। कीदृशाश्चत्वारो घाता भविष्यन्तीति घातभीतस्त्रियामिन्यां नष्टः / प्रत्यूषे घातस्वरूपं राज्ञा पृष्टा गुरवः प्राहुः४५७. एय अउव(धी?)जोई मुद्दामणमेहुणअणवाईनिदाए। परमत्थु न बुज्झइ कोई च्यारि घाय जोगवई सो जोई // 166. अथ गङ्गातटे दीपकाख्यद्विजात् त्रैपुरं मत्रं प्राप्य नर्मदातटे देवबोधिद्विजोऽसाधयत् / तुष्टा त्रिपुरा बस, 'एकवाक्येन याचस्व वरम्' इत्युवाच प्रत्यक्षा / सोऽपि बुद्धिमान् ‘भुक्ति-मुक्ति-सरस्वती'रिति ययाचे / ततः, अमृति महेन्द्रजालादिविद्यावान् , चूडामण्यादिशास्त्रैरतीतादिज्ञाता,कदलीदण्डपत्रमयमामसूत्रतन्तुबद्धं सुखासनमधिरो 5.पा.च०१२ *