________________ Ce पुरातनाचार्यसंगृहीत श्रीहेमचन्द्रः। ततः कियति मार्गेऽतिक्रान्ते सति मिथ्यात्वतमःकरालेऽस्मिन् कलिकालेऽस्य श्रीजिनशासनप्रमा कस्स महापुरुषस्य यलपायसङ्कले पथि मा भूदु भ्रमणप्रयासः-इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशीथे। अजिह्मपरब्रह्मवर्चसं पद्मासनासीनमर्द्धनिमीलितलोचनं समाधियोगवाधीनस्वान्तं ध्यानाधिक श्रीहेमचन्द्रं दृष्ट्वा प्रोवाच.४५३. रुद्धे प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले / भिन्ने मोहान्धकारे प्रसरति महसि कापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशे // सङ्कल्पमात्रादपि सिद्धकार्या, वाञ्छन्ति ते नैव तथापि किश्चित् / इच्छाविनाशेन यदस्ति सौख्यं, त एव जानन्ति गुरुप्रसादात् // तथाप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयविद्यामत्रान् श्रीविद्याप्रवादसंवादसुन्दरान् साम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् / पुनः पश्चादागताः। 360. एकदा श्रीगुरूनापृच्छ्यान्यगच्छीयदेवेन्द्रसूरि-मलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थ गौडदेशं // प्रति प्रस्थिताः। खिल्लूरग्रामे गताः। तत्र ग्लानो मुनिर्वैयावृत्त्यादिना प्रतिचरितः / श्रीरैवतकतीर्थे देवनमस्करणकृतातिर्यावद्वामाध्यक्षश्राद्धेभ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्रौ सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः खं रैवतके पश्यन्ति / शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र स्थितानां सर्व भावीति गौडदेशगमनं निषिध्य महौषधीरनेकान् मत्रान् नामप्रभावाद्याख्यानपूर्वकमाख्याय खं स्थानं जगाम। 454. 361. एकदा श्रीगुरुभिः सुमुहूर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमत्रः साम्नायः समुपदिष्टः / स च पद्मिनी* स्त्रीकृतोत्तरसाधकत्वेन साध्यते / ततः सिध्यति, याचितं वरं दत्ते, नान्यथा / ततोऽन्यदा कुमारग्रामे धौता शोषणार्थ विस्तारितां शाटिकां समालोक्य पृष्टो रजकस्तैः-'कस्या इयं शाटिकेति?' सोऽवदद्- 'ग्रामाध्यक्षपल्या इयम्' / ततो गतास्तस्मिन् ग्रामे / ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः। स च प्रत्यहं समेति, धर्मदेशनां शृणोति / तेषां ज्ञानक्रियावैराग्याप्रमत्तत्वादिगुणान् दृष्ट्वा, तथाविधभव्यत्वपरिपाकाद् गुणानुरागरञ्जितस्वान्तः प्रमुदितः प्राह'यूयमनिच्छपरमेश्वराः, कमपि कार्य मत्साध्यं ममादिशन्तु / ' ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीरवेदिनं " ज्ञात्वा प्राहुः-'अस्माकं श्रीसिद्धचक्रमत्रः साधयितुमिष्टोऽस्ति / स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नान्यथा / तेन तव या पद्मिनी स्त्री वर्तते, तां लात्वा कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु; विकारदर्शने शिरश्छेदस्त्वयैव विधेयः' - इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना मनाग्विमर्य चिन्तयां चकार - एते तावन्महर्षयः समतृणमणिलोष्टकाञ्चनाः परब्रह्मसमाधिसाधकाः, तद्येतेषामिदं कार्य वयं समर्या दमनया स्त्रिया चेद् भवति तदा तथाऽस्तु, किं बहुविचारेण'-इति विचिन्त्य तैरुक्ते दिने तैः समं सस्त्रीकः सुतरां * निर्भीकः श्रीरैवताचलमौलिमलञ्चकार / ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसान्निध्याः शुभध्यानधीरधियः श्रीरैवतादेवतदृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमत्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थपधिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयत् / तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता प्रत्यक्षीभ्य पुष्पवृष्टिं विधाय खेप्सितवरं वृणुतेत्युवाच / ततः श्रीहेमसूरिणा राजप्रतिबोधः; देवेन्द्रसूरिणा निजावदातकरणाय