________________ कुमारपालंप्रबोधप्रबन्ध पित्रोः सन्तापकः कश्चिद् यौवने प्रेयसीमुखः। थाल्येऽपि म्रियते कोऽपि स्यात् कोऽपि विकलेन्द्रियः॥ 48. सर्वाङ्गसुन्दरः किन्तु ज्ञानवान् गुणनीरधिः। श्रीजिनेन्द्रपथाध्वन्यः प्राप्यते पुण्यतः सुतः // इति श्रीगुरुमुखादाकर्ण्य सञ्जातप्रमोदः प्रसन्नचित्तश्वाचिगः / तत्र श्रीगुरुपादारविन्दनमस्यायै समायातेनो-। पयनमत्रिणा धर्मवान्धवधिया निजगृहे नीत्वा गुरुगौरवेन भोजयांचक्रे / तदनु चांगदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादपूर्वकं दुकूलत्रयं द्रव्यलक्षत्रयं चोपनीय सभक्तिकमावर्जितश्वाचिगः सानन्दं मत्रिणमवादीत् - 'मत्रिन्! 'क्षत्रियमूल्येऽशीत्यधिकसहस्रम् 1080, अश्वमूल्ये पञ्चाशदधिकानि सप्तदशशतानि 1750, सामान्यस्यापि वणिजो मूल्ये नवनवति 99 गजेन्द्रा एतावता नवनवतिलक्षा भवन्ति / त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसे / अतो मत्सुतोऽनय॒स्त्वदीया भक्तिस्त्वनर्घ्यतमा / तदस्य मूल्ये सा भक्तिरस्तु, न तु मे द्रव्येण प्रयोजनमिति शिवनिर्माल्य-। वदस्पृश्यो मे / दत्तो मया पुत्रो भवताम्'-इति चाचिगवचः श्रुत्वा प्रमुदितमना मत्री तं परिरभ्य, साधु साधु !' युक्तमेतदिति वदन् पुनस्तं प्रत्युवाच-'त्वयाऽयं पुत्रो ममार्पितो योगिमर्कट इव सर्वेषामपि जनानां नमस्कार कुर्वन् केवलमपमानपात्रं भविता, परं श्रीगुरूणां समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महतां महनीयो भवतीति विचार्यतां यथोचितम् / ततः स 'भवद्विचार एव प्रमाणमिति वदन् सकलश्रीसङ्घसमक्षं रत्नकरण्डमिव रक्षणीयं उदुम्बरपुष्पमिव दुर्लभं तं पुत्रं क्षमाश्रमणपूर्वकं श्रीगुरूणां समर्पयामास / श्रीगुरुभिरमाणि धनधान्यस्य दातारः सन्ति कचन केचन / पुत्रभिक्षाप्रदः कोऽपि दुर्लभः पुण्यवान् पुमान् // 450. धनधान्यादिसंपत्सु लोके सारा हि सन्ततिः / तत्रापि पुत्ररत्नं तु तस्य दानं महत्तमम् // स्वर्गस्थाः पितरो वीक्ष्य दीक्षितं जिनदीक्षया / मोक्षाभिलाषिणं पुत्रं तृप्याः स्युः खर्गसंसदि // श्रीमहाभारतेऽप्युक्तम् - तावद् भ्रमन्ति संसारे पितरः पिण्डकांक्षिणः।। यावत् कुले विशुद्धात्मा यती पुत्रो न जायते // इति श्रुत्वा प्रमुदितेन चाचिगेन प्रव्रज्योत्सवः श्रीस्तम्भतीर्थे आलिगवसहिकायां कारयितः / सोमदेवमुनि म दत्तम् / 452. 659. यथान्यदा नागपुरे धनदेवनाम्नः श्रेष्ठिगृहे प्रथमालिकार्थ गतः / तद्बहे रब्बाभोजनं स्वर्णराशिं च दृष्ट्वाऽप्रगं वृद्धसाधुं प्राह यथा- 'कस्मादस्य गृहेऽसमञ्जसमीदृशम् ? / एकतः स्वर्णराशिः, भोजने तु रब्बा !' स साधुरिति भुत्वोवाच- 'अभाग्यवशेनायं निर्धनों जातः / निधानगतमपि स्वर्णमङ्गारीभूतं राशीकृतमस्ति' / सोमदेवमुनिना प्रोक्तम् - 'मया तु स्वर्णराशिर्ददृशे' / गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुलकमाहूय, अङ्गारकराशौ करो दापितः / / तत्सर्व स्वर्ण जातम् / तत्प्रच्छादकः कश्चिद् व्यन्तरः परब्रह्मतेजोऽसहिष्णुर्नष्टः / ततः सखातचमत्कारेण श्रेष्ठिना श्रीसकेन च हेमचन्द्रनाम दापितम् / ततः शनैः शनैर्ज्ञानेन तपसा विनयादिगुणैर्वयसा च वर्द्धमानो निजौदार्यगाम्भीर्यादिगुणैरावर्जितश्रीगुरु-गच्छ-श्रीसङ्घलोकः, कदाचित् श्रीगुरूनापृच्छ्य युगादौ लोकोपकाराय परप्रझमयपरमपुरुषप्रणीतमातृकाऽष्टादशलिपिन्यासप्रकटनप्रवीणाया ब्राहया आदिमूर्ति विलोकनाय काश्मीरदेशं.प्रति प्रस्थितः