________________ पुरातनाचार्यसंगृहीत 442. सवाठाणं पमुत्तूणं चिहिजा धरणीयले / भावबंधं जगन्नाहं नमुकारं तओ पढे // 443. मंताण मंतो परमो इमु त्ति, धेयाण धेयं परमं इमं ति। तत्ताण तत्तं परमं पवित्तं, संसारसत्ताण दुहाहयाणं // 444. कोऽहं पुणो कमि कुलंमि जाओ, किं सम्मदिट्टी वयनियमधारी / उआहु हं दसणमित्तजुत्तो, एयं तु अन्नं पि विचिंतइजा // ___ 'प्राधे मुहूर्ते उत्तिष्ठेत्०' प्रारभ्य इत्याहोरात्रिकी चर्या यावत् श्रीयोगशास्त्रतृतीयप्रकाशमध्यात् वाच्यं दिनचर्यास्वरूपं चेति / 658. अन्यदा श्रीहेमचन्द्रगुरोर्लोकोत्तरैर्गुणैरपहृतहृदयो नृपतिरुदयनमत्रिणं सभायां पप्रच्छ -'यत् ईदृशं पुरुषरत्नं [कस्मिन् ] समस्तवंशावतंसे वंशे देशे समस्तपुण्यप्रदेशे निःशेषगुणाकरे नगरे च समुत्पन्नमिति / ' नृपा• देशादनु स मत्री जन्मप्रभृति तच्चरित्रं पवित्रमाह- अर्द्धाष्टमनामनि देशे धुन्धुकाभिधाने नगरे श्रीमन्मोंढवंशे चाचिगनामा व्यवहारी सती जनमतल्लिका जिनशासने देवीव तस्य सधर्मचारिणी पाहिणी नाग्नीति / तयोः पुत्रचामुण्डागोत्रजायाः आद्याक्षराङ्केन चांगदेवनामा समजनि, प्रवरभाग्यसौभाग्यपवित्रः-गर्भे पुष्पितसहकारो गृहाङ्गणात् पौषधशालायां फलितः-इति स्वमसूचितः। स चाष्टवर्षदेशीयः श्रीदेवचन्द्राचार्येषु श्रीपत्तनात् तीर्थयात्रायै प्रस्थितेषु धुंधुक्कके श्रीमोढवसहिकायां देवनमस्करणार्थ प्राप्तेषु सिंहासनस्थिततदीयनिषद्यायां सहसा // निषण्णसवयोभिः शिशुभिः समं धर्मदेशनादिकां क्रीडां कुर्वाणस्तैर्व्याघुख्यमानैदृष्टः / तदङ्गप्रत्यङ्गानां जगद्विलक्षणांनि लक्षणानि निरीक्ष्य चिन्तितम् - यद्ययं क्षत्रियकुले जातस्तदा सार्वभौमो नरेन्द्रः, यदि वणिग्-विप्रकुले तदा महामात्यः। चेद् दीक्षां गृह्णाति तदा युगप्रधान इव तुर्ये युगे कृतयुगमवतारयतीति / ततस्तत्पित्रोस्तस्य च नामादिकं शिशुभ्योऽधिगम्य तन्नगरनिवासिश्रीसङ्घ मेलयित्वा तत्स्वरूपं निरूप्य, तस्य गृहे गताः श्रीसूरयः / चाचिगे ग्रामान्तरगते मात्रा भाग्ययोगेन गृहागतः श्रीसद्धः स्वागतकरणादिना तोषितः / मम पुत्रार्थमायातः श्रीसकः-इति हर्षाणि * मुञ्चन्ती खं रत्नगर्भा मन्यमानापि विषण्णा / यतस्तत्पिता सुतरां मिथ्यादृष्टिः; परं तादृशोऽपि ग्रामे नास्ति / तर्हि मया किं कर्त्तव्यमिति क्षणं मूढचित्ताऽभूत् / ततः प्रत्युत्पन्नमतिर्माता श्रीसङ्घन समं श्रीगुरुन् कल्पतरूनिव गृहायातान् ज्ञात्वाऽवसरज्ञा खजनानामनुमतिं लात्वा निजं पुत्रं श्रीगुरुभ्यो ददौ / ततः श्रीगुरुभिः श्रीसङ्घसमक्षं-'हे वत्स! श्रीतीर्थकर-चकवर्ति-गणधरैरासेवितां सुरासुरनरनिकरनायकमहती मुक्तिकान्तासङ्गमदूतीं दीक्षांत्वं लास्यसि?'इति प्रोक्ते स च बालकुमारकः प्राग्भवचारित्रावरणीयकर्मक्षयोपशमेन संयमश्रवणमात्रसञ्जातपरमवैराग्यः सहसा - ओमित्युवाच / ततो मात्रा खजनैश्वानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावती जग्मुः श्रीगुरवः / तत उदयनमत्रिगृहे तत्सुतैः समं बालकधारकैः पाल्यमानः सकलसबलोकमान्यः संयमपरिणामधन्यः वैनयिकादिगुणविज्ञो यावदास्ते तावता ग्रामान्तरादागतश्चाचिगः पत्नीनिवेदितश्रीगुरुसवागमनपुत्रार्पणादिवृत्तान्तः, पुत्रादर्शनावधिसन्त्यक्तसमस्ताहारः कर्णावत्यां गतः / तत्र वन्दिता गुरवः, श्रुता धर्मदेशना / सुतानुसारेणोपलक्ष्य विचक्षणतयाऽभाणि श्रीगुरुभिः कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन / अवाह्यमार्गे श्रुतसिन्धुमनं, लग्नं परब्रह्मणि यस्य चेतः // 446. कलई कुरुते कश्चित् कुलेऽपि विमले सुतः। धननाशकरः कश्चिद्व्यसनैः पुण्यनाशनः /