________________ 317. .. 18.. कुमारपालप्रबोधप्रबन्ध अथ कमतो भोगोपभोगः / अङ्गारकर्म-वनकर्म-शकट-भाटक-स्फोटक-दन्तवाणिज्य साक्षा-रस-केश-विषयत्र-पीडा-निर्लान्छन-असतीपोष-दवदान-सर-शोषः-इति कर्मादानानि वर्जयेत् / तदा राजा श्रीकुमारपालः श्रीगुरुमुखेन परिग्रहप्रमाणं भोगोपभोगव्रतस्याकरोत् / 314. अयानर्थदण्डव्रतमाहुः-आर्तरौद्रमपध्यानं पापकर्मोपदेशता / हिंसोपकारि दानं च प्रमादाचरणं तथा // . तत्र ध्यानं चतुर्द्धा३१५. आर्ते तिर्यग्ग(?)तिस्तथा गतिरधो ध्याने तु रौद्रे सवा, __धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः।. तस्माद् व्याधिरुजान्तिके हितकरे संसारनिस्तारके, __ध्याने शुक्लवरे रजाप्रमथने कुर्यात् प्रयनं बुधः॥ 316. वृषभान् दमय क्षेत्रं कृषिषण्डविवाजिनाम् / दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते // यनलागलशस्त्राग्निमुशलोदूखलादिकम् / दाक्षिण्याविषये हिंस्रं नार्पयेत् करुणापरः॥ जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् / रिपोः मुतादिना वैरं भक्तस्त्रीदेशराट्कथाः॥ अथ सामायिकव्रतम् - 19. त्यक्तातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः। मुहूर्त समता या तां विदुः सामायिकवतम् // 320... सावजजोगपरिवजणट्ठा सामाईयं केवलियं पसत्थं / गिहत्थधम्मा परमं ति नचा कुजा बुहो आयहियं परस्था // सामाईयव०॥३॥ सामाईयमि कए समणोइव०॥४॥ अय-दिगवते परिमाणं यत् तस्य संक्षेपणं पुनः / दिने रात्रौ च देशावकाशिकव्रतमुच्यते // इति राजन् ! देशावकाशिकव्रतम् , तत्र तत्रारम्भपरिहाररूपम्। . 322. अथ पौषधम् - चतुःपा च तुर्यादिकुव्यापारनिषेधनम् / ब्रह्मचर्यक्रियारलानादित्यागः पौषधः व्रतम् // 223. आवश्यकवणी-आहारपोसहो खलु सरीरसकारपोसहे चेव / भवावारेसु य तइयसिखावयं नाम // देसे सबे य तहा इकिको इत्थ होइ नायचो / सामाईए विभासा देसे इयरंमि नियमेण // - इति श्रावकमज्ञप्तौ / अथातिथिसंविभागवतम् , राजन् ! दानं चतुर्विधाहारपात्राच्छदनसद्मनाम् / अतिषिभ्योऽतिथिसंविभागवतमुदीरितम् // "