________________ ASमभि : पुरातनाचार्यसंगृहीत . अन्यैरप्युक्तम् - 214. एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः। न सा ऋतुसहस्रेण प्रामुं शक्या युधिष्ठिर।। 215. भोगिवष्टस्य जायन्ते वेगाः सप्तैव देहिनः। स्मरभोगीन्द्रदष्टानां दश स्युस्ते महाभया॥ 216. प्रथमेजायते चिन्ता द्वितीये द्रष्टुमिच्छति। स्युस्तृतीयेऽपि निःश्वासाचतुर्थे नटते ज्वरः॥ * 217. पञ्चमे दहते गात्रं षष्ठे भुक्तं न रोचते / सप्तमे स्यान्महामूर्छा उन्मत्तत्वमथाष्टमें॥ 218 नवमे प्राणसन्देहो दशमे मुच्यते एभिर्दोषैः समाक्रान्तं जीवो लोकं न पश्यति // 219. यस्तपखी व्रती मौनी संवृतात्मा जितेन्द्रियः। कलंकयति निःशङ्कः स्त्रीसखः सोऽपि संयमम् // .. अथ राजन् ! पञ्चमं धर्मलक्षणं अकिञ्चनतासन्तोषरूपम् - 220. धनं धान्यं स्वर्णरूप्यकुप्योनि क्षेत्रवास्तुनी। द्विपाँचतुष्पाद चेति स्युर्नववाह्याः परिग्रहाः // 221. मिच्छत्तं वेयतिगंहासाई छक्कगं च नायछ। कोहाईण चउकं घउवस अभंतरा गंथा॥ 222. बाह्यानपि हि यः सङ्गान्न मोक्तुं मानवः क्षमः। . सोऽन्तरङ्गान् कथं क्लीवस्त्यजेदिह परिग्रहान् // 223. यानपात्रमिवाम्भोधौ गुणवानपि मजति / परिग्रहगुरुत्वेन संयमी जन्मसागरे / 224. न यान्ति वायवो यत्र नाप्यन्दुमरीचयः। आशामहोर्मयः पुंसां तत्र यान्ति निरर्गलाः // अधीती पण्डितः प्राज्ञः पापभीरुस्तपोधनः / . स एव येन हित्वाशां नैराश्यमुररीकृतम् // 226. वाक्येनैकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः।.. आशापिशाची शान्ता चेत् संप्राप्तं परमं पदम् // एतानि पञ्च सर्वविरतत्वात् साधूनां महाव्रतान्युच्यन्ते / यदुक्तम् - महत्त्वहेतोगुणिभिः श्रुतानि महान्ति मत्वा त्रिदशैर्नुतानि / महासुखज्ञाननियन्धनानि महाव्रतानीति सतां सतानि // अथ राजन् ! षष्ठं धर्मलक्षणं तपः, बाह्याभ्यन्तरं द्वादशधा / बाह्यतपः- "अणसणमणोपरीया० // 1 // माम्यन्तरतपः "पायच्छित्तं विणओ वेया० // 2 // " यदुक्तम् - 228. निर्जराकरणो याह्यात् श्रेष्ठमाभ्यन्तरं तपः। तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः॥ , 229. यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति / उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् // . 225. 227.