________________ कुमारपालप्रबोधप्रबन्ध पानदण्डकादीनां यतनया धरणमजीवसंयमः 10, स्थण्डिलादिकं चक्षुषा प्रेक्ष्य शयनासनादिकुर्वीतेति प्रेक्षासंपमः 11, सावधप्रवृत्तगृहस्थव्यापारणेनोपेक्षासंयमः 12, स्थण्डिलादौ रजोहरणादिना प्रमृज्य शयनासनादीनि कुर्वतः प्रमार्जनासंयमः 13, भक्तपानादिकमनेषणीयमनुपकारि च निर्जन्तुस्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः:१५; मनसोशुभपरिणामनिवृत्तिः शुभप्रवृत्तिः मनःसंयमः 15, अशुभभाषात्यागः शुभमाषाभाषणं वाक्संयमः 16, अशु. मुक्रियानिवृत्तिः शुमप्रवृत्तिः कायसंयमः 17, इति प्राणियारूपः सप्तदशधा संयमो यतीनामन्यया यतित्वाभावः / / ___ अथ राजा गृहस्थानां कथमयं संयम इत्यपृच्छत् / तदा श्रीसूरयः प्राहुः- 'राजन् ! देशतो विरतान गृहस्थानां देशतः संयमोऽस्तीति श्रृयताम् / यथा२०४. थूला सुहमा जीवा संकप्पारंभओ अ ते दुविहा / सावराहनिरवराहा साविक्खा चेव निरविक्खा // . - तत्र प्राणिवधो द्विविधो ज्ञेयः, स्थूलजीवानां सूक्ष्मजीवानां च / तत्र स्थूला द्वीन्द्रियादयः, सूक्ष्मास्त्वेकेन्द्रि- " यादयः; नतु सूक्ष्मनामकर्मोदयवर्तिनस्तेषां व्यापादनाभावात् स्वयमायुष्कक्षयेण मरणात् / तत्र गृहस्थानां स्थूलप्राणिवधान्निवृत्तिः नतु सूक्ष्मप्राणिवधात्, पृथ्वीजलानलादिषु प्रवृत्तत्वादारम्भास्तेषाम् / स्थूलप्राणिवधोऽपि द्विविध संकल्पज आरम्भजच / संकल्पान्मारयाम्येनं कुलिङ्गिनमिति मनःसंकल्परूपाजातः। आरम्भजस्तु कृष्यादिषु प्रवृत्तस द्वीन्द्रियादिव्यापादनं न तस्मान्निवृत्तः, शरीरकुटुम्बादिभरणनिर्वाहाभावात् / संकल्पजोऽपि द्विविधः सापराधो निरपराधश्च / तत्र निरपराधान्निवृत्तिः, सापराधेऽपि जयणा विधेया / इति गृहस्थानामपि देशसंयमः। ... _ अथ द्वितीयलक्षणं सत्यं नाम / तत् सत्यं दशधा जणवयं संमय ठवणी नामे रुवे पडुच्चर्सचे य। ववहार-भार्वं जोगे' दसमे उ कम्मसचे य॥ इति // . 206. एकनासत्यजं पापं पापं निःशेषमेकतः / द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते // . 207. . दीक्षा भिक्षा गुरोः शिक्षा ज्ञानं ध्यानं जपस्तपः / सर्व मोक्षार्थिनामेतत् सत्येन सफली भवेत् // अन्यैरप्युक्तम् - 208 यदा सत्यं वदे वाक्यं मृषाभाषाविवर्जितः। अनवद्यं च भाषेत ब्रह्म संपद्यते तदा // .. अथ राजन् ! तृतीयं धर्मलक्षणं अदत्तादानपरिहाररूपम् - 106. अयशःपटहं दत्त्वा भुक्तवा विविधवेदनाः।इहलोके नरकंयान्ति परलोकेऽदत्तहारिणः॥ 210. परद्रव्यं यदा दृष्ट्वा संकुलेऽप्यथवा रहः / धर्मकामो न गृह्णाति ब्रह्म संपद्यते तदा // अदत्तदानेन भवेद्दरिद्री दारिद्र्यभावात्तु करोति पापम् / पापं हि कृत्वा नरकं प्रयाति पुनदेरिद्री पुनरेव पापी // अय राजन् ! चतुर्य धर्मलक्षणं ब्रह्मचर्यरूपम् / यतः- . 212. विदन्ति परमं ब्रह्म यत् समालम्ब्य योगिनः। तद् व्रतं ब्रह्मचर्य स्यात् धाराधौरेयगोचरम् // 913. या खदारेषु सन्तुष्टः परवारापराबुखः।स गृही ब्रह्मचारी च मुक्तिमामोति पुण्यवान् /