________________ पुरातनाचार्यसंगृहीत अत्रान्तरे कथित् पपाठ . 191. जीवोऽयं विमलखभावसुभगः सूर्योपलस्पर्द्धया धत्ते सङ्गवशादनेकविकृतीलृप्तात्मरूपस्थितिः। यद्यांमोति रवेरिवेह सुगुरोः सत्पादसेवाश्रमं / ___तजातोर्जिततेजसैव कुरुते कर्मेन्धनं भस्मसात् // इति श्रुत्वा सर्वेऽपि दानं ददुः / इति गुरुतत्त्वं ज्ञेयम् / .. 'अथ धर्मतत्त्वमपृच्छत् / श्रीसूरयः प्राहुः, तत्र प्रथमं धर्मलक्षणम् - 192. श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च / अहिंसालक्षणो धर्मस्तद्विपक्षा पातकम् // वेदादिप्रामाण्येन यत् हिंसा विधीयते तत्तेषां जाड्यलिङ्गम् / वेदस्यापौरुषेयत्वेनाप्रमाणत्वात् / न प्रमाणं " वदमतम् / आताधीना हि वाचां प्रमाणता / व्यासेनाप्युक्तम्१०३. दीयते मार्यमाणस्य कोटिं जीवितमेव था। धनकोटिं न गृह्णाति सर्यो जीवितमिच्छति // अतः१९४. यो दद्यात्काञ्चनं मेरुं कृत्लां चैव वसुन्धराम्।सागरं रत्नसंपूर्ण न च तुल्यमहिंसया 195. अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये। समानाजीविताकांक्षा तुल्यं मृत्युभयं द्वयोः॥ . 196. यावन्ति पशुरोमाणि पशुगात्रेषु भारत।। तावद्वर्षसहस्राणि पच्यन्ते पशुघातका 197. पृथिव्यामप्यहं पार्थ! वायावनौ जलेऽप्यहम् / वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम्॥ . 198. यो मां सर्वगतं ज्ञात्वा न चहिस्येत् कदाचन।तस्याहं न प्रणश्यामि स चमांन प्रणश्यति॥ इति विष्णुवाक्यम् / 199. . यत्र जीवः शिवस्तत्र इति यो वेत्ति भक्तितः। दया जीवेषु कुर्वाणः स शिवाराधकः स्मृतः॥ २००.कमांसंक शिवे भक्तिः क मा कशिवार्चनम्।मद्यमांसप्रसक्तानां दूरे तिष्ठति शङ्करः॥ . -इति भगवद्गीतायाम् (1) / 201. यदा न कुरुते पापं सर्वभूतेषु दारुणम् / मनसा कर्मणा वाचा ब्रह्म संपद्यते तदा // ' 202. क्षमातुल्यं तपो नास्ति न सन्तोषात् परं सुखम् / न मैत्रीसदृशं दानं न धर्मोऽस्ति दयासमः॥ -इति जीवदया सर्वेषां मता। __ अथ जीवहिंसाभेदानाह२०३. नवहिं जियवहकरणं, कारावणं, अणुमई य योगेहि। कालतिएण गुणिओ पाणिवहो दुस्सयतेयालो // 1 // * तत्र पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रिया इति नवभेदा मनोवाक्कायैः सह गुणिता जाताः सप्तविंशतिभेदाः / ते च करणकारणानुमतिभिर्गुणिता जाता एकाशीतिः। ते चातीतानागतवर्तमानकालत्रयेण गुणिता जातात्रिचत्वारिंशत् देशते सर्वे प्राणिवधभेदाः 243 / कालत्रयेऽपि हिंसासम्भवोऽस्तीति कालत्रयग्रहणम् / यदुक्तम् अइयं निदामि पडिपन्नं संवरेमि अणागयं पञ्चक्खामि -इति / अथ राजन् ! आकर्ण्यतां जीवदयास्वरूपं संयमस्वरूपं च / तथा हि-पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुः• पवेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणानुमतिभिश्च संरम्भसमारम्भवर्जनमिति नवधा संयमः 9, पुस्तकवा.