________________ कुमारपालप्रबोधप्रबन्ध 178. ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः / निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तपे। 179. नानाशनजुषः कथं गतरुपः स्त्रीसन्निधानाः कथं नीरागा अशुभाशया अकरुणाः कारुण्यवन्तः कथम् / . छत्राचष्टमहाविभूतिविरहा देवाधिदेवाः कथं तस्मात् सर्वगुणद्धिमान् विजयते श्रीवीतरागप्रभुः // 180. न कोपो न लोभो न मानो न माया, न लास्यं न हास्यं न गीतं न कान्ता। न वा यस्य पनि मित्रं न शत्रुस्तमेकं प्रपद्ये जिनं देवदेवम् // -इति देवतत्त्वम् // अथ गुरुतत्त्वम्१८१. त्यक्तदाराःसदाचारामुक्तभोगा जितेन्द्रियाः।जायन्ते गुरवो नित्यं सर्वभूताभयपदाः॥ 182. तपःशीलसमायुक्तं ब्रह्मचारिदृढव्रतम् / अलोलमशठं दान्तं गुरुं जानीहि तादृशम् / / . 183. लानोपभोगरहितः पूजालंकारवर्जितः / मद्यमांसनिवृत्तश्च गुणवान् गुरुरुच्यते // 184. अवद्यमुक्त पथि यः प्रवर्तते, प्रवर्तयत्यन्यजनं च निस्पृहः।। __स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् // विदलयति कुबोधं बोधयत्यागमार्थ, सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति। अवगमयति कृत्याकृत्यभेदं गुरुयो, भवजलनिधिपोतस्तं विना नास्ति कथित् // . इति राजन् ! गुरुलक्षणानि / गृणाति तत्त्वमिति गुरुः, नतु नाममात्रेण कुलक्रमायातः कस्यापि गुरुरस्ति / सर्वेषां प्राणिनामनादिकालमेकेन्द्रियादिचतुरशीतिलक्षजीवयोनिषु भ्रमतां यस्मिन् भवे यस्य कस्यापि प्राणिनोऽज्ञानान्धकारमनस्य यस्तत्त्वातत्त्वव्यक्तिं दर्शयति स एव गुरुगुणैर्गौरवाहॊ गुरुरुच्यते / नापरे वञ्चकाः खार्थप्रिया गुरवः / ___ यदुक्तम् - प्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशया विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थोद्यता देहिनः। आनन्दामृतसिन्धुसीकरचयैर्निर्वाप्य जन्मज्वरम् ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति केचिदुधाः // 187. वायात्रसाराः परमार्थशून्या, न दुर्लभाः क्षेत्रकथा मनुष्याः / दुर्लभा ये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति // .. ये तु स्वरुचिकल्पिताचाराः परस्परविरोधाध्माता मत्सरिणः सदाचारनिन्दकाः कथं ते गुरवः / . 14. सर्वाभिलाषिणः सर्वभोजनसपरिग्रहाः / अब्रह्मचारिमिथ्योपदेशका गुरवो नतु // - श्रीमहाभारतेऽप्युक्तम् - 189.. ये शान्तदान्ताः श्रुतिपूर्णकर्णा, जितेन्द्रियाः प्राणिवधानिवृत्ताः। परिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः // ततः श्रीहेमसूरयः सभायां गुरु-कुगुरुखरूपमभिधायावादिषुः१९०. प्रकाशयन्ति भूयांसि भुवनं भास्करादयः / हार्द पुनस्तमो हन्ति गुरुरेव गुणैर्गक //