________________ कुमारपालप्रबोधप्रबन्ध क्षितिरित्युच्यते क्षान्तिर्जलं शान्तिप्रसन्नता। निस्सङ्गता भवेद् वायुर्हताशो योग उच्यते // 162. यजमानो भवेदात्मा तपोज्ञानदयादिभिः। सोममूर्तिर्भवेचन्द्रो ज्ञानमादित्य उच्यते॥ 163. अकारेच भवेद् विष्णू रेफे ब्रह्मा व्यवस्थितः। हकारेण हरःप्रोक्तस्तस्यान्ते परमं पदम्। 164. पुण्यपापविनिर्मुक्तो मूर्तिरागविवर्जितः / ____ अतोऽर्हद्भ्यो नमस्कारः कर्तव्यः शिवमिच्छता // 165. हंसवाहो भवेद्ब्रह्मा वृषवाहो महेश्वरः। गरुडवाहो भवेद् विष्णुरेकमूर्तिः कथं भवेत्॥ 166. कमलहस्तो भवेद् ब्रह्मा शूलपाणिमहेश्वरः / शङ्खचक्रधरो विष्णुरेकमूर्तिः कथं भवेत् // 167. . . भवबीजांकुरजनना रागाद्याः क्षयमुपागता यस्य / : ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै // इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोक्यमाने दण्डप्रणामपूर्व स्तुत्वा श्रीहेमचन्द्राचार्येषु निषण्णेषु सत्सु, भूपतिः श्रीबृहस्पतिना ज्ञापितः पूजायै समधिकवासनया शिवार्चनानन्तरं धर्मशिलायां शिव शि वे ति जल्पन् तुलापुरुषगजाश्वदानादीनि दानानि वितीर्य समग्रं राजवर्गमपसार्य, तगर्भगृहान्तः प्रवेश्य न महादेवसमो देवो, न मम तुल्यो नृपतिः, न हेमसूरिसदृशो महर्षिरिति भाग्यवैभववशादयत्नसिद्धस्त्रिकसंयोगोऽभूत् / . 646. अथ कर्पूरारात्रिकावसरे कोऽपि मिथ्याटगाह-'यदनेन सूरिणाऽर्द्धनारीनाट्येश्वरराज्यप्रदाता नात्मीयदेवो " नमस्कृतः; किन्तु वीतरागो मुक्तिदाता।' राजा प्राह- 'यदनेन मुक्तिर्न भवति, तदाऽस्माकं राज्यं पुराप्यस्ति, अधुना मुक्तिर्विलोक्यते / मुक्तिप्रदे आरात्रिकं करिष्यामः' / 'परमेष्ठिमूर्तिर्मुक्तिदाता, तत्रारात्रिकं कुरु' इत्युक्ते तत्र गत्वा परमेष्ठिमूर्तिमवलोक्य यावदारात्रिकं करोति, तावद् रामचन्द्रनामा चारणः पपाठ१६८. काहूं मनि विभंतडी अजीय मणिअडा गुणेइ। . अखयनिरंजण परमपय अजय जय न लहेइ // 1 // - इति श्रुत्वाऽऽरात्रिकं मुक्त्वा स्थितः / 'बहुदर्शनप्रमाणप्रतिष्ठासन्दिग्धे देवतत्त्वे मुक्तिप्रदं दैवतमस्मिन् तीर्थे तथ्यया गिरा निवेदय'-राज्ञा इत्यभिहिते श्रीहेमचन्द्राचार्याः किंचित् धिया निध्याय नृपतिं प्राहुः-'अलं पुराणदर्शनोक्तिभिः, श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषि'-इति तद्वाक्यान्नृपश्चिन्तयति-'किमेतदपि जाघटीति ?' / इति विस्मयापन्नमानसे नृपे 'निश्चितमत्र तिरोहितं दैवतमस्त्येवेति / आवां . यदि गुरूक्तगिरा निश्चलावाराधको तदेत्थं द्वन्द्वसिद्धौ सत्यां सुकरं दैवतप्रादुःकरणम् / मया प्रणिधानं भवता / कृष्णागुरूत्क्षेपश्च तदा परिहार्यो यदा व्यक्षः प्रत्यक्षीभूय निषेधति / ' अथोभाभ्यां तथा क्रियमाणे, धूपधूमान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालाप्रदीपकेषु, आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने संभ्रमादुन्मृज्य यावदालोकते तावअलाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रतिमरूपमसंभाव्यस्वरूपं तपस्विनमेकमद्राक्षीत् / तै पादाङ्गुष्ठात् प्रभृति जटाजूटावधि करतलेन संस्पृश्य निश्चितदैवतावतारः पञ्चाङ्गचुम्बितावनितलं यथाभक्त्या नत्वा भूमानिति विज्ञपयामास-'जगदीश ! भवदर्शनात् कृतार्थे मयि, आदेशप्रसादात् कृतार्थय कर्ण-. युग्मम् / ' इति विज्ञप्य तूष्णीं स्थिते नृपे तन्मुखादिति गीरभूत-'राजन् ! अयं महर्षिः सर्वदेवावतारः / अजिह्म'परब्रह्मावलोककरतलकलितमुक्ताफलवद् विज्ञातकालत्रयस्वरूपः, एतदुपदिष्ट एवाऽसन्दिग्धो मुक्तिमार्गः'-इत्यादिश्य तिरोभूते भूतपतौ उन्मनीभावं भजन् भूपतिं प्रति, रचितप्राणायामपवनः श्लथीकृतासनबन्धः श्रीहेमाचार्यो यावदिति वाचमुवाच तावदिष्टदैवतसङ्केतात् त्यक्तराज्याभिमानोऽतीव-पादोऽवधार्यतां, अधुनोत्थीयता'-इति