________________ त पुरातनाचार्यसंगृहीत इति गदितः स परतीर्थपरिहारान्न तत्रागमिष्यति, इति अस्मन्मतमेव प्रमाणम्' - नृपस्तद्वाक्यमादृत्य प्रातरुपागतं श्रीहेमचन्द्रसूरीश्वरं श्रीसोमेश्वरयात्रार्थमम्यर्थयन् 'बुभुक्षितस्य किं निमश्रणम् 1, उत्कण्ठितस्य केकारवश्रवणम् - नि लोकादि:: तपस्विनामधिकततीर्थयात्राधिकाराणां को नाम नृपतेत्र निर्यन्धः।' इत्यं गुरोरङ्गीकारे 'युष्मयोग्य सुखासप्रनभृतिवाहनादि किंचित् सन्जीक्रियतामिति ईरिते वयं पादचारेण सञ्चरन्तः पुण्यमुपलभामहे; परं वय•मिदानीं त्वामपृच्छय मितैः प्रयाणैः श्रीशत्रुञ्जयोजयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीदेवपत्तने प्रवेशो-. त्सवे मिलिष्यामः'-इत्युदीर्य तत्तथैव कृतवन्तः / नृपतेः पुरः विप्राः प्रवदन्त्यदः-'राजन् ! हेमसूरिनंष्ट्वा गतः क्वापि, स न समेष्यति श्रीसोमपत्तने / ' नृपः समग्रसामग्र्या कतिपयैः प्रयाणैः श्रीपत्तनं प्राप्य श्रीहेमसूरीननागतान् वीक्ष्य सर्वत्र योजनपञ्चमध्ये विलोकापिताः / परं न श्रुता न दृष्टाः / यावत् किंचिन्नृपश्चिन्तयति तावत् प्रभुरले धर्माशिषं वभाण / चमत्कृतो राजा विस्मितश्च / प्रभुरूचे- 'अद्याधुना वयं श्रीरैवताचलोपरि देवान्नमस्कृत्य * भवतां प्रवेशमहोत्सवं मत्वा समायाताः' / तदा तच्छ्रुत्वा सर्वेऽपि द्विजा म्लानिं प्राप्ताः। 645. अथ महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानकेष्वाक्रान्तेषु भूपीठलुठनानन्तरं चिरतरातुल्यायल्लकानुमानेन गाढमुपगृहे श्रीसोमेश्वरलिङ्गे, 'एते जिनादपरं दैवतं न नमस्कुर्वन्ती'ति मिथ्यादृग्वचसा भ्रान्तचित्तस श्रीहेमचन्द्रं प्रति एवंविधा गीराविरासीत् - 'यदि युज्यते तदेतैरुपहारैर्मनोहारिभिः श्रीसोमेश्वरमर्चयन्तु भवन्तः।' तत्तथेति प्रतिपद्य सद्यः क्षितिपकोशादागतेन कमनीयोगमेनालंकृततनवो नृपतिनिर्देशात् पतीयाणाविप्रश्रीबृह॥ स्पतिना दत्तहस्तावलम्बाः प्रासाददेहलीमधिरुह्य किंचिद् विचिन्त्य प्रकाशं -'अस्मिन् प्रासादे कैलासवासी. हादेवः साक्षादस्तीति रोमाञ्चकञ्चकितां तनुं बिभ्राणा द्विगुणीक्रियतामुपहारः'-इत्यादिश्य शिवपुराणोक्तदीक्षाविधिना आह्वान-अवगुण्ठन-मुद्राकरण-मत्राभ्यास-विसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यर्च्य तदन्ते१४७. यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद् भवान् एक एव भगवन्नमोऽस्तु ते // 1 // 148. प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् / माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते // 149. महत्वादीश्वरत्वाच यो महेश्वरतां गतः। रागद्वेषविनिर्मुक्तं तमहं वन्दे महेश्वरम् // 150. महाक्रोधो महामानो महामाया महामदः / महालोभो हतो येन महादेवः स उच्यते॥ 151. महावीर्य महाधैर्य महाशीलं महागुणाः। महापूजाद्यर्हत्वाच महादेवः स उच्यते / / 5152. एकमूर्तित्रयो भागा ब्रह्मा-विष्णु-महेश्वराः। तान्येव पुनरुक्तानि ज्ञान-चारित्र-दर्शनैः॥ 153. कार्य विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः / कार्यकारणसंपन्नो महादेवः स उच्यते॥ 154. प्रजापतिसुतो ब्रह्मा माता पद्मावती स्मृता। अभीचिजन्मनक्षत्रमेकमूर्तिः कथं भवेत्॥ 155. वसुदेवसुतो विष्णुर्माता वै देवकी स्मृता / श्रवणं तु जन्मनक्षत्रमेकमूर्तिः कथं भवेत् // 156. पेढालस्य सुतो रुद्रो माता वै सत्यकी स्मृता / मूलं तु जन्मनक्षत्रमेकमूर्तिः कथं भवेत्॥ .157. रक्तवर्णो भवेद ब्रह्माश्वेतवर्णो महेश्वरः। कृष्णवर्णो भवेद विष्णुरेकमूर्तिः कथं भवेत् // 158. चतुर्मुखो भवेद् ब्रह्मा त्रिनेत्रस्तु महेश्वरः।चतुर्भुजो भवेद विष्णुरेकमूर्तिः कथं भवेत्॥ ज्ञानं विष्णुः सदा प्रोक्तं चारित्रं ब्रह्म उच्यते / सम्यक्त्वमीश्वरः प्रोक्तरर्हनमूर्तिस्त्रयात्मिका / / . 160. क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः। इत्येत एव चाष्टौ[हि]वीतरागे गुणाः स्मृताः //