________________ कुमारपालप्रबोधप्रबन्ध भारमनवेत् तद् युष्मादृशामनतिशयदृशां प्राकृतपुरुषाणामतीव दुर्लक्ष्यम् / जलक्षालनकृतं तु यत् पावित्र्यापावित्र्यविवेचनं तन्मूढविस्मापनम् / यदुक्तम् - 137. शौचमाध्यात्मिकं त्यक्त्वा भावशुद्ध्यात्मकं शुभम् / / जलादिशौचं यद् दृष्टं मूहविमापनं हि तत् // 138. कुर्याद् वर्षसहस्राणि प्रत्यहं मन्जनं मुहुः। सागरेणापि कृत्लेन वधको नैव शुद्यति॥' 139. चित्तं रागादिभिः कान्तमलीकवचनैर्मुखम् / जीवहिंसादिभिः कायो गंगा तस्य पराङ्मुखी // 140. चित्तमन्तर्गतं शुद्धं वदनं सत्यभाषणैः। ब्रह्मचर्यादिभिः कायः शुद्धो गंगाविनाप्यसो॥ 141. ब्रह्मचर्येण सत्येन तपसा संयमेन च / मातंगा अपि शुद्ध्यन्ति न शुद्धिस्तीर्थयात्रया॥ 142. . शृङ्गारमदनोत्पादं यस्मात् लानं प्रकीर्तितम् / तस्मात् लानं परित्यक्तं नैष्ठिकैब्रह्मचारिभिः॥. 153. सुखशय्यासनं वस्त्रंताम्बूलं स्लानमण्डनम् / दन्तकाष्ठं सुगन्धं च ब्रह्मचर्यस्य दूषणम्॥ 144. सत्यं शौचंतपः शौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं जलशौचंच पश्चमम् / / ___ इति शास्त्रोक्तं किं युष्माभिरपि न दृष्टं न वा श्रुतं, येनेयं चर्चा क्रियते ।'-इति निशम्य नृपः सपरिकरः प्रमुदितः / ज्ञातः शौचस्य समाचारः / प्राह च तदा- 'अहो ! श्रीहेमसूरीणां खपरशास्त्ररहस्यस्मृतिः, सदाचार-॥ चतुरता च / 145. यतः-एहिरेयाहिरांचके केषां न श्रुतिषु श्रुतम्। परंपरिमलस्तस्य विलीनो विमलात्मसु॥ ज्ञातं च जलशौचं मूढजनमनोविस्मापनम् / 644. अथान्यदा क्षमापतिः पप्रच्छ - 'कयापि युक्त्याऽस्माकमपि यशःप्रसरः कल्पान्तःस्थायी भवति ?" -इति तदीपां गिरमाकर्ण्य 'विक्रमार्क इव विश्वस्यानृणकरणात्, यद्वा श्रीसोमेश्वरस्य प्रासादं वारांराशितरंगनिकरासन्ना- . म्भोभिः शीर्णप्राय युगान्तकीर्तये समुद्धर' - इति चन्द्रातपनिभया श्रीहेमचन्द्रगिरा उद्वेलप्रमदाम्भोधिनृपस्तमेव महर्षि पितरं दैवतं गुरुं मन्यमानो नितरां द्विजान् निन्दन् , तदैव प्रासादोद्धाराय दैवज्ञनिवेदिते सुलग्ने तत्र पञ्चकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् / अथ श्रीसोमेश्वरस्य प्रासादप्रारम्भे खरशिलानिवेशे संजायमाने सति पञ्चकुलप्रहितवर्द्धापनिकाविज्ञप्तिकां नृपतिः श्रीहेमचन्द्रगुरोर्दर्शयन् 'अयं प्रासादप्रारम्भः कथं निःप्रत्यूहं प्रमाणभूमिमधिरोढमेति ?' इति पृथिवीपरिवृढेनानुयुक्तः श्रीमान् किंचिदुचितं विचिन्त्य गुरुरूचिवान् -'यदस्य धर्मकार्यस्यान्तरायं / परिहाय ध्वजाधिरोपं यावद् अब्रह्मसेवानियमोऽथ मद्यमांसनियमः, द्वयोरेकतरं किमप्यङ्गीकुरु'-इति तद्वचनमाकर्ण्य नृपतिर्मद्यमांसनियममभिलपन् श्रीनीलकण्ठस्योपरि जलं विमुच्य तमभिग्रहं जग्राह / संवत्सरद्वयेन तस्मिन् प्रासादे कलशध्वजाधिरोपं यावद् गते सति तं नियमं मुमुक्षुर्गुरुननुज्ञापयन् , तैरूचे- 'यधनेन निजकीर्तनेन सार्द्धमर्द्धचन्द्रचूडं प्रेक्षितुमर्हति भवान् तद्यात्रापर्यन्ते नियममोचनावसरः।' इत्यभिधायोत्थिते श्रीहेमचन्द्रमुनीन्द्रे गते तद्गुणैरुन्मीलन्नीलिरागरक्तहृदयस्तमेकमेव संसदि प्रशंसन् निर्निमित्तो वैरी परिजनस्तेजःपुलमसहिष्णुः कश्चिन्मिथ्यादृष्टी , राज्ञोऽग्रेजल्पत् / / . 146. उज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते। दग्ध्वा तनुमपि शलभो दीपां दीपार्चिमपहरति // 1 // इति न्यायात् पृष्ठिमांसादनदोषमप्युररीकृत्य तदपवादमेवावादीत् - 'यदयममन्दच्छन्दानुवृत्तिपरः सेवा- . धर्मकुशलः केवलं प्रभोरभिमतमेव भाषते / यद्येवं न, तदा प्रातरुपेतः "श्रीसोमेश्वरयात्रायां भवता सहागच्छतु"