________________ पुरातनाचार्यसंगृहीत जैनागमश्च - 117. सबभूअप्पभ्यस्स संमं भूयाई पासओ। पिहियासवस्स दंतस्स पावं कम्मं न बंधई। 118. सधे जीवा विइच्छंति जीविउं न मरिबिउं। तम्हा पाणवहं घोरं निग्गंथा वजयंति गं॥ * अथ वेदेषु नास्ति जीवादया तर्हि न प्रमाणम् , चार्वाकधर्मशास्त्रवत् , दयाविकलत्वात् / किमस्माकं दया. * धर्मनिष्ठानां तैः प्रयोजनमिति श्रुत्वा ते सर्वे तूष्णीं कृत्वा स्थिताः / चमत्कृतो राजा दयाधर्मे मनो दधौ। .. 642. अथान्यदा विप्रैः सम्भूय प्रोक्तम् -'शूद्रा एते, न प्रणामार्हाः' / श्रीगुरुभिरुक्तम् - 'किं नाम तत् शूद्रत्वं, प्रामणत्वं वा किमुच्यते / न तावदेकान्तेन जात्या शूद्रत्वं, ब्राह्मणत्वं वा भवति / यदुक्तम् - 119. शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत् / ब्राह्मणोऽपि क्रियाहीनः शुद्रापत्यसमो भवेत् // // 120. अतः-सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः / ब्राह्मणेष्वपि चाण्डालाः चाण्डालेष्वपि ब्राह्मणाः // 121. कृषि-वाणिज्य-गोरक्षां राजसेवामकिंचनाः। ये च विप्राः प्रकुर्वन्ति न ते कौन्तेय ! ब्राह्मणाः // 3 // 122. हिंसकोऽनृतवादी च चौर्ययाभिरतश्च यः। परदारोपसेवी च सर्वे ते पतिता द्विजाः॥ // 123. ब्रह्मचर्यतपोयुक्ताः समानलोष्टकाञ्चनाः / सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु॥ 124. क्षान्त्यादिकगुणैर्युक्तो व्यस्तदण्डो निरामिषः।न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् / / 125. सदा सर्वानृतं त्यक्त्वा मिथ्यावादाद् विरच्यते / नानृतं च वदेदू वाक्यं द्वितीयं ब्रह्मलक्षणम् // 126. सदा सर्व परद्रव्यं बहिर्वा यदि वा गृहे / अदत्तं नैव गृह्णाति तृतीयं ब्रह्मलक्षणम् // * 127. देवासुरमनुष्येषु तिर्यगयोनिगतेषु च / न सेवते मैथुनं यश्चतुर्थ ब्रह्मलक्षणम् // 128. त्यक्त्वा कुटुम्बवासंतु निर्ममो निःपरिग्रहः। युक्तश्चरति निःसङ्गः पञ्चमं ब्रह्मलक्षणम् // 129. पश्चलक्षणसंपूर्ण ईदृशो यो भवेद् द्विजः। महान्तं ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर!॥ कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः। तपसा ब्राह्मणो जातस्तस्माजातिरकारणम् // 131. हरिणीगर्भसम्भूतो ऋषिशृङ्गो महामुनिः / तप०॥' 132. शुनकीगर्भसम्भूतः शुको नाम मुनिस्तथा / तप०॥ 133. मण्डूकीगर्भसम्भूतो माण्डव्यश्च महामुनिः / तप०॥ 134. उर्वशीगर्भसम्भूतो वशिष्ठस्तु महामुनिः। तप०॥ न तेषां ब्राह्मणी माता संस्कारश्च न विद्यते / तपः॥ * 136. यवत्काष्ठमयो हस्ती यचर्ममयो मृगः / ब्राह्मणस्तु क्रियाहीनत्रयस्ते नामधारकाः॥ . इति श्रुत्वा निरुत्तरेषु विप्रेषु प्रमुदितो राजा / जातं मनसि स्थैर्य श्रीजिनधर्मे / 643. अन्यदा कैश्चित् मत्सरिभिः प्रोक्तम् - 'राजन्नते मलाविलवस्त्राः स्नानाभावादपवित्रगात्रा राजसभायां स्थातुं नोचिताः। इति श्रुत्वा तत्र सकलराजवर्गसमक्षं श्रीसूरिभिरभिदधे- 'कस्य नामापावित्र्यं, शरीरस्यात्मनो वा ? यदि शरीरस्य तर्हि सर्वेषां शरीरस्य तावत् सप्तधातुमयत्वात् पावित्र्यापावित्र्यविभागः कर्तुं केनापि. नो पार्यते /