________________ कुमारपाळप्रबोधप्रबन्ध 101. पाणेहिं संसत्ता पडिलेहा होइ केवलीणं तु / संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा // 1 // . संसजा धुवमेयं.........॥२॥ संसत्तमसंसत्ता.........॥३॥ 105 तित्थयरा रायाणो साहू आरक्खि भंडगं च पुरं। तेणसरिसा य पाणा तिगं च रयणा भयो दंडो॥४॥ तथा धर्मसमुद्देशेऽप्युक्तम्- . 106. आत्मवत् सर्वजीवेषु कुशलवृत्तिचिन्तनम् / धर्माधिगमनोपायः शक्तितस्त्यागतपसी च // 1 // एतदाकर्ण्य राजा चमत्कृतोऽवादीत् - 'अहो ! श्रीजैनागमगम्भीरता जीवरक्षादक्षता च' / ततः समधिका श्रीजिनमतानुरागः समजनि नृपस्य / 640. अथ राज्ञा श्रीगुरूणां हैमटंककसहस्रदशकं पुरो मुक्त्वा योगक्षेमकरणाय गृह्यतामित्युक्ते श्रीसूरिभिरूचे'सर्व दीयमानं द्विजा गृह्णन्ति, नतु वयम्' / ततो राज्ञोचे- 'भगवन्नेते परदर्शनिनः सर्वेऽपि मया दीयमानं सर्वखमपि गृह्णन्ति / परं ब्रह्मचारिभिर्निर्ग्रन्थैर्भवद्भिः कस्मात् कमपि नादीयतेति ?' सूरयः प्राहुः- 'राजन् ! सर्वशासविरोधहेतुत्वात् प्रतिषिद्धं राजपिण्डम् / यदाह स्मृतौ - - 107. अधीत्य चतुरो वेदान् साङ्गोपाङ्गान् सलक्षणान् / शूद्रात् प्रतिग्रहं कृत्वा खरो भवति ब्राह्मणः // 1 // 108. खरो द्वादशजन्मानि षष्टिजन्मानि शूकरः। श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् // 109. राज्ञः प्रतिग्रहो घोरो मधुस्वादो विषोपमः / पुत्रमांसं वरं भुक्तं नतु राजप्रतिग्रहः // - 110. राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर!। सटितानामिव बीजानां पुनर्जन्मो न विद्यते // 4 // -- महाभारते शान्तिपर्वेऽप्युक्तम् / तथा जैनागमे च१११. संनिहीगिहमित्ते य रायपिंडे किमिच्छिए / ......... // 112... संवाहणं दंतपहोयणाय संपुच्छणदेहपलोअणा य // ___ एतत्सर्वं साधूनामनाचीर्णम् / आचेलुक्क उद्देसिय सिजायर रायपिंड किइकम्मे / वयजिट्टपडिकमणे मासं पज्जोसवणकप्पे // 1 // इति दशधा साधूनां सामाचारीकल्पः / इत्याकर्ण्य राजा प्रमुदितो जैनाचारप्रशंसामकार्षीत् / लजिताश्च द्विजाः सर्वेऽधोमुखा अभूवन् / . 641. अथ कतिभिर्दिनै राजा श्रीपत्तनमाजगाम / अन्यदा सभायां निषण्णे राजनि सपरिकरे कोऽपि मत्सरी प्राह'राजन्नेते जैना वेदान् न मन्यन्ते, अतो वेदबाह्या न नमस्कारार्हाः' / किमेतदिति पृष्टा राज्ञा श्रीसूरयः प्राहुः- 'राजन् ! " यदि वेदेषु जीवदयाधर्मोऽस्ति तर्हि सकलशास्त्रसंवादशुद्धं जीवदयाधर्म कुर्वाणां वयं कथं वेदबायाः / यदाहुः११४. अहिंसा प्रथमो धर्मः सर्वशास्त्रेषु विश्रुतः। यत्र जीवदया नास्ति तत्सर्व परिवर्जयेत्॥ 115. ध्रुवं प्राणिवधो यज्ञे नास्ति यज्ञस्त्वहिंसकः। सर्वसत्त्वेष्वहिंसैव दयायज्ञो युधिष्ठिर!॥ 116. यदि प्राणिवघे धर्मः खर्गश्च खल्लु इष्यते।संसारमोचकानां च ततः खर्गोऽभिधीयते।