________________ पुरातनाचार्यसंगृहीत राजाह-'महर्षे ! ऽहं परलोकसमाचरणाय समतृणमणिभिर्भवद्भिः सह संगतिसांगत्यमभिलषामि। यतः९७. एकं मित्रं भूपतिर्वा यतिर्वा............॥१॥ 98. विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि / आकर्णदीर्घोज्वललोचनोऽपि दीपं विना पश्यति नान्धकारे // 2 // ___ महाकविप्रणीतत्वात् / किं मित्रं यन्निवर्त्तयति न पापात्' / श्रीसर्वज्ञशासने महाप्रभावनां ज्ञात्वा श्रीगुरुमिरप्रति षिद्ध तद्वचनम् / ततो नृपस्तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन सर्वावसरं वेत्रिणमादिदेश। . 637. अथ तत्र यातायाते संजायमाने सूरीणां गुणग्रामस्तवं कुर्वत्युर्वीपतौ पुरोधा विरोधादित्यभ्यधात् -'अमी न नमस्कारार्हाः, अजितेन्द्रियत्वात्' / कथमिति राज्ञा पृष्टे प्राह - 99. विश्वामित्र-पराशरप्रभृतयो ये चाम्बुपत्राशिनः, तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः / आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् // 1 // इति वचः श्रुत्वा श्रीसूरिभिरूचे-'न चैवमाहारमाहारयन्ति मुनयः। न चैकान्तेनाजितेन्द्रियत्वकारणमाहारः, किन्तु मोहनीयकर्मणः प्रकृतिरपि, तीव्रमन्दमन्दतरभेदा / तथा च॥ 100. सिंहो बली द्विरदशूकरमांसभोजी, संवत्सरेण रतिमेति किलैकवारम् / ... पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः॥३॥ इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते नृपः प्रमुदितः / / 638. पुनः कियदिने गते नृपप्रत्यक्षं केनापि मत्सरिणाऽभाणि - 'राजन्नेते जैनाः सूर्य न मन्यन्ते, प्रत्यक्षदैवतम् / तत्र श्रीसूरिः प्राह अधामधामधामेदं वयमेव हृदि स्फुटम् / यस्यास्तव्यसने प्राप्ते त्यजामो भोजनोदके // 1 // इति प्रामाण्याद् वयमेव भक्ताः सूर्यस्य नचैते तत्त्वतः / पयोदपटलेश्छन्ने नैव कुर्वन्ति भोजनम् / अस्तंगतेऽतिभुञ्जाना अहो भानोः सुसेवकाः // 2 // ___ व्यासेनापि प्रोक्तम् - ये रात्रौ सर्वदाहारं वर्जयन्ति सुमेधसः। तेषां पक्षोपवासस्य फलं मासेन जायते // 3 // 639. इति तन्मुखबन्धे जाते कदाचिद्देवपूजाक्षणे सौधमागते मोहान्धकारतिरस्कारचन्द्रे श्रीहेमचन्द्रे यश. चन्द्रगणिना रजोहरणेनासनपट्ट प्रमार्ण्य तत्र कम्बले निहिते ज्ञाततत्त्वजुषां किमेतदिति नृपेण पृष्टाः श्रीगुरवः * प्राहुः-'राजन् ! कदाचिदिह कोऽपि जन्तुर्भवति, तदा तत्पीडापरिहरणायासौ प्रयत्नः, सर्वजन्तुरक्षारूपत्वाद् धर्मरहस्यस्य' / 'यदा प्रत्यक्षतया दृश्यते जन्तुस्तदैवेदं युज्यते नान्यथा वृथाप्रयासहेतुत्वादिति' युक्तियुक्तां नृपोक्तिमाकर्ण्य श्रीगुरुभिरुक्तम् - 'राजन् ! यथा भवद्भिश्चौराद्यभावेऽपि नगररक्षार्थ प्रत्यहमारक्षिकाः स्थाप्यन्ते, कटकाभावेऽपि गजतुरङ्गमादिचमूः श्रमाभ्यासं काराप्यते, मा मुष्णन्तु नगरमिति / तथात्रापि ज्ञेयम् / राबव्यवहारवद् धर्मव्यवहारः। तथा चागमः- . 103.