________________ पुरातनाचार्यसंगृहीत एतदाकर्ण्य सोष्माणं राजानमधिगम्यागाधबुद्धिनिधिर्मागधः पुनरभ्यधात् - 86. रवेरेवोदयः श्लाघ्यः कोऽन्येपामुदयाग्रहः। . म तमांसि न तेजांसि यस्मिन्नभ्युदिते सति // 1 // 87. यतः-अहंकारे सति प्रौढे वदत्येवं गुणावली।। अहं कारे पतिष्यामि समायाता तवान्तिकम् // 2 // ___ इति मागधवचनैरुद्दीपितो राजाऽवदत्-'अहो अविज्ञाताहंकारम्वरूपोऽयं भूपः / ' ततस्तदसहिष्णुतया खसभां निभालयन् , नृपचित्तविदा मत्रिश्रीआम्बडेन कृतं ललाटे करसंपुटम् / दृष्ट्वा चमत्कृतो भूपतिः / समाविसर्जनानन्तरमञ्जलिबन्धस्य कारणमपृच्छत् / ततो मत्रिपुत्रोऽवदत-देव! यदस्यां सभायां स कोऽपि सुभटोऽस्ति यो मिथ्याभिमानं नृपाभासं चतुरङ्गनृपवत् मल्लिकार्जुनं जयतीति युष्मादाशयविदा मया स्वाम्यादेशक्षमेणायम"अलिबन्धश्चके / इति तद्वचः श्रुत्वा राजाऽवदत्-'अहो अस्य चातुर्यम्' / 88. उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः। अनुक्तमप्यूहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः॥१॥ ततस्तद्वचःसममनन्तरमेव नृपस्तं प्रति प्रयाणाय दलनायकं कृत्य पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज / स चाविच्छिन्नप्रयाणैः कौंकणदेशमासाद्य दुर्वारवारिपूरां कालंविणिनाम्नी नदीमुत्तीर्य परस्मिन् कूले 4 गते सैन्ये तं संग्रामासजं विमृश्य मल्लिकार्जुनः सर्वाभिसारेण प्राहरन् तत्सैन्यं त्रासयामास / अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णच्छत्रालंकृतमौलिः कृष्णगुड्डुरे निवसन् श्रीपत्तनबहिःप्रदेशे स्थितः। __ अथ विजयादशमीदिने राजपाटिकागतेन श्रीचौलुक्यभूभुजा विलोक्य 'कस्यासौ सेनानिवेशः 1 इति पृष्टे कश्चिदुवाच-'देव ! कौंकणात् प्रत्यावृत्तस्य पराभूतस्याम्बडसेनापतेः सेनासंनिवेशोऽयमिति / ' तदीयलजया चमत्कृतो नृपश्चिन्तयति स्म-'अहोऽस्स लजाशीलत्वम् / अत्रान्तरेऽवसरपाठकः पपाठ॥ 89. लज्जां गुणोघजननी जननीमिवार्यामत्यन्तशुद्धहृदया अनुवर्तमानाः। तेजखिनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् // 1 // ततोऽस्य सपादलक्षदानमदात् / पुनः प्रसादललितया दृशाऽऽम्बडं संभाव्य तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं प्राहिणोत् / ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबन्धे विरचिते तेनैव पथा सैन्यमुत्तार्य सावधानवृत्त्या सन्मुखमायातेन मल्लिकार्जुनसैन्येन सहासमसमरारम्भे जायमाने हस्तिस्कन्धारुढं - वीरवृत्त्या मल्लिकार्जुनमेव रुरोध / द्वयोश्चिरं खड्गाखड्गि दृष्ट्वा मागधः पपाठ९०. अभिमुखागतमार्गणधोरणिध्वनित पल्लवताम्बरगहरे।। वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः॥१॥ इति श्रुत्वा वर्द्धितोत्साह आम्बडः सुभटो दन्तिदन्तमुसलसोपानेन कुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः 'प्रथमं त्वं प्रहर, इष्टं वा दैवतं स्मर' इत्युच्चरन् , करवालधाराप्रहारात मल्लिकार्जनं भूपीठे लोठयित्वा. सामन्तेष - तन्नगरलुण्टनव्याप्तेषु केसरिकिसोर इव करिणं तं लीलयैव जघान / तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यनृपाज्ञां दापयित्वा, त्रिशतीजालान् प्रज्वाल्य श्रीपत्तनमाजगाम / ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत् / शाटी शृंगारकोट्याख्या, पटं माणिक्यनामकं / पापक्षयं करं हारं मुक्ताशुक्तिं विषापहाम् // 23 हैमान् द्वात्रिंशतं कुम्भान् मनुभारान् प्रमाणतः / षण् मूडकांस्तु मुक्तानां स्वर्णकोटीः चतुर्दशः // 24 विशं शतं च पात्राणां चतुर्दन्तं च दन्तिनम् / श्वेतं सेडुकनामानं दत्त्वा नव्यं नवग्रहम् // . 25